________________
सिद्धिविनिश्चयटीकायाम्
[ ७ शास्त्रसिद्धिः
ननु भवतु (न्तु) अर्था बहिरन्तश्च तथापि तेषां भेदात्मकोऽभेदो [अभेदो] वा भेदात्मकः कुतः, विरोधादिति चेत् ? अत्राह - भेद इत्यादि । भेदैकान्ते संविदितस्य चेतनस्य इतरस्य वा ज्ञानेन विषयीकृतस्य वस्तुनः असंविदितः तदैव तेनैव ज्ञानेन [अ] विषयीकृतो य आकार: क्षणिकक (कत्व) कार्यजननसामर्थ्यविषयाकारविवेकादिलक्षणः तस्याऽसंभवे तस्य सर्वात्मना संवेदनाङ्गीकरणे इत्यर्थः, भ्रान्तिरेवे (रेव ) न क्वचिद् बहिरन्तर्वा याद (स्याद) भ्रान्तिः सर्वत्र स्यात् इत्येवकारार्थः । तथा भेदैकान्ते संविदितस्य [ चेतनस्य इतरस्य ] वा सच्चेतनादिरूपेण असंविदितस्याविद्याविवेकरूपस्याऽसंभवे भ्रान्तिरेव न क्वचित् स्यात् । कुत एतत् ? इत्यत्राह - संवेदनस्य इत्यादि । संवेदनस्य स्वपरगोचरज्ञानस्थ कंचन आकारं क्षणि[क]त्वादिकं रूपं संवृण्वतो विभ्रमस्यैवाऽयोगात् । अत्र निदर्शनमाह - व्यक्ताकारत्व [ ३७३ख] १० वदिति । तथा च प्रयोगः - यस्य यो विषयोऽसंवृतः तस्य न तत्र भ्रान्ति:, यथा विवक्षितसंवेदनस्य सच्चेतनाद्याकारे, असंवृतश्च ज्ञानस्य सुखाद (दे) विवादास्पदीभूत आकार इति नानुमानं भ्रान्तिव्यवच्छेदफलं नाम । इष्यते च परेण भ्रान्तिः ततो मन्यामहे - संविदिताकार इति । अनेन भेदोऽभेदात्मक इत्यादि समर्थितम् ।
ननु भवन्मतेऽपि यथावस्थिताशेषपदार्थग्रहणस्वभावस्य जीवस्य कथं भ्रान्त (भ्रान्ति) - संभव इति चेत् ? अत्राह - जीवस्य इत्यादि ।
१५
५
४७०
[ जीवस्य संविदो भ्रान्तिनिमित्तं मदिरादिवत् । तत्कर्मागन्तुकं तस्य प्रपञ्चोऽनादिरिष्यते ॥१२॥
ज्ञानस्वभावो जीवः चेतनस्यापरिणामिनः अचेतनस्याऽपरिणामिनः जीवस्य निषेधात् नैरात्म्यासिद्धेश्च तदन्यथात्वं द्रव्यान्तरसम्बन्धात् मदादिवत् । यदि पुनः कर्मणामेव २० कर्तृत्वभोक्तृत्वप्रबन्धोऽनादिः ; निरात्मकादयन्न विशिष्येत, स्वभावान्तरानवधारणात् क्षणक्षयादिवत् । आत्मनस्तथापरिणाममन्तरेण प्रयत्न सुखदुःखादिदर्शन बुद्धीनां समवायिकारणतानुपपत्तेः अनुपयोगादिति । चेतनस्य तदेव कर्म साक्षात् संसारनिमित्तं न पुनः प्रयत्नसधर्मा जीवपरिणामः । द्रव्यान्तरसम्बन्धोदयोदीरणादिवशात् मिथ्यादर्शनादिविकारदर्शनात् तत्परिक्षयान्मोक्षः । ईश्वरादिकं कल्पयतापि अतिप्रसङ्गात् । तस्यापि ईश्वरः संसारनिमित्तं स्यात् जीवाविशेषात् । यथाकर्मसम्बन्धं विपर्यये वा प्रवर्तने पारमैश्वर्यानुपपत्तिः ।]
"
२५
जीवस्य आत्माऽपरनामकस्य । किंभूतस्य ? इत्याह-संविदि [द] इति । समीचीना, यथावस्थिताशेषवस्तुग्रहणरूपा वा, तत्तदास्येन (तत्तादात्म्येन) स्थिता वा विभ्रमहेतुत्वाऽयोगात्, इतरथा यस्य कस्यचित् कर्मणो यस्य कस्यचिद् भ्रान्तिः इति नाभ्रान्तिः कश्चित् (कस्यचित् ) ३० स्यात् । किमिव तन्नास्य [इ] ति चेत् अत्राह - -मदि [रादि]वत् । आदिशब्देन 'मदन- त्वोप्रादि (१) जैनमतेऽपि । (२) उष्टतोऽयम् - न्यायवि० वि० प्र० पृ० १७९ । प्र० नि० पृ० ७१ । (३) अन्यथा । ( ४ ) कामोद्वेग ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org