________________
४५०
सिद्धिविनिश्चयटीकायाम् [७ शास्त्रसिद्धिः बुद्धः सुगतः निश्चित्य विकल्पविषयतां नीत्वा [अ] विकल्पेनाऽनिश्चयात् । अनेन एतदर्शयति बुद्धस्य शुद्धनिर्विकल्पबोधसद्भावे न ततो वचनप्रवृत्तिरिति तत्कल्पनमनर्थकम् ।
एतेन इदमपि निरस्तं यदुक्तं गा द् ल की र्ति ना*"ये कल्पयन्ति कवयः सुगतस्य वाचस्ते कल्पनामपि मुनिः (नेः) परिकल्पयन्ति ।
तस्यामबाह्यतया चकास्ति दोषं तत [B] स्तुतिपदैनिगदन्ति तेऽर्थात ॥” इति । ___ कथम् ? [३५६ख] तद्वचनाभावे किं तेन अनर्थकन अर्था (अनर्थ)पोषितेन ? शेषं चिन्तितमनन्तरम् । अथा द्वैतमलस्वेद (अथ द्वैतमलखेद)मुक्तम् , तेन तत्र सर्वमिदमुक्तमयुक्तम् ; एतद्वचनार्थाऽभावात् । ततो वचनप्रवृत्तो (त्तौ) वा, तदर्थो वा ततः प्रतीयेत उभय
थापि स्वलक्षणविषयत्वं शब्दानाम् । सौगताना (सुगते न) स्यादिति चेत् ; न ; अन्यत्रापि १० तदनिषेधात् । न वस्तुगतं स्यैवा कि मध्येक्षम् (न च सुगतस्यैव अविकल्पमध्यक्षम् ;) अन्यस्यापि
स्वयं तदभ्युपगमात् । अत्यासं जं (अभ्यासज) च तदस्ति *"यस्य यावत (ती) मात्रा" [प्र० वार्तिकाल० पृ०२३३] इति । न कस्यचिदविकल्पादन्यस्यं विकल्पाद्वचनमिति युक्तम् ; इतरथा धूमोऽपि कचिदग्नेः अन्यत्रा न्य]तोऽपि स्यात् । अर्थविषयं सुगतवद् अन्ययथे
(अन्यस्यापि) । तथा बुद्धस्यापि निश्चलादे (निश्चयादेव) वचनमिति। किं निश्चित्य ? इत्याह१५ सोपाय इत्यादि । स कैः किं कुर्यात् ? इत्यत्राह-वाचकैः शब्दैः परम आत्मनोऽन्यं दिनेय
ज्ञातं (विनेयजातं) निश्चाययेत् चेद् यदि । ततः किं जातम् ? इत्याह-शब्दविकल्पाः तत्त्वगोचराः सु(स्व) लक्षणविषयाः 'स्युः' इत्यध्याहारः। एवं मन्यते-योऽसौ सुगतस्य विकल्पः स जात्यादिविषयश्चेत् ; इतरविकल्पवत् तद्वचनस्य तत्प्रतिबद्धत्वे ततः स एव प्रतीयते इति स
एव दोषः 'साधनवचनस्यापि' इत्यादिकः। अथ स्वलक्षणविषयः ; तर्हि [न] नीलादिविकल्पो२० ऽवस्तुगोचरः तत्त्वात् मरीचिकानिचये जलविकल्पवदिति । ततः *"विकल्पोऽवस्तुनिर्भासो विसंवादादुपप्लवः" [इति कथन]मात्रम् , सुगतवचनस्यापि तदनिवारणात् , तथा च तत्प्रभवस्य शब्दस्यापि तद्विषयत्वमिति ।
व्यतिरेकमुखेन [३५७ क] कारिकां व्याचष्टे-परमार्थ इत्यादिना । सोऽयं हेयोपादेयतत्त्व (त्त्वं) परमार्थः तदसंस्पर्शिभिः तदगोचरैः । किं [भूतै] रित्याह-विकल्पैः । किं कुर्वन् ? २५ इत्याह-निश्चिन्वन् व्यवस्यन् । किम् ? तत्त्व [तत्त्वम् । कः ? सोऽयम् ] बुद्धः शिष्यान् निश्चाययति । कैः ? वार (च) कैः । किम्भूतैः ? तत्त्वानभिधानः । किम्भूतं किम् ? इत्यत्राहविकल्पविषयम् स्पष्टसाधारणरूपं तत्त्व[म्] इति क इमं व्याघातभारं स्वनाशकदोषभारम् उद्वोढुं समर्थः अन्यत्र एकान्तविनिश्वरार(विनश्वरात्) वोढुं समर्थः पूर्वापरपरामर्शशून्यत्वात्।
ननु शिष्याः सुगतवचोभिः तत्त्वं साक्षात् न प्रतिपद्यन्ते अपि तु तदभिप्राय (यम्),
(१) बुद्धत्वकल्पनम् । (२) सुगतात् । (३) वचनात् । (४) इति दोषः । (५) साधारणजनस्य । (६) निर्विकल्पकम् । (७) सुगतस्य । (८) अस्मदादेः । (९) यथा सुगतस्य वचनमर्थवत् तथा अन्यस्यापीति । (१०) सुगतवचनस्य । (११) अर्थसम्बद्धत्वे । (१२) विकल्पत्वात् । (१३) 'वोढुं समर्थः' इति पुनलिखितम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org