________________
४७२
सिद्धिविनिश्चयटीकायाम् [७ शास्त्रसिद्धिः विशिष्टोपदेशादपि तद्भ्रान्तयो दृश्यन्ते; ता अपि तदुपदेशसहकारिणः कर्मणः कर्मण एव मदिरादिवत् । अपि च तद्भ्रान्तेरेव भ्रान्तिसंभवे चिरगाढसुप्तोत्थितस्य कुतः तत्संभवः, स्वापादौ मनोभ्रान्तेरभावात् , पुनस्तथैवाऽस्मरणात् , तथापि तत्र तदभ्युपगमे न संहृताशेषविकल्पावस्थासंभवः कस्यचित् । तज्ज्ञानमात्रस्यापि तत्रानभ्युपगमः ; न च व्यवहितं कारणम् इत्युक्तम् । ५ ततः तस्याः कर्म निमित्तमिति । तन्नित्यत्वे भ्रान्ते न (न) उपरम इति चेत् ; अत्राह-आग
न्तुकमिति । तत्कार्यभ्रान्तेः कादाचित्कत्वात् तत् कादाचित्कमित्यर्थः । नहि नित्यकार्य कादाचित्कं युक्तम् । तदुक्तम्
*"कारणस्याक्षये तेषां कार्यस्योपरमः कथम् ।" [न्यायवि० १।९०३] इति ।
एवमपि पूर्वं शुद्धस्य ततो (सतो) मुक्तवत् कथं कर्मणा सम्बन्ध इति चेत् ? अत्राह१० तस्य इत्यादि । तस्य कर्मणः प्रपञ्च (ञ्चः)प्रवाहोऽनादिरिष्यते, तत्कार्यप्रबन्ध[स्या]नादित्वप्रसाधनात् तद्गतिः ।।
कारिकां विवृण्वन्नाह-ज्ञान इत्यादि । [ज्ञानस्वभावो जीवः] कुत एतत् ? इत्यत्राहचेतनस्याऽपरिणामिनः साङ्ख्यकल्पितस्य अचेतनस्याऽपरिणामिनो वैशेषिककल्पितस्य,
जीवस्य निषेधात् निराकरणात् नैरात्म्याऽसिद्धेश्च कारणादिति । ज्ञानस्वभावस्य अन्यथात्वं १५ कुत इति चेत् ? अत्राह-तदन्यथात्वमिति । तस्य जीवस्य अन्यथात्वं भ्रान्तत्वं [३७४क]
द्रव्यान्तरसम्बन्धात् आत्मद्रव्याद् अन्यत् कर्मद्रव्यं दनंतरं (तदन्तरं) तेन सम्बन्धात् । निदर्शनमाह-मद(मदादि) इत्यादि । यथा मदादि तदन्यथात्वं तत्सम्बन्धात् तथा प्रकृतम् ।
ननु न कुतश्चित् तस्य अन्यथात्वं नित्यत्वेन "अनाधाराऽप्रहयातिशयत्वात् , केवलं कर्मणां प्रकृतिपरिणामविशेषाणां शरीरेन्द्रियादिकरणात् कर्तृत्वं सुखदुःखादिनंद्यति (दुःखाद्यभि)२० व्यक्तिहेतुत्वाद् भोक्तृत्वम् । पुरुषे तु भोक्तृत्वमुपचारेणाकर्तृत्वात्] परमार्थेन तदभावादिति
चेत् ; एतदेव दर्शयन्नाह-यदीत्यादि । परमतस्य सूचने यदीति, पक्रान्तरस्स पुनरति (प्रक्रान्तरस्य पुनरिति) कर्मणामेव नात्मनः इत्येवकारार्थः । किम् ? इत्याह-कर्तृत्वभोक्तृत्वप्रबन्धः। किंभूतः ? इत्याह अनादिः 'इष्यते' इत्यध्याहारः । एतद् दूषयन्नाह-निरात्मकान्न विशिष्य
(ये)तेति-निरात्मकाद् आत्माभावपक्षाद् अयं पक्षो न विशिष्येत न भिद्यत, कर्तृत्व२५ भोक्तृत्वरहितस्य सतोऽप्यात्मनो[5]सदविशेषात्" इति भावः ।
अथ मतं द्रव्यान्तरसम्बन्धकृतान्यथात्वलक्षणं भोक्तृत्वं तस्य न विद्यते अर्थान्तरभूतस्य सुखादेरनुभवनलक्षणं तु विद्यते *"चैतन्य पुरुषस्य स्वरूपम्" [योगमा० १।१।९] इति वचनात् , इति चेत् ; अत्राह-स्वभावेत्यादि । चैतन्यात्मकसुखाद्यनुभवरूपभोक्तृत्वस्वभावादन्यो "नित्यनित्यनिरवयवदर्शनस्वभावः तदन्तरं तस्य अनवधारणाद् अनिश्चयात् क्षणक्षयादिवत् ।
(१) मनोभ्रान्तयः । (२) 'कर्मणः' इति पुनलिखितम् । (३) पूर्वभ्रान्तरेव । (४) स्वापादौ । (५) तस्मात् ज्ञानमात्रमपि स्वापादौ न स्वीक्रियते इति शङ्काकर्तुः प्रज्ञाकरस्याभिप्रायः। (६) कर्मणो नित्यत्वस्वीकारे। (७) कर्म । (८) सांख्यः प्राह । (९) जीवस्य । (१०) अनाधेयाप्रहयातिशयत्वात् । न कश्चिदतिशयः आधातुं प्रहातुं वा शक्यते इत्यर्थः। (११) असत्तुल्यत्वात् । (१२) विकारित्वं । (१३) 'नित्य' इति पुनर्लिखतम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org