________________
४६६
सिद्धिविनिश्चयटीकायाम् [७ शास्त्रसिद्धिः विकल्पातीतर[य] तत्त्वस्य अनुपपत्तिः तदनुपपत्तिः । कुतः ? प्रमाणाभावात् । तथाहि-न तत्र प्रत्यक्षं प्रमाणम् , अनेकान्तात्मकसुखादिघटादिव्यतिरेकेण तदनुपलब्धिः (ब्धेः) । न च धर्मधर्मिविकल्पाभावे अनुमानं विकल्पेतरस्वरूपाभावे च । अत्र निदर्शनमाह-भेदवदिति । नीलादिसुखादिनानात्वस्येव तद्वद् इति । एतेन प्रथमार्थेन कारिका व्याख्याता । ५ इदमपरं व्याख्यानम्-भेदैकान्तेऽपि इत्यादेः । न केवलमभेदैकान्ते अपि तु भेदैकान्तेऽपि कारकज्ञापकस्थितिः न वै नैव परमार्थतः किन्तु पुरुषपरिणामपक्ष इति भावः । अनेन 'अक्रम क्रमजन्माद्यः सदभिराभाति' इति व्याख्यातम् । कुत एतदिति चेत् ? अत्राह-प्रतिक्षणमित्यादि । सुगमम् । एतदपि कुतः ? इत्याह-प्रत्यक्षस्य इत्यादि।
स्वसंवेदनाध्यक्षस्य ग्राह्यग्राहकसंवित्तिभेदरूपस्य [३६९ख] विप्रतिपत्तिविषयत्वात् , इन्द्रिय१. प्रत्यक्षस्यापि अनेकावयवरूपाद्यात्मकधाति (कस्य विप्रति)पत्तिविषयत्वात् , निर्विषयत्वाच्च मिथ्याविकल्पवासनोपकल्पितस्वांशमात्रविषयत्वाद्वाऽनुमानस्य कुतः प्रत्यक्षादनुमानाद्वा भेदैकान्तस्य सिद्धिः परिणामस्यैव स्यादिति मन्यते ।
अनेन बहिरन्तराभाति तत्त्वमिवेति निगदितम् । न वै न खलु। किम् ? विज्ञानं सन्मात्रतत्त्वं संवेदनं मात्र (दनमात्र) तत्त्वं संदनं [सत् ]संवेदनमित्यर्थः। सदि (सदे)र्गत्य१५ र्थस्या (स्य) वेदनार्थत्वात् । व्यभिचरति सर्वेषाम् आत्मनाम् संवेदनापेक्षया एकात्मकत्वाद्
एक एवात्मा परमार्थसन्नित्यर्थः । क तर्हि व्यभिचारः ? इत्याह-भेदेष्वेव सुखादिष्वेव व्यभिचारात् ज्ञानस्येति ।
___ ननु स्वपरसन्तानभेदात् कथं पुरुषमात्रमिति चेत् ? अत्राह-स्वपरेत्यादि । अनेन 'अक्रम क्रमजन्माचरसद्भिरविद्यया भाति' इति व्याख्यातम् । उपसंहारमाह-स्व२० परेत्यादि । सर्वविकल्पातीतं सर्वभेदरहितं तत्त्वं पुरुषस्वरूपम् । इति शब्दः पूर्वपक्षसमाप्त्यवचो
[प्तौ । अत्रोत्त]रमाह-प्रमाणाभावात् इत्यादि । तस्यात्मनः सकलपरिणामात्मतोपपत्तिः । कस्य चे [कस्येव ? इत्याह-भेदवद् (भेदैकान्तवत) इति । सर्वस्य सर्वतो व्यावृत्ति [B] भेदः [तस्य एकान्तः] तस्येव तद्वद् इति । कुतः ? इत्याह-प्रमाणाभावात् 'सर्व (व)
पुरुषस्यैकस्य परिणामः' इत्यत्र प्रत्यक्षस्य प्रमाणस्याभावात् । नहि यथा एकसन्तानपतितेषु २५ सुखादिषु अहमहमिकया अस्खलदेकत्वप्रत्ययविषयत्वं तथा सर्वस्य तनोत्तसुर (सर्वसन्तानान्तर)
सुखादिषु [३७०क] घटादिषु च । योऽपि (यापि) तत्रै यच्चेत वीति (सच्चेतनादिना एकत्व)प्रतीतिः सोऽपि (सापि) समानपरिणामविषया, नैकत्वविषया, तत्तथाननुभवनात् । न चान्यप्रतीतेः अन्यविषयसिद्धिः, अन्य[था] नीलप्रतीतेः पीतसिद्धिः स्यात् । ततः प्रत्यक्षस्य अत्राभावः, तद
भावादनुमानस्यापि तत्पूर्वकत्वादस्य । न चैकात्मपरिणामित्वमन्तरेण जगतः किञ्चिदनुपपन्नं ३० यतः तत्परिकल्पनं स्यात् । सर्वस्य स्वसामग्रीतः एव भावात् । स्वपर-दातृगृहीत-बध्यबधकादिव्यवहारोऽप्यत्रं दुर्घटः । तन्न अनुमानात् [तत्सिद्धिः ।]
(१) सदनं गमनमित्यर्थः । (२) सद्गमने धातोः । (३) पटादिषु सुखादिषु च । (४)अनुमानस्य । (५) एकात्मपरिणामस्वीकारे।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org