________________
१५
सिद्धिविनिश्चयटीकायाम्
[ ७ शास्त्रसिद्धिः
यथाकाल फलदानम् उदीरणा अपक्कपाचनम् आदिशब्देन द्रव्यान्तरसंस्कारादिपरिग्रहः, तस्य वशात् मिथ्यादर्शनादेः मिथ्यारुच्यादेः [ ३७५ख] आदिशब्देन मिथ्याज्ञानपरिग्रहः, विकारस्य जीवपरिणामस्य दर्शनात् । एवं मन्यते - संसारिणो जीवस्य आगन्तुकसुखदुःखादिकं द्रव्यान्तरबन्धोदयोदीरणवशात् आगन्तुकत्वात् मिथ्यादर्शनादिवत् ।
तयो. (ततो) यदुक्तं परेणं- ''विवादास्पदीभूतं सुखदुःखादिकं संसारिणः प्रयत्नसधर्मणा तद्गुणेनं कृतम्, कार्यत्वे सति तदुपका [र] कत्वात् ग्रासादिवत्" इति; तन्नि रस्तम् । यदि परम्परया; सिद्धसाधनम् । अथ साक्षात् ; तर्हि द्रव्यान्तरसम्बन्धात् तद्विकारस्य साक्षाद् दर्शनेऽपि अन्यहेतुकल्पने अनवस्था । भवतु तदेव संसारकारणमिति चेत्; अत्राहतत्परिक्षयात् कर्मपरिक्षयात् मोक्ष इति । तथाहि [ यत् ] यन्निमित्तं तत् तदभावे न भवति यथा १० बीजाभावे अङ्कुरः, कर्मनिमित्तश्च संसार इति ।
परः प्राह
४७४
२०
*"अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव च ॥"
[महाभा० वनप० ३०।२८] इति
ईश्वरः तन्निमित्तम् इति ।
*" कालः पचति भूतानि” [महाभा० आदिप० १।२७३-७५] इत्यादि वचनात् कालः तन्निमित्तम् इति ।
* " पुरुष एव" [ ऋ० १०।१०।२] इत्याद्यभिधानात् पुरुषः कारणम् । *“प्रकृतेर्महान्” [साङ्ख्यका० २२] इत्यादिवचनात् प्रकृतिः कारणम्,[न] कर्मैव इति;
तत्राह
ईश्वरादिकं 'संसारनिमित्तम्' इत्यनुवर्त्तते । 'कल्पयताऽपि ' इति पदेन एतेन एतद्दर्शयति- उक्तविधिना न सत्र किञ्चित् प्रमाणम्, केवलं कल्पनामात्रमिति । तदभावे कर्माभावे अतिप्रसङ्गात् । अतिप्रसङ्गं दर्शयन्नाह - तस्यापि इत्यादि । केवलम् अन्येषां मुक्तात्मनां संसारिणां चाविशेषेण तत् तन्निमित्तं स्याद् अपि तु तस्यापि ईश्वरस्यापि ईश्वरः २५ संसारनिमित्तं [३७६क्] स्यात् । कुत एतत् ? इत्यत्राह - जीवावि [ शे] षात् । जीवैः
Jain Education International
(१) तुलना - " देवदत्तविशेषगुणप्रेरितभूतकार्याः तदुपगृहीताश्च शरीरादयः कार्यत्वे सति तदुपभोगसाधनत्वात् गृहवदिति । " - प्रश० किरणा० पृ० १४९ । ( २ ) अदृष्टेन । ( ३ ) अव्यवस्था स्यादित्यर्थः । ( ४ ) " कालः सृजति भूतानि कालः संहरते प्रजाः । संहरन्तं प्रजाः कालं कालः शमयते पुनः ॥ कालो विकुरुते भावान् सर्वांल्लोके शुभाशुभान् । कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः ॥ कालः सुतेषु जागर्ति कालो हि दुरतिक्रमः । कालः सर्वेषु भूतेषु चरत्यविष्टतः समः ॥ अतीतानागता भावा ये च वर्तन्ति साम्प्रतम् । तान् कालनिर्मितान् बुद्ध्वा न संज्ञां हातुमर्हसि ॥" - महाभा० । ( ५ ) " पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम्” - ऋक्० । ( ६ ) “प्रकृतेर्महान् ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥ " - सांख्यका० ।
For Personal & Private Use Only
www.jainelibrary.org