________________
७४] शब्दविकल्पानां तत्त्वविषयत्वम्
४५१ पुनः स्वयमेव तत्त्वं युक्त्य (क्त्याऽ)वबुद्ध्यन्ते इति चेत् ; अत्राह-शाब्दश्चेद् (शब्दैश्चेत्) इत्यादि।
[शब्दैश्चेद्वक्त्रभिप्रायं प्रतिपद्य परीक्षकाः ।
युक्त्या तत्त्वं प्रतिप(प्रप)ोरन् किन्नैवं चक्षुरादिभिः ॥४॥ न खलु युक्तायुक्तपरीक्षया तत्वेतरप्रतिपत्तौ दृष्टश्रुतयोरर्थयोः कश्चन अतिशयोऽ- ५ ।। स्ति यतः चक्षुरादिज्ञानमेव तत्त्वविषयम् । तत्समारोपव्यवच्छेदस्यैव प्रामाण्ये निर्विकल्पज्ञानस्य प्रामाण्य न भवेत् , सर्वथा अन्यस्यापि प्रसङ्गः स्यात् । संवृतिप्रभृतेरेव स्यात् । तच नास्ति ।]
वक्तुः सुगतस्य अभिप्रायं विवक्षां प्रतिपद्य । कैः ? इत्याह-शब्दैः इति । के ? इत्याह-परीक्षकाः तस्वचिन्तकाः । किं कुर्वीरन् ? इत्याह-प्रतिप(प्रप)ोरन् । किम् ? १० तत्त्वमिति । कया ? युक्त्या प्रत्यक्षानुमानरूपया। चेद यदि । दूषणमाह-किं नैव (वं) कस्मादेवं चक्षुरादिभिः तत्त्वं न प्रतिपद्य रन् परीक्षकाः । चक्षुर्ग्रहणम् उपलक्षणम् अन्येन्द्रियाणाम् । आदिशब्देन अनुमानपरिग्रहः । एतदुक्तं भवति-यदि सुगतव[च]ने प्रवृत्तेऽपि न ततः तत्त्वप्रतीतिः अपि तु युक्तिः (क्तः) प्रत्यक्षादिरूपायाः । तथा सति प्रत्यक्षादिविषयं तत्त्वम् इति तत एव तत्प्रतीतिः इति किं सुगतवचनेन ? इति व्यर्थम्-'शब्दैर्वक्त्रभिप्रायं १५, प्रतिपद्य' इति ।
कारिकाया व्याख्यानं सुगमत्वा तत्कृतं (त्वान्न कृतम्) 'शब्दैवक्त्रभिप्रायं प्रतिपद्य' इत्यत्रैव दूषणान्तरमाह-नरवीत्यादि (न खल्वित्यादि) नखल (लु) तचेतन (तत्त्वेतर) प्रतिपत्तौ [३५७ ख] क्रियमाणायाम् । कया ? इत्याह-युक्तायुक्तपरीक्षया इति । इदं युक्तम् इदं वाऽयुक्तम् इति या परीक्ष (क्षा) तया । किम् ? इत्याह-कश्चन अतिशयोऽस्ति नैव २० कश्चेद्वेदो (कश्चिद्भेदोऽ)स्ति । कयोः ? इ[त्यत्राह-अर्थयोः। किम्भूतयोः ? दृष्टश्रुतयोः इन्द्रिय-शब्दप्रतिपन्नयोः । एवं मन्यते-यद्रि (यथैवेन्द्रि) यात्तत्त्वं प्रत्य (प्रति) पद्य नाभिप्रायं परीक्ष्य [परीक्ष]का युक्त्या तदेव तत्त्वं प्रतिपद्यरन् , तथा शब्दादपि तत्त्वं प्रतिपद्य नाभिप्रायं तदेव ते तया प्रतिपद्यरन् इति । कीदृशस्तयोरविशेषः अतिशयो नास्ति ? इत्याह-यतो यस्मात अतिशयात् चक्षुरादिज्ञानमेव तत्त्व(व)विषयं न पुनः श्रुतज्ञानं भवेत् तत्त्वविषयं सोऽतिशयो नास्ति । २५ ___ननु श्रुतज्ञानं प्रवृत्तमपि स्वविषये समा[रो]पं न व्यवच्छिनत्ति 'अनित्यः शब्दः' इत्युक्तेऽपि नित्यज्ञानाऽनिवृत्तेः, इतरथा साधनमनर्थकं भवेत् । तद्व्यवच्छेदकं च प्रमाणमिति चेत् ; अत्राह-तदि[त्यादि] । तत्समारोपो दृष्टश्रुतार्थसमारोप[स्तद्]व्यवच्छेद (दोs) नुमानं [तस्यैव] । तद्व्यवच्छेदस्यैव न श्रुतज्ञानस्य प्रामाण्ये अङ्गीक्रियमाणे निर्विकल्पज्ञानस्य प्रामाण्यं न भवेत् तद्व्यवच्छेदकत्वाभावादिति मन्यते । कथं न भवेत् ? इत्याह-सर्वथा तद्व्यवच्छेद- ३०
. (१) सुगतवचनात् । (२) 'शब्दः क्षणिकः सत्वात्' इत्यादि। (३) समारोपव्यवच्छेदकम् । (४) समारोपव्यवच्छेद ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org