________________
७१२ ]
जीवकर्मणोरनादिः सम्बन्धः
४७३
ऐको हि हर्षविषादादिविवर्त्तना (न) चैतन्यस्वभावोऽनुभूयते नाऽपरम् इति । तर्हि प्रयत्नस्य समवायात् कर्तृत्वं सुखदुःखादिदर्शनस्ये [ ३७४ख ] भोक्तृत्वम् आत्मनो न कर्मणाम् इत्येके 1 तान् प्रत्याह-आत्मन इत्यादि । आ [त्म]नो जीवापरनाम्नः तथा तेन प्रयत्नसुखादिदार्श - (दर्शन) प्रकारेण यः परिणामस्तमन्तरेण प्रयत्नश्च सुखदुःखादि वा (श्च, आ) दिशब्देन इच्छादिपरिग्रहः दर्शनं च प्रयत्नादे रूपादेश्व बुद्धिः तेषां समवायिकारणस्य भावः तत्ता ५ तस्या अनुपपत्तेः तदन्यथा [त्व ] मिति पघटना | कुत एतत् ? इत्याह- अनुपयोगादिति प्रयत्नादिरूपेण (णाs) परिणामात्, परिणामिकारणस्यैव समवायिकारणतोपपत्तेः इति भावः ।
४
कारणात् कार्यभेदैकान्ते समवाय (य्य ) समवायिनिमित्तकारणभेदाऽपरिज्ञानम् । यत्रो - कलितं कार्यं जायते तत् समवायिकारणमिति चेत्; किमिदं 'यत्रोत्कलितम्' इति ? यत्र समवायेन सम्बध (द्ध ) म् इत्युक्तं ( इत्ययुक्तम् ) । न च घटतदवयवव्यतिरेकेण [त ] दन्तरालस्थित - १० मपरं पश्मामः । तथापि तद्दर्शनकल्पने वरम् अवयवाऽवयविनोः गुणगुणिनोः जातितद्वतोः कथञ्चित्तादात्म्यमविगानदृष्टमस्तु । तथा च कृतनाशाऽकृताभ्यागमदोषपरिहारः । न केवलं तयो - स्तादात्म्ये मेव (तदेवां) विरुद्धम् अपि तु दर्शनकल्पनमपि, अदृश्यस्य । कथञ्चित्तादात्म्यं तथादर्शनाद् वस्तुनो रूपम् । न च स्वरूपेण कस्यचिद् विरोधः; निःस्वभावतापत्तेः ।
ननु [न] दर्शनात् समवाय [व्य]वस्था, अपि तु तत्कार्यतः । तच्च कार्यम् [किम् ? ] १५ इत्याह-'अवयवेषु अवयवी इति प्रत्यय:' इति चेत्; न; तादात्म्येऽपि तदुपपत्तेः । [३७५क] इह तन्तुषु पटः इति कोऽर्थः ? तेषु कथञ्चित्तादात्म्येन वर्त्तते इत्यर्थः, यतो विवक्षातः 'पटे तन्तवः' इत्यपि प्रतीयते । तदेवं समवायाऽसिद्धेः 'यत्रोत्कलितम्' इत्यु (त्ययु) क्तम् ।
[A] स्वकारणकारणा (ण) समवाय्यसमवायिकारणम् इति निरस्तम् । न च प्रथमं रूपादिरहितस्य पटस्योत्पत्तिः प्रतीयतेऽध्यक्षतः येन तेंद्र पाद्युत्पत्तौ तन्तुरूपादीनाम् असम- २० वायिकारणता स्यात्, रूपादिसहितस्यैव उत्पत्तिदर्शनात् । आशुवृत्तेः तथादर्शनाभिमान इत्यपि वार्त्तम् ; सर्वत्र तथा प्रसङ्गात् । ततः स्थितम् आत्मन इत्यादि ।
अथ मतम् - भवतु आत्मनः तथापरिणामे प्रयत्नादिसमवायिकारणतोपपत्ति:, तथापि जैनस्य किं सिद्धम् ? इत्याह- चेतनस्य इत्यादि । चेतनस्य प्रयत्नसुखदुःखादिदर्शन परिणामस्य तदेव द्रव्यान्तररूपंमे [व] कर्म संसारनिमित्तम् इष्टानिष्टशरीरादिकारणं साक्षात् तदन्तरं २५ (तदनन्तरं ) हीनस्थानपरिग्रहदर्शनात् मत्तस्य अशुचिस्थानपरिग्रहवत् । न पुनः प्रयत्नसधर्मा जीवपरिणामः; तस्य [अ]कारणत्वात् । अथ देशादिप्राप्तेर्वाञ्छापूर्वकत्वदर्शनात् सौ च (सापि ) तन्निमित्तम् ; न; अशुचिस्थानपातिना मत्तेन व्यभिचाराद् इत्येवकारार्थः । कुत एतत् तदेव कर्म तन्निमित्तम् ? इत्यत्राह - द्रव्यान्तरेत्यादि । द्रव्यान्तरं व्याख्यातम्, तेन सम्बन्धस्य उदयो
(१) तुलना - " एकमेवेदं हर्षविषादाद्यनेकाकारविवर्त पश्यामः तत्र यथेष्टं संज्ञाः क्रियन्ताम् ।" - प्र० वार्तिकाल० ३।२७७ । (२) समवायात् । (३) वैशेषिकाः । (४) समवायम् । (५) स्वशब्देन पटरूपं गृह्यते, तस्य कारणं पटः, तत्कारणेषु तन्तुषु समवायि तन्तुरूपं पदरूपं प्रत्यसमवायिकारणम् । (६) पटरूप । (७) पटस्य ।
६०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org