________________
७१० ]
ब्रह्माद्वैतनिरासः
४६७
ननु ' प्रमाणाभावात्' इत्यसिद्धम्, “पुरुष एवेदम्" [ऋक्० १०।९०।२] इत्यादि आगमस्य भावादिति चेत्; न; अस्य अध्यक्षबाधितत्वेन अनागमत्वात् पिटक त्र या दिवत्, तेदन्तरसद्भावाच्च । यदि वा, तस्यामलस्य निर्विकल्पस्य ब्रह्मणा [णो ] sनुपपत्तिः, तदनुपपत्तिः । कस्येव ? इत्याह-भेदैकान्तवद् इति । भिद्यते अन्यस्मात् सर्वतः इति भेदा [द] निरंशज्ञानं तस्येव तद्वद् इति । कुतः ? प्रमाणाभावात् । तदभावोऽपि प्रत्यक्षस्य विप्रतिपत्तिविषय- ५ त्वात् चेतनेतरभेदविषयत्वात् निर्विषयत्वाच्च अनुमानस्य । तत्रापीदं वक्तव्यम् - कुतः सिद्धिः अभेदैकान्तस्य इति ? आगमोऽपि यदि ततोऽनन्यः; तद्वदसिद्धि: (द्धेः) । नच तदेव प्रतिपाद्यं प्रतिपादकं च, विरोधात् । आगमप्रतिपत्तिरेव वा अस्मिन् दर्शने तत्प्रतीति:" इति कस्तत्र आगमस्योपयोगः ?
"
किंच, आगमाद् ब्रह्म वा तत्स्वरूपं प्रतिपद्येत, अन्यो वा ? प्रथमपक्षे
स्ववित्तिरहितं ब्रह्म यदि वेत्ति, ततः कथम् ।
आत्मानं घटवत् पूर्वमिति सर्वं निरूपितम् ॥१॥
विद्याऽविद्याविभागोऽयं [ ३७०ख] निक्षिप्तोऽवि तिक्त एकोके ( Sविविक्तके) । नेत्याहो ( नेत्यपो) ध्रियते तस्मान्मानत्राणविवर्जितः ||२|| तस्यात्मवेदनं नित्यं तच्चेत् प्रागपि विद्यते ।
४
आगमादस्य वैफल्यं सिद्धस्यास्तु क्रिया कुतः ॥३॥ आगमेन कृतत्वेऽस्य कथं नित्यत्वमुच्यताम् । तदनित्यत्वतः प्राप्तमात्मनोऽपि तदेव तु ॥ ४॥ अविकल्पात्मसंवित्तै (त्ति) रन्या चेदागमाद् भवेत् । आत्मभूतैव तस्येह ध्रुवता कथमुच्यते ॥ ५ ॥ न चान्ययात्मसंवित्तिशून्यया वेत्ति कश्चन । आत्मानमन्यथा प्राप्तम् आत्मवैफल्यमञ्जसा ॥६॥ तन्न वेत्त्यात्मना रूप स्वसं (पं स्वं सद्) ब्रह्म ततः पुनः । अन्येन वेदने तस्य तदद्वैतं कथं भवेत् ॥ ७॥
अविद्या निर्मितोऽन्यश्च स कथं प्रतिपद्यताम् । ब्रह्मरूपं जलभ्रान्तेः पिपासानाशकं न हि ॥ ८ ॥
अन्योऽपि वेत्तिमात्मानं (चेत्तमात्मानं ) यदि सोऽस्तु कथं हि सन् । अन्येन वेदने तस्य वार्यते नानवस्थितिः ॥ ९॥
अन्यस्यापि ततोऽन्येन यस्मात् वित्तिपरिग्रहः । ब्रह्मवद् वित्तिसद्भावः तस्य स्यात् स्वयमेव चेत् ॥१०॥
(१) आगमस्य । (२) भेदसाधक - आगमान्तरसद्भावाच्च । ( ३ ) ब्रह्मणः । (४) अभेदवादे । (५) ब्रह्मप्रतीतिः तयोरभेदात् ( ६ ) अभेदस्वरूपम् । (७) आत्मवेदनस्य । (८) अभेदात् ।
Jain Education International
For Personal & Private Use Only
१०
१५
२०
२५
३०
www.jainelibrary.org