________________
७/१२ ]
ईश्वरकारणतानिरासः अविशेषाद् ईश्वरस्येति । यथैव हि निःकर्मणां जीवानामसौं' संसारकारणं तथा तथाविधस्यन्मानोऽपि (स्य आत्मनोऽपि) स्यात् । अथ सर्वज्ञत्वाद् आत्मनत्त (आत्मानं न) दुःखेन योजयति; [त]त एव परमपि निर्दोष न तेन योजयेत् शुद्धविपस्तद संवात् (शुद्धधियस्तदसंभवात्)।
एतेन क्रीडा तत्र निषिद्धा । तस्य तयातन्निमित्तत्वे आत्मन्यपि स्यात् । दृश्यन्ते हि तया प्ररणिका [पूरणिकाः] आत्मानं चित्सारयन्तः । स्वभावत एव सँ तन्निमित्तम्' इत्यपि नानेन ५ परिहृतम् । न चादर्शने परत्रैव स तस्ये स्वभावो नात्मनि इति विभागो [युक्तः । यदि वा तस्यापि ईश्वरस्यापि संसारनिमित्तम् अन्ये जीवाः । कुत एतत् ? इत्यत्राह-जीवाऽविशेषात् । अकर्मणां हि सर्वज्ञत्वादिना गुणेन जीवानां विशेषाभावात् । __ननु किमुच्यते तदभाव इति, यावता तद्भावे स तन्निमित्तमिति चेत् ; अत्राह-यथाकर्मसम्बन्धम् इत्यादि । अत्रायमभिप्रायः-न कर्मणा [ई]श्वरस्य ते[न] वा कर्मणः किञ्चित् १० क्रियते, केवलं तयोरन्योऽन्यसहकारिणोः कार्ये व्यापारः । कर्मणा वा प्रेरित ईश्वरः कार्य जनयति नकर्मेतरवत् (कर्मान्तरवत् ), ईश्वरेण वा कर्म अचेतनत्वाद् वास्यादिवत् इति ? तत्र प्रथमपक्षे 'यथाकर्मसम्बन्धम्' इत्यादि । अन्यत्र 'विपर्यये च' इत्यादि । यस्य प्राणिनो यः कर्मसम्बन्धः सुरूपा (पोs)न्यथा वा झटिति फलदायान्य (दायी अन्य)था वा तदनुसारेण यथाकर्मसम्बन्धं प्रवर्त्तने तत्सम्बन्ध (न्धं) सहकारिणमाश्रित्य कार्यजन्मनि ईश्वरस्य प्रवृत्ता- १५ वङ्गीक्रियमाणायां प(पा) रमैश्वर्यानुपपत्तिः (तेः) 'अतिप्रसङ्गात्' इत्येतद् [३७६ ख] अत्राप्यनुवर्तते । तदेव कर्म 'संसारनिमित्तम्' इति सम्बन्धः । तथाहि-कर्मसहकारिणः तस्य कार्य कुर्वतोऽपि यदि पारमैश्वर्यम् ; कालादेरपि स्यादविशेषात् । अथ ईश्वरो ज्ञत्वाज्ञत्वात् (ज्ञत्वात् ज्ञात्वा) कार्यकारणकलापं कार्यं जनयति अन्यथा कालादिः विपर्ययात् , ततोऽयं विशेष इति चेत् : कुतस्तस्य" तत्परिज्ञानसिद्धिः ? "जननात् ; कालादिना व्यभिचारः। 'आत्मत्वे सति २० तजननात्' इत्यपि नोत्तरम् ; गाढसुप्तेन स्वव्यापारव्याहारहेतुना व्यभिचारः। 'सर्वव्यामोहरितत्त्वे (रहितत्वे) सति' इति चेत ; तदपि कुतः ? सर्वज्ञानात् ; अन्योऽन्यसंश्रयः-सर्वव्यामोहविरहसिद्धौ तत्परिज्ञानम् , अतः तत्सिद्धिरिति । तन्न कालादेरस्य विशेषः । अवतु वा तत्परिज्ञानम् , तथापि ततोऽस्य” न विशेषः, अकिञ्चित्करत्वात्तत्परिज्ञानस्य । यो हि कर्मवशात् अकर्तव्ये प्रवर्त्तमानमज्ञं ज्ञात्वा कर्त्तव्ये प्रवर्तयति जनम् , तस्य परिज्ञानं फलवत् , "अयं पुनः २५ "तत्रैव । यदि यादिव (यदि वा) यथाकर्मसम्बन्ध(न्धं) प्रवर्त्तने सर्वज्ञत्वादिना गुणेन यत् पारमैश्वयं तस्याऽनुपपत्तेः कर्मैव तन्निमित्तम् ।
अत्र 'अतिप्रसङ्गात' इति नापेक्षणीयम् । तथाहि-कर्म अचेतनमपि यदि यथाकालं कार्यजननसमर्थम् ; तत एव तन्निष्पत्तेः किम् ईशेन तज्ज्ञ न ? नहि तथाजननासमर्थम् अन्यसन्निधानेन जनयति, अन्यथा यवबीजं शाल्यङ्कुरं तत्परिज्ञानवतः सन्निधाने कुर्यात् । ज्ञानं ३०
(१) ईश्वरः । (२) क्रीडया। (३) इन्द्रजालकारिणः । (४) ईश्वरः। (५) ईश्वरस्य । (६) प्रेरितं । (७) कर्मसम्बन्धात्मकं सहकारिणम् । (८) ईश्वरस्य । (९) अज्ञत्वात् । (१०) ईश्वरस्य । (११) उत्पादनाच्चेत् । (१२) ईश्वरस्य । (१३) कालादेः । (५४) ईश्वरस्य । (१५) ईश्वरः। (१६) तं प्रवर्तयति इति सम्बन्धः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org