________________
सिद्धिविनिश्वयटीकायाम्
[ ७ शास्त्रसिद्धिः
पर्यायात्मकत्वात् तद्वत्' । तत्र गुणाः ज्ञानादयः पर्यायाः सुखादयश्चोक्ताः । न च जीवः पृथिव्यादिपर्यायः, तन्निषेधात् । शेषमत्र चिन्तितम् ।
नन्वसौ जीवः संसारस्वभावोऽन्यथा वा भवेत् ? प्रथमपक्षे - निर्वाणप्रहाणम् । द्वितीये संसारापसारः । कदाचित् संसाररूपः अन्यदा अन्यथा इति चेत्; अनित्यत्वमिति तदभावः ५ इति चेत्; अत्राह - संसारम् उज्झति इति । संसारं गर्भादिसंचरणम् तत्कारणं भाव [कर्म ] * द्रव्यकर्म च उज्झति त्यजति सामग्रीविशेषवशात् । कथञ्चिदनित्यत्वं च नाऽनिष्टम् अनेकान्तवादिनाम् इति ।
२०
કર
कुत एतत् ? इति चेत् ; अत्राह - द्रव्येत्यादि । संसरणलक्षणातं गुणात् स्वरूपाद् मोक्षरूपो गुणः तदन्तर (रं) तस्याधानं सम्यग्दर्शनादिना स्वाधारव्यवस्थापनम्, तस्य प्रति१० धुमशक्यत्वात् । किंभूतस्य ? इत्याह- द्रव्याश्रयस्य द्रव्यम् आश्रयो यस्य इति । अनेन सौगतनैयायिकादिकल्पितस्य निराश्रयस्य शक्यनिषेषधतां दर्शयति । नहि नित्यैकस्वभावः तस्य आत्मा आश्रय युक्तः । आश्रितस्य ततोऽव्यतिरेके मोक्षसंसारयोरन्यतर एव ऐकान्तिकः । व्यतिरेके न तस्य तौ; असम्बन्धात्, समवायनिषेधात् । तदनिषे [धेऽ ] व्यतिप्रसङ्गात् तस्यापि ततो व्यतिरेकात् । प्रतिषेधुमशक्यत्वं च कुतः ? इत्याह-प्रतिक्षणम् इत्यादि । क्षणं क्षणं प्रति व्यक्ति-विरोधाभावौ ( तिरोभावौ ) समनुभवतो जीवस्य क्रमवृत्तेः तथैवाऽप्रतिषेधात् ।
"
८
१५
२५
ननु यस्यां प्रतिबोधावस्थायां व्यक्तिः न तस्या (स्यां) तिरोभावः, यस्यां स्वापाद्यवस्थायां तिरोभावो न तस्यां [३६६ख] व्यक्तिः, अतो [s]दर्शनात् तत्र तं भाव (तदभावः) इति चेत् ; अत्राह-स्वाप इत्यादि । निरूपितमेतत् । तदनुपपत्तेः किं जातम् ? इत्याह- अनादिरयं स्वसंवेदनप्रत्यक्षमाह्यो जीवः । एवं मन्यते - अ - यथा स्वापादिदशापरिगतः पुनः प्रबुद्धो भवति, प्रबुद्धो वा 'दशापरिगतः, तथा जीवोऽनादिः । [ न जीवोऽनादिः ] अपि तु ज्ञानक्षणसन्तानः, तत्रैव बन्धमोक्षव्यवस्थेति चेत्; अत्राह - सन्तानस्यापि इत्यादि । सन्तानस्यापि न केवलं बन्धमोक्षयो[ः] परिणामिनं भावमन्तरेण नियमासंभवात् । सर्वः सन्तानः सर्वस्य यस्या (स्यात्) तन्नियामकस्य प्रभवादेर्व्यभिचारात्, संसारे निर्वाणे वा एक [ : ] सिद्धः ।
तनु (ननु) योऽसौ संसारनिर्वाणयोरेकः " ततस्तयोरव्यतिरेके अभेदः स्यात् । यो हि अभिन्नादभिन्नः सोऽप्यभिन्न एव [ यथा ] स्वरूपम्, अभिन्नौ च अभिन्नात् संसारमोक्षौ इति चेत् ; अत्राह - परत्वव्यावृते (त्तेः इति ) । परत्वं नानात्वं संसारनिर्वाणयोः ऐकान्तिकं यत् तस्य व्यावृत्तेः तत्र एकः सिद्धः । " तयोः नैकान्तेन अभेदो भेदो वा; अन्यथा संसारनिर्वाण - योरेकाधिकरणत्वाभावात् अनुपादानं निर्वाणं स्यादिति भावः ।
(१) पृथिव्यादिवत् । (२) जीवाभावः । (३) रागादि । ( ४ ) पुद्गलात्मकम् । (५) जीवस्य । ( ६ ) नित्यद्रव्यादभेदे । (७) सम्बन्धाभावात् । (८) समवायस्यापि । ( ९ ) स्वापप्रबोधान्यथानुपपत्तेः । (१०) स्वापादिदशापरिगतो भवति । ( ११ ) संसारनिर्वाणयोः । ( १२ ) जीवात् । (१३) संसारनिर्वाणयोः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org