________________
७१० ] क्षणिकपक्षे न सन्तानादिसिद्धिः
४६५ स्येति । सामान्यविषय[मनु]मानम् *"अन्यत् सामान्यं सोऽनुमानस्य विषयः" [न्यायवि० १।१६,१७] इति वचनात् । सामान्यं च परस्यं न किश्चित् , ततो मरीचिकाजलज्ञानवत् नातो वस्तुसिद्धिरिति भौविभक्तिपरिणामेन सम्बन्धः । एतदुक्तं भवति-यदि प्रत्यक्षं पूर्व पश्चाच्च भेदैकान्तविषयं स्यात् युक्तमेतत्-तत उत्पत्तेः तदव्यभिचाराच्च तत्रानुमानं प्रमाणमिति, न चैवमिति ।
यत्पुनरेतत् परस्य मतम्-यद्यपि बहिरन्तश्च भेदवदभेदस्यापि प्रतिभासः तथापि भेद एव पारमार्थिकोऽव्यभिचारात् न (ना) भेदो विपर्ययादिति; तत्राह-न वै किञ्चिदि [त्यादि] [३६८ख] नवै नैव किञ्चित् प्रत्यक्षम् अन्यद्वा ज्ञानम् तन्मात्रतत्त्वं व्यभिचरति । क्व तर्हि तस्य व्यभिचारः १ इत्याह-भेदेष्वेव व्यभिचारात ज्ञानस्येति । तथाहि-द्विचन्द्रादिज्ञानं द्वित्वं व्यभिचरति । ततो भेदवदभेदस्यापि न वा कस्यचित् सिद्धिरिति ।
ननु सत्तामात्रं चेत् तत्त्वम् ; तर्हि प्रतिपाद्यप्रतिपादकभेदविरहात् कुतः कः तत्त्वं प्रतिपाद्यत इति चेत् ? अत्राह-स्वेत्यादि । स्वो वादी परः प्रतिवादी तयोः सन्तानौतयोर्विकल्पस्याव्य (ध्य) वसायस्य भेदस्य वा मिथ्यावभासाद् भेदैकान्तेऽपि कुतः सिद्धिः भेदैकान्तस्येति । तथाहिस्वसन्तानप्रत्यक्षस्य विप्रतिपत्तिविषयत्वात् , अनुमानस्य निर्विषयत्वात् , परसन्तानविषयस्य स्वप्ने तदभावेऽपि व्यापारादिलिङ्गभावादिति भावः । अथ जाग्रहशायां परचेतसो व्याहारादिः १५ साक्षात् , स्वप्ने परम्परया, ततो न व्यभिचार इति ; अत्राह-व्यापार इत्यादि । व्यापारादिबुद्धेश्च समीहा चेष्टा सैव तन्मात्रम् तत्राव्यभिचारे अङ्गीक्रियमाणे । केन प्रकारेण ? इत्याहपारम्पर्येणापि । अपि शब्दात् 'साक्षात् तदव्यभिचारे' इति ग्राह्यम् , क्रियाऽव्यभिचारः क्रिया व्यापारव्याहारात्मिका इह गृह्यते, क्रियाग्रहणम् उपलक्षणं तेन घटादेरपि ग्रहणम् , तदव्यभिचारः किन्न स्यात् ? स्यादेव 'तबुद्धेः' इति सम्बन्धः, यतोऽव्यभिचारस्या (स्य) भवनाद्, बहिर- २० र्थसिद्धिर्न भवेत् । एवं मन्यते-यथा स्वप्ने अर्थरूपक्रियाविरहेऽपि तदवभासदर्शनात् अन्यदापि तद्विरहेऽपि तदवभास इति [३६९क] नार्थसिद्धिः तथा स्वप्ने परम (पर)समीहा[5]भावेऽपि व्यापारव्याहारनिर्भासबुद्धर्भावाद् अन्यत्रापि तदभावेऽपि तद्भाव" इति न सन्तानान्तरमिद्धिः इति ।
एतेन स्वप्नान्तिकशरीरमवितथं कल्पयन् विनिवारितो द्रष्टव्यः बहिराऽनिराकरणात् । २५
अत्र प्रज्ञा क र मतमाशङ्कते दूषयितुं स्वपरेत्या [दि] । सर्वविकल्पातीतं तत्त्वम् इति। कुतः ? इत्यत्राह-सर्वथा[5]विद्यात्मकत्वात् । कस्य ? इत्याह-स्वेत्यादि । स्व स्व [श्च] परश्च क्ष (क)मश्च हेतुफ[ल]भावः तेषां विकल्पो व्यवसायः । अनेन तेषां प्रत्यक्षविषयतां दर्शयतां (ता सत्तां) दर्शयति तस्य । अत्र दूषणमाह-प्रमाणाऽभावाद् इत्यादि । तस्य सर्व
(१) बौद्धस्य । (२) अनुमामात् । (३) 'भा' इति तृतीयाविभक्तिः। (४) बौद्धस्य । (५) अनुमानस्य । (६) परसन्तानाभावेऽपि । (७) जाग्रहशायामपि । (6) अर्थक्रियाधिरहेऽपि । (९) जाग्रहशायामपि । (१०) सन्तानान्तराभावेऽपि । (११) व्यापारव्याहारादिसद्भाकः । (१२) प्रज्ञाकरः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org