________________
७।९-१० ] क्षणिकपक्षे न सन्तानादिसिद्धिः
४६३ ननु हेतुफलभूताः क्षणा एव प्रत्यक्षा नात्मा कश्चित् । तेषु एकप्रतीतिस्तु सेतो (सत्तो)पलम्भेन सदृशापरोत्पत्त्या वा विप्रलम्भेन आरोपितविषया यमलकवत् मायामा (गो)लकवच्चै । ततो चेतत्क्षणे (चित्तक्षणाः) एव परमार्थसन्तः नैकत्वमिति चेत् ; अत्राह-[अ] क्रमम् इत्यादि ।
[ अक्रमं कमजन्मायः सदसद्भिर्भात्यविद्यया । बहिरन्तर्मुखाकारैः सद्भिस्तत्त्वमिव स्वयम् ॥९॥ भेदोऽपि न परमार्थः तद्वदित्यपरेः विदुः।
भेदैकान्तेऽपि न वै कारकज्ञापकस्थितिः ॥१०॥ नापि बहिरन्तर्वा प्रतिक्षणं परमार्थतो भेदोपलब्धिर्यथा व्यावर्ण्यते, प्रत्यक्षस्य विप्रतिपत्तिविषयत्वात् निर्विषयत्वाच्चानुमानस्य । न वै किञ्चिज्ज्ञानं सन्मात्रतत्त्वं व्यभिचरति भेदेष्वेव व्यभिचारात् । स्वपरसन्तानविकल्पस्य मिथ्यावभासाद् भेदैकान्तेऽपि १० कुतः सिद्धिः ? व्यापारादिबुद्धेश्च समीहामात्रव्यभिचारे पारम्पर्येणापि क्रियाऽव्यभिचारः किन्न स्यात् यतो बहिरर्थसिद्धिन भवेत् ? स्वपरक्रमविकल्पानां सर्वथाऽविद्यात्मकत्वात् सर्वविकल्पातीतं तत्त्वमिति; तदनुपपत्तिः प्रमाणाभावात् भेदैकान्तवत् ।]
सत् सत्ता भावप्रधा[नत्वा]न्निर्देशस्य । नाति (भाति) प्रतिभासते । किंभूतम् ? [३६७क] इत्याह-अक्रम (मं) हेतुफलादिक्रमरहितम् । कैः सह भाति ? इत्याह- १५ असद्भिरविद्यमानैः । केन कारणेन तथाविधैः तैः तदाभाति ? इत्याह-अविद्यया इति । अविद्यया मिथ्याज्ञानेन , न पुनर्विद्याया अभावेन तस्य हेतुत्वायोगात् । न्याप्यन्येन ; विद्यायाः सत्तालक्षणायाः अन्यस्याभावात् । अवस्तुभूता[या]स्त्वविद्यायाः ततः तत्त्वान्य त्वभ्यामवाच्यत्वादिति । अत्र सौगतप्रसिद्धं निदर्शनमाह-बहिरित्यादि । 'यथा' अर्थे इव शब्दः। तत्त्वं ज्ञानलक्षणं यथा बहिरन्तर्मुखाकारैः सद्भिः आभात्यविद्यया तथा सत् । ततोऽ- २० भेदवत् भेदोऽपि न परमार्थ इत्येवमपरे सौगतादन्ये सत्तैकान्तवादिनो विदुः इति । इदं व्याख्यानं सुन्दरं यद्वक्ष्यति वृत्तौ -'नवै किश्चिज्ज्ञानं सन्मात्रतत्त्वं व्यभिचरति भेदेष्वेव व्यभिचारात' इति । अथवा यदुक्तम्-'संसारे निर्वाणा (निर्वाणे) वैक (कः) सिद्धः' इति; तत्सत्यम् ; किन्तु स सकलपुरुषपरिणामादिकल्पित [:] स्यात् । यदुक्तम्-*"पुरुष एवेदम्" [ऋक्० १०।९०।२] इत्यादि । *"विश्वः सन्मानदेहो विविधकृतिरिह द्रव्यमेकं २५ (कः) पदार्थः ।" इत्यादि च । यदि वा ब्रह्मैव परमार्थसत् अपर (रोs)विद्यावशादाभातीति वादिकल्पितः स्यात् । एतदप्युक्तम्
(२) "तां पुनरनित्यतां पश्यन्नपि मन्दबुद्धिर्नाध्य वस्यति सत्तोपलम्भेन. सर्वदा तद्भावशङ्काविप्रलब्धः सदृशापरोत्पत्तिविप्रलब्धो वा..."-प्र. वार्तिकाल. २०२०८ । (३) "क्वचित्तदपरिज्ञानं सदृशापरसम्भवात् । भ्रान्तेरपश्यतो भेदं मायागोलकभेदवत् ॥"-प्र० वा० २११०४। हेतुबि० टी० पृ० १२० । (१) ज्ञानाभावस्य । (५) इवशब्दः 'यथा' इत्यस्यार्थे । (६) अस्मिन्नेव श्लोके । (७) पूर्वश्लोके।
इतफलभनय
ताण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org