________________
७१२] जीवकर्मणोरनादिः सम्बन्धः
४७१ (क्रोद्रवादि) परिग्रहः । यथैव हि देवदत्तविभ्रमहेतुः मदिरादिः तस्य तथैव कर्मापि । अथ अतदीयोऽपि सूर्यग्रहणादिः तद्विभ्रम हेतुः, शुक्ले वस्त्रे ततः' पीतज्ञानदर्शनात् ततो व्यभिचार इति चेत् ; न ; तत्सम्बन्धे तद्रश्मीनां तदीयत्वात् । एवमन्य[दपि कुचोद्यं चिन्त्यम् ।
ननु कर्मसम्बन्धे जीवस्य न चेत् स्वरूपहानिः ; न ततस्तद्धान्ति [ः, अतः] मुक्तेतराविशेषः । तद्वानि स्वेद (तद्धानिश्चेत् ; अ)नित्यत्वमात्मनः इत्यभावः । न चैतदिष्यते तद्वा- ५ दिना । तदुक्तम्*"यस्यात्मा वल्लभः तस्य समासं (स नाशं) कथमिच्छति।"
प्रवा० १।२३६] इति चेत् ; अत्राह-जीवस्य इत्यादि । मदिरादिवत् तत्कर्म हान्ने (तभ्रान्तेः) निमित्तम् । एतदुक्तं भवति-[३७३क] यथा मदिरादिसम्बन्धे तस्य कथञ्चिदन्यथाभावः, १० अन्यथा मत्तेतराऽविशेषः सन्तानभेदो वा, [तथा] कर्मसम्बन्धेऽपि इति ।
योऽपि मन्यते-न तस्य मदिरादेरपि स्व[रू]पान्यथाभावो नित्यत्वात् अपि तु मदावस्था ततोऽर्थान्तरभूता जायते इति; तस्योत्तरम्-तदवस्थायास्ततो भेदे न स मत्तः स्याद् आत्मान्तरवत् । तस्याः तेन अनुभr (भ)वात् मत्त इति चेत् ; कथमेवं योगी न स्यात् । समवाय (या)भावात् न ततो विशेषः । अथ अवस्था तत्कार्यत्वात् तस्य इत्युच्यते ; ईश्वरादेरपि उच्यताम् १५ अविशेषात् । निषिद्धश्च नित्ये हेतुफलभाव इति न किश्चिदेतत् ।
स्यान्मतम्-तत्कर्मास्तित्वे किं प्रमाणमिति ? तत्राह-जीवस्य इत्यादि । जीवस्य स्वपरावभासनस्वभावस्य या भ्रान्तिः तस्याः तत्कर्म मदिरादिवत् 'प्रतीयते' इत्यध्याहारः। किं पुनः तत्तस्यां यतोऽनुमीयत इति चेत् ? अत्राह-निमित्तमिति । यतो नित्यत्वाद्येकान्तभ्रान्तः म[दिरा]दिवत् कर्म निमित्तम् , ततः तत्ततः प्रतीयते । तथाहि-प्राणिनां नित्यत्वाद्य- २० कान्तभ्रान्तिः तत्सम्बन्ध (तत्सम्बद्ध) द्रव्यान्तरविशेषपूर्विका, तत्त्वात् , मदिराद्युपयोगिनो दिगादि[भ्रा]न्तिवत् । योऽसौ तद्रव्यान्तरविशेषः स "नः कर्म इति मे"।
परे प्राहुः-उपलादौन (उत्पलादौ") कदाचिद् भ्रान्तिर्भवतु तदुपयुक्तद्रव्यविशेषपूर्विका तथा दर्शनात् , क्षणक्षयाद्येकान्तभ्रान्तिस्तु सत्पूर्व (तत्पूर्व)भ्रान्तिनिमित्ता, परस्य कर्मणोऽन्यस्य वा निमित्तस्यादर्शनादिति । नन्वेवम् अकुरोऽपि अदृष्टबीजः तत्पूर्वको न भवेत् । अथ तज्जाती २५ "यस्य तत्पूर्वकत्वदर्शनात् तस्यापि तथानुमानम् ; [३७३ख] प्रकृतेऽपि समानमिदम् । यथा च इन्द्रियभ्रान्तयः तथा मनोभ्रान्तयोऽपि मत्तस्य द्रव्यान्तरसम्बन्धात् प्रतीयन्ते । अथा (अथ)
(१) सूर्यग्रहणात् । (२) स्वरूपहानिश्चेत् । (३) जीवस्य । (४) मदावस्थायाः। (५) मत्तः न स्यात् तेन मदावस्थायाः प्रत्यक्षेणानुभवात् । (६) योगिनि तदवस्थायाः समवायो नास्तिीति चेत् । (७) समवायस्य नित्यत्वात् सर्वगतत्वाच्च न ततो विशेषः, तस्य सर्वत्राविशेषात् । (८) तत्कर्म । (९) भ्रान्तः । (10) अस्माकं जैनानाम् । (११) 'मे' इति निरर्थकम् । (१२) नीलोत्पले पीतभ्रान्तिः पित्तादिसंक्षोभात् भवति । (१३) अदर्शनाद् यद्यभावः । (१४) अङ्करस्य । (१५) बीजपूर्वकत्व ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org