________________
सिद्धिविनिश्चयटीकायाम्
[७ शास्त्रसिद्धिः अविद्यानिर्मितत्वेऽस्य का वार्ता वत भण्यताम् । ब्रह्मणा वेदनं तस्य यदि भण्येत भावतः ॥११॥
विद्यतरात्मता प्राप्ता ब्रह्मणि स्वात्मवेदने । तन्न कस्यचित् ब्रह्मप्रतिपत्तिः । तन्न युक्तम्
*"अनि (अती)न्द्रियानसंवेद्यान् पश्यन्त्यापेण चक्षुषा ।
ये भावान् वचनं तेषां नानुमानेन बाध्यते ॥"[वाक्यप० १।३८] इति । कस्यचिद् दृष्टरेवाभावादिति ।
आगमस्य ततोऽन्यत्वे तदद्वैतं कथं मतम् । तेनास्य वेदने [३७१क] प्राप्तो ग्राह्यग्राहकतानयः ।। अवेदने कथं सिद्धिरागमस्यास्तु तत्त्वतः । अविद्यैव मतः सोऽपि त्वया चेदागमः कथम् ॥ तंतस्तत्त्वं प्रतीयेत से वा केन प्रतीयताम् । अप्रतीता तथा वाच्या अन्यत्वेनेतरेण वा ॥
अविद्या कथमुच्येत विद्यायाः पण्डितैः स्वयम् । इति । ततः स्थितम्-'प्रमाणाऽभावात' इत्यादि । इतश्च नैकान्ततो भेदोऽभेदो वाऽर्थानामिति दर्शयन्नाह-भेदाभेदात्मक इत्यादि ।
[भेदोऽभेदात्मकोऽर्थानामन्यथानुपपत्तितः ।
भेदात्मकस्तथाऽभेदः तत्त्वं नैकान्ततस्ततः ॥११॥
लोकस्य मार्गप्रतिपत्तेः प्रमाणं अन्धष्टिकल्पम् । तदविद्यात्मकं चेत् केनायं २० प्रतिपक्षमन्धायति ? समारोपव्यवच्छेदस्यापि तत्त्वाप्रतिपत्त्यात्मकत्वात् कुतस्तत्त्वं प्रतिपद्येत ? यदिमौ नान्योन्यमतिशयाते यतः परमार्थसत्त्वाभावः प्रतीयते । तन्न *"यादर्शनमेवेयं माननेयफलस्थितिः" अपि तु परमार्थता, परमार्थाभ्युपगमान्यथानुपपत्तेः अव्यवस्थाप्रसङ्गादिति । भेदैकान्ते संविदितस्य असंविदिताकारासंभवे भ्रान्तिरेव न क्वचित् स्यात् । संवेदनस्य कंचनाकारं(रम)संवृण्वतो विभ्रमस्यैवायोगात् व्यक्ताकार२५ त्ववत् ।
प्रस्तावाद् अर्थानाम् एकसन्तानसुखादीनाम् न सन्तानान्तराणां तत्र [अ]भेदाऽनभ्युपगमात् । भेदो नानात्वम् । स किम् ? इत्याह-अभेदात्मकः कथञ्चिदेकत्वस्वभाव इत्यर्थः । कुतः ? इत्याह-अन्यथानुपपत्तितः इति । अन्यथा अन्येन भेदस्याऽभेदात्मत्वाभावप्रकारेण अनुपपत्तितः भेदस्य अर्थानाम् इति वा योज्यम् । यथैव हि तेषां
(१) आगमात् । (२) आगमः । (३) भिन्नत्वेन अभिन्नत्वेन वा । (४) “यथानुदर्शनन्चेयं मानमेयफलस्थितिः। क्रियतेऽविद्यमानापि ग्राह्यग्राहकसंविदाम् ॥"-प्र. वा०. २०३५७ । (५) प्रकरणात् । (६) सन्तानान्तरगतसुखादीनाम् अभेदो नास्ति इत्यर्थः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org