________________
७१३] ईश्वरकारणतानिरासः
४७७ किंच, यदि सर्वमचेतन [नं चेतना]धिष्ठितमेव कार्ये प्रवर्तते इत्येकान्तः ; तर्हि यस्य यत् कर्मादि स एव तस्यापि (तस्या) धिष्ठाता इति व्यर्थम् ईश्वरकल्पनम् । नहि 'तस्यापि तत्र सन्निधानादपरम् अधिष्ठातृत्वम्। प्रेरकत्वमिति चेत् ; अन्यस्याप्यस्तु । 'तदज्ञाने तत्कथम्' इत्यपि नोत्तरत्वातक्लोत्तरत्वात् (न; उक्तोत्तरत्वात्) सुप्तस्याऽज्ञानेऽपि स्वाङ्गावयवप्रेरणं (ण)दर्शनादिति।
यदि पुनरिदं चोद्यम्-शरीरसम्बन्धात् प्राग् अशरीरस्य कथं तदधिष्ठातृत्वमिति ? तदीश्वरेऽपि समानमिति दर्शयन्नाह-जीवोपयोग इत्यादि ।
[जीवोपयोगयोग्यैरीश्वरस्यानुमीयते ।
वितनोश्चेच्छा तद्धेतुः शरीरकरणादिभिः ॥१३॥ शरीरेन्द्रियादिसङ्गमनुभवतोऽनिष्पन्नकायकरणस्य उत्पत्तुः कथमात्मोपभोगयोग्य- १० निष्पादनसामर्थ्यम् ? तत्परिग्रहात् निष्पन्न [स्य]तत्कृतिन संभाव्येत । पारिशेष्यादीश्वरः कारणमिति वैशेषिकादयः । वितनुकरणस्य पुनरिच्छया जीवोपभोगयोग्यशरीरादिकरणं कथं संभाव्येत ? तदुत्पत्रविशेषात् , प्रतिषिद्धं च । तत्परिणामोपगमेऽपि समवायिकारणत्वस्थित्वाप्रवृत्त्यादेश्च परिणामिन एव संभवात प्रवर्तनालक्षणाः दोषास्तजन्महेतवः कथन्न स्युः ? अत एव कर्मसम्बन्धोपपत्तेः। चेतनकृतं किञ्चिदुपभोगयोग्य संप्रेक्ष्य सर्वत्र १५ कल्पनायां सतनुकरणकृतिः किन्न प्रसज्येत? तथा च अनवस्था । दृष्टव्यतिक्रमे स्वकर्मणः तत्सामर्थ्य कल्पयितुं युक्तम् ।
च शब्दो[३७८ क]अप्यर्थो भिन्नप्रक्रमः 'ईश्वरस्य' इत्यस्यानन्तरं द्रष्टव्यः । न केवलमन्यस्य अनीश्वरस्य अपि वी[तु ईश्वरस्यापि । किंभूतस्य ? वितनोः अशरीरस्य । किम् ? अनुमीयते । कैः ? इत्याह-शरीरका(क)रणादिभिः आदिशब्दाद् भुवनादि- २० परिग्रहः, अभेदोपचारात् तद्गताः कार्यत्वादयः शरीरकरणादयः उच्यन्ते । किंभूतैः ? इत्याह-जीवापयोगयोगः (जीवोपयोगयोग्यैः) ईश्वराद् अन्य (न्ये)जीवा गृह्यन्ते, तस्य 'ईश्वरस्य' इत्यनेन अभिधानात् , तेषामुपयोगः तज्जननव्यापारः तत्र योग्यैः यथा ईश्वरेण ते निष्पादयितुं शक्याः तथा अन्यैरपि इत्यर्थः । तस्य का किमनुमीयते ? इत्याहइच्छा सिसृक्षा। किंभूता ? इत्याह-तद्धेतुः शरीरकरणादिकारणादिकारणम् । यथा २५ वितनोरन्यस्य तद्धेतुः सो (सा)नानुमीयते तथा ईश्वरस्यापीति भावः। यदि वा चशब्दः अवधारणे, ईश्वरस्येव (स्यैव) किमनुमीयताम् ?
ननु यथा ईश्वरस्य तत्करणे सामर्थ्यम् , नैवमन्यस्येति चेत् ; युक्तमेतद् यदि तथादर्शनं स्यात् । नहि दृष्टेऽनुपपन्नं नाम । अथ ईश्वरेण सर्वस्य जननात् किमन्येनेति चेत् ? एतदपि युक्तं यदि कुतश्चित् सिद्धं स्यात् , यावता शरीरादिकार्यदर्शनात् ईशोऽप्यनुमीयते । तच्च नानाविधमिति ३०
(१) ईश्वरस्यापि । (२) अस्मदादेरपि । (३) प्रेरकत्वम् । (४) 'का' इति प्रश्ने । (५) 'कारणादि' इति निरर्थक पुनलिखितम् । (६) शरीरादिकरणे । (७) कार्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org