________________
४६९
७।११ ]
भेदाभेदात्मकं तत्त्वम् भेदाऽभावे नार्थक्रियादयः तथा [भेदाऽभावेऽपि । भेदात्मकः तथा तेन अन्यथानुपपत्तिप्रकारेण अभेदः तत्त्वमने (त्त्वं नै)कान्ततः ततः। ___नंनु सर्वस्य ग्राह्यस्य तैमिरिककेशादिवदसत्त्वात् 'अर्थानाम्' इत्ययुक्तमिति चेत् ; अत्राह-प्रमाणम् इत्यादि । प्रमाणं प्रत्यक्षादि अन्धयष्टिकल्पम् । कस्य सम्बन्धि ? इत्याहमार्गप्रतिपत्तेः यो येनाभ्युपगतो मोक्षोपायः स तस्य मार्ग इष्यते । [अभ्युपगता] च सौग- ५ तेन प्रमेयासत्यता निर्वाणोपायः, ततः सैवे तस्य मार्गः, तस्य प्रतिपत्तेः । न हि सा प्रमाणतामन्तरेण सिध्यति विषयवत् । कस्य स (त)त्तथाभूतम् ? इत्याह-लोकस्य तथागतजनस्य । ततः किम् ? इत्याह-तच्चेद् इत्यादि । तत प्रमाणं चेद् यदि अविद्यात्मकं [३७१ख] स्वरूपेऽपि च भ्रान्तम् । एवं मन्यते-स्वप्ने घटादेरविद्यात्मकत्वदर्शनात् अन्यदापि परेण तस्य तत्त्वमिष्यते, तदुभयत्र तत्त्वदर्शनात् प्रमाणस्यापि तदिष्यताम् इति केन हेतुना अयं सौगतलोकः १० प्रतिपक्षं सकलस्य परमार्थसत्त्वे मन्धामति । न् । ते ( सत्त्वम् अन्धायति) न केनचिद् इत्यर्थः । परमार्थप्रमाणाभावे प्रतिपक्षवस्त्व (वत् स्व) पक्षस्याप्यसिद्धः इति ।
ननु न सौगतः कस्यचित् केनचित् तत्त्वतोऽसत्त्वं साधयति येनाऽयं दोषः, किन्तु परमार्थसत्त्वाभावे यदारोपितं बहिरन्तर्वा परेणं तत्सत्त्वं तदेव अनुमानेन अविद्यात्मनापि निराक्रियते इति चेत् ; अत्राह-समारोप इत्यादि । परमार्थसत्त्वरहितेऽपि परमार्थसत्त्वज्ञानं समारोपः १५ तस्य व्यवच्छेदो निरासः तदनुमानं वा तस्यापि न केवलं प्रत्यक्षस्य तत्त्वाप्रतिपत्त्यात्मकत्वात् । तत्त्वम् अविद्यात्मकत्वं तस्याऽप्रतिपत्तिः तदात्मकत्वात् । यथैव हि प्रत्यक्षात् तथा तेंव्यवच्छेदादपि न तत्त्वप्रतिपत्तिरिति । [न] ततोऽपि तत्प्रतीतिरिति चेत् ; अत्राह-कुत इत्यादि । तत्त्वं मिथ्यात्वं प्रतिपद्यत विभ्रमाऽसिद्धः इति भावः । यद् यस्मात् तत्त्वप्रतिपत्तिरूपादियौ (दिमौ) विचार्यमाणौ भेदाऽभेदैकान्तौ द्रव्यपर्यायैकान्तौ न अन्योन्यमतिशय(या)ते यतः २० परमार्थसत्त्वाभावः प्रतीयते ।
तदस्ति (नन्वस्ति) स्वसंवेदनाध्यक्षं परमार्थत इति चेत् ; अत्राह-तन इत्यादि । तत् तस्मात् सर्वविकल्पाभावप्रतीतिरूपात् स्वसंवेदनात् [३७२क] न *"यथादर्शनमेवेयं मानमेयफलस्थितिः।" [प्र० वा० २।३५७] कथं तर्हि सा ? इत्याह-अपि तु किन्तु परमार्थतः । कुतः ? इत्यत्राह-परमार्थेत्यादि । परमार्थस्य सकलविभ्रमादिस्वभावस्य योऽभ्युपगमः तस्य अन्यथा २५ अन्येन तत्त्वतो मानमेयस्थित्यभावप्रकारेण अनुपपत्तेः हेतोः तत्त्वतः "सा' इति सम्बन्धः ।
ननु तदभ्युपगमश्च स्यान्न च तत्त्वतः "तस्थितिः; इत्याह-अव्यवस्थाप्रसङ्गादिति । 'विभ्रमादिकमेवास्ति न नित्यत्वादिकम्' इत्यभ्युपगमस्य या व्यवस्था तदभावोऽव्यवस्था तस्याः प्रसङ्गात् तत्त्वतः तत्स्थितिः इति । अनेन 'अर्थानाम्' इति समर्थितम् ।
(१) विज्ञानवादी प्राह । (२) प्रमेयासत्यता । (३) जाग्रदवस्थायामपि । (४) अविद्यात्मकत्वम् । (५) अविद्यात्मकत्व । (६) अविद्यात्मकत्वम् । (७) प्रतिपक्षम् अन्धकल्पितमिव ब्रूते । (6) बाह्यार्थवादिना । (९) समारोपव्यवच्छेदरूपादनुमानादपि। (१०) दर्शनानुसारेण व्यवहारेणेत्यर्थः। (११) मानमेयफलस्थितिः । (१२) सकलविभ्रमाभ्युपगमश्च । (१३) मानमेयफलस्थितिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org