________________
४७६
सिद्धिविनिश्चयटीकायाम्
[ ७ शास्त्रसिद्धिः
"
च सहकारि निषेद्धुमशक्यम् । न चेशस्तथा । अथ तस्य' तत्सामर्थ्यं तेन' क्रियते ; [३७७ क] तहशेन क [] जन्यते न कार्यम् इति कथं स तत्सहकारी 'तज्जनयति ? द्वयमपि व इति चेत् ; कुत एतत् ? अन्यतः तथाविधजनककर्माऽसंभवादिति चेत् ; ईश्वरस्य तत्कार्यद्वयजनने कुतः सामर्थ्यमायातम् ? अहेतुकम् ; सर्वत्र स्यात् इतरथा अन्यत्रापि किं हेतोः ५ कार्यनियमकल्पनेन ? तत्सामर्थ्यस्य नित्यत्वाददोष इति चेत् ; न ; तन्निषेधात् । स्वहेतोः इति चेत् ; कर्मणोऽपि तत एव इति किम् ईशेन ? इति स्थितम् - यथा इत्यादि । अथ कर्मणा ईश्वरः प्रेरितः, तेन वा कर्म कार्यकृत् इष्यते ; तत्राह - विपर्यये वा इत्यादि । उक्तक्रमाद् अन्यः क्रमो विपर्ययः, स च सेश्वरकर्मवादिमते [S] नन्तर एव संभवति, तस्मिंश्च प्रवर्त्तने पारमैश्वर्यानुपपत्तेः कर्मैव तन्निमित्तम् । तथाहि - पृथग्जनवत् कर्मणा प्रेरितस्य तस्य प्रवर्त्तने न ततो विशेषः । किञ्च तेन प्रेरितः, पृथग्जन एव स (स्व) कार्यं विदधातु किमीशप्रेरणेन ? अचेतनमपि तत् ईशं प्रेरयति न तज्ज्ञा (" तज्ज) नमिति [ किं ] कृतो विभाग : ? ' अन्येन ( अथ तेन " ) प्रेरितमीशं प्रेरयति' इत्ययुक्तम् ; अनवस्थापत्तेः । तन्न क्रर्म ईश्वरं प्रेरयति । नापि ईश्वरः कर्म; पारमैश्वर्यानुपपत्तेः । तथाहि - वरं कार्यमेव तेन कृतं किं कर्मप्रेरणेन ? " यस्य कार्येऽसामर्थ्यं तस्य तत्प्रेरणे सामर्थ्यम् अतिश्रद्धेयम् । कर्मण एव वा " तदस्तु किं तत्प्रेरकेण । १५ अथ अचेतनं तद्” वास्यादिवत् चेरना निश्चितमेव ( चेतनाधिष्ठितमेव ) कार्ये [x] वर्त्तते तदधिष्ठापकस्यै' ज्ञानादे[:] कथं चेतनत्वं घटादिवत् ? अस्मदादिवत् स्यादिति चेत् ; तदेतद'यदसता समुदायहृतम् (तः समुदाहृतम् ); अस्मदादेरपि " ततो भेदे; न चेतनत्वम् । ज्ञानसमवायाच्चेतनत्वं चेत्; न; तन्निषेधात् । सतोऽपि सर्वगतत्वेनाऽविशेषात् किं क ज्ञानम् ? अथ सम्बन्धा (न्ध्य)विशेषेऽपि सम्बन्धविशेष इष्यते; कुत एतत् ? स्वभाव [ त ] इति चेत् ; " तदपि २० कुतः ? तथा दर्शनात्; युक्तमेतद् यदि गगनादिपरिहारेण ईश्वर एव किं देव (किञ्चिदेव ) ज्ञानं दृश्येत । स एव पश्यतीति चेत्; कोशपानात् " प्रत्येयम् । एतेन योगिनि (न) चिन्तिताः । स्वभावत एव च सम्बन्धिनियमे किं समवायेन ? इहेति प्रत्ययोऽपि तत एव भविष्यति । तन्न परस्य कश्चित् चेतनो यः तस्यै" अधिष्ठाता स्यात् । ज्ञानात (त्त) स्याभेदे अन्यत्रापि गुणगुणिनोकान्त विशीर्येत । तथा च अनीश्वरस्य अनित्यज्ञा [ना]दिस्वभावस्य कार्यत्वम् इति, २५ “तद्दृष्टान्तेन ईश्वरस्यापि तत्प्रसक्तमिति तस्यापि अन्यो धीमान् कर्त्ता, ततः पारमैश्वर्यानुपपत्तिः इति ।
१६
१८
I
૨૯
२७
सत् ;
(१) कर्मणः । (२) ईशेन । ( ३ ) ईश्वरः । (४) कार्यम् । (५) ईश्वर एव । (६) यदि कारणं विना तर्हि । ( ७ ) ईश्वरस्य । (८) कर्मणा । ( ९ ) कर्म । (१०) पृथग्जनम् । (११) कर्मणा । ( १२ ) ईश्वरस्य । (१३) कर्मप्रेरणे । (१४) कार्योत्पादकत्वमस्तु । ( १५ ) कर्म । (१६) “ प्रधानपरमाणुकर्माणि प्राकू प्रवृत्तेः बुद्धिमत्कारणाधिष्ठितानि प्रवर्तन्ते अचेतनत्वात् वास्यांदिवत् ।” - न्यायवा० पृ० ४५७ । (१७) ईश्वरस्य । (१८) असिद्धस्य उदाहरणरूपेण कथनं कृतम् । (१९) चेतनत्वात् ज्ञानाद्वा । ( २० ) समवायनिराकरणात् । (२१) ईश्वरस्वभावं ज्ञानमिति । (२२) इति चेत् । (२३) एतदुच्यमानं मद्यपानादेव बुद्धौ समाविशति । (२४) स्वभावादेव । ( २५) कर्मणः । (२६) अस्मदादिदृष्टान्तेन । (२७) कार्यत्वं ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org