________________
४६४
सिद्धिविनिश्चयटीकायाम् [७ शास्त्रसिद्धिः *"यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । संभिन्नमिव मात्राभिर्भिन्नाभिरभिमन्यते ॥ तथेदममलं ब्रह्म निर्विकल्पमविद्यया । कलुषत्वमिवापन्नं भेदरूपं प्रपद्यते ॥" [३६७ख]
[बृहदा० भा० वा० ३।५।४३,४४ ।] इति दर्शयन्नाह-अक्रममित्यादि । तत्त्वमाभाति इत्यपरे पुरुषवादिनो विदुः। किंभूतम् ? अक्रमम् स्वयम् उत्पत्तिविनाशादिवर्जितम् । कैराभाति ? इत्याह-क्रमजन्मायैः' इति । किंभूतैः ? इत्याह- असद्भिरिति । सद्भिः इत्यनेनात्र सम्बन्धः ।
ननु यदक्रमं तत्कथं क्रमवदाभाति इति चेत् ? अत्राह-बहिरित्यादि । अस्याऽयमर्थः१० यथाऽक्रमं विज्ञानतत्त्वं भेदवादिनः बहिरन्तर्मुखाकारैः सद्भिराभाति तथा प्रकृतमपि
इति । अनेन *"पुरुष" [ऋक्०] इत्यादि दर्शितम् । तथा अक्रमं तत्त्वमाभाति । कैः ? क्रमजन्माद्यः। किंभूतैः ? इत्याह-असद्भिरिति । संभवतो विशेषणविशेष्यभावः इति 'अविद्यया' इति विशेषणम् अ[ने] नैव सम्बध्यते न पूर्वेण । बहिरित्यादि निदर्शनम् । अवि
द्यया बहिरन्तः तत्त्वमाभाति इति । १५ ननु यदि सत्तामात्रं तत्त्वं कथं कारकादिभेदप्रतीतिः इति चेत् ? अत्राह-भेदैकान्तेऽ
पीत्यादि । न केवलम् अभेदैकान्ते सत्तैकान्ते किन्तु भेदैकान्तेऽपि कार्यकारणभावनिषेधात् कार [काणां] कादीनां ज्ञापकानां प्रत्यक्षादीनां स्थितिः नवै नैव परमार्थतः किन्तु कल्पनातः । कल्पना च अन्यत्रापि ।।
ननु भेदैकान्तस्य प्रमाणविषयत्वात् तत्र तंत्स्थितिः परमार्थत इति चेत् ; अत्राह-प्रति२० क्षणम् इत्यादि । क्षणं क्षणं प्रति नापि भेदोपलब्धिः । क ? इत्याह-बहिरन्तर्वा । कथं
नास्ति ? इत्याह-यथा येन क्षणिकैकपरमाण्वाकारप्रकारेण व्यावर्ण्यते सौगतैः भेदोपलब्धिः तेन प्रकारेण । कुत एतत् ? [३६८क] इत्यत्राह-प्रत्यक्षस्य इत्यादि । प्रत्यक्षस्य परकल्पितकल्पनापोढाभ्रान्तज्ञानस्य विप्रतिपत्तिविषयत्वाद् विवादगोचरत्वात् । नहि तद् वादिप्रतिवादिनोः अविगानेन प्रसिद्धम् , येन ततः किञ्चित् सिद्धं चेत् अविवादं स्यादिति न सौगतेन २५ तँदेकान्ते साधनं वाच्यम् । न चान्यकल्पनया सिद्धं नाम कस्यचित् साधनं वा अन्यथा बुद्धिचैतन्ययोर्भेदसिद्धिरेवं किन्न स्यात् ?
स्यान्मतम्-मा भूत् एकैकपरमाणुनिष्ठस्य प्रत्यक्षसिद्धिः ततो वा वस्तुनः; व्यवहारात्तु परस्य स्यात् , ततो भेदोपलब्धिरपि स्यादिति चेत् ; अत्राह-प्रत्यक्षस्य विरुद्धा विचित्रा वा १. प्रतिपत्तिः अनेकान्तप्रतिपत्तिः तद्विषयत्वात् । नापि भेदोपलब्धिः यथा व्यावर्ण्यत इति । मा भूत् प्रत्यक्षात्तदुपलब्धिः अनुमानात् स्यादिति चेत् ; अत्राह-निर्विषयत्वाच्च अनुमान
(७) कारकक्रियादीनां भेदप्रतीतिः। (२) कारकज्ञापकस्थितिः । (३) "प्रत्यक्षं कल्पनापोढमभ्रान्तमिति"-न्यायबि० ॥४। (४) क्षणिकैकान्ते । (५) सांख्यमतीय ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org