________________
४४९
७ ]
शब्दविकल्पानां तत्त्वविषयत्वम् ल्पोऽवस्तुनिर्भासः" इत्यादि च । द्वितीयविकल्पे लिङ्गात् लिङ्गिनि ज्ञानम् अनुमानम् । लिङ्गस्य च स्वयं प्रतिपत्तौ ततः साध्यप्रतीतिरपि स्वयमेव इति किं तत्सन्निधानेन ? नहि धूमाद् अग्नि प्रतिपद्यमानं प्रति तदुपयोगि। अथ साध्यवल्लिङ्गज्ञानं तत एव ; तच्चेत् प्रत्यक्षम् ; अतीन्द्रियत्वाऽविशेषेऽपि लिङ्गे प्रत्यक्षं ततो न साध्ये इति किं कृतो विभागः ? यदि विकल्पमात्रम् ; कथमतो लिङ्गप्रतिपत्तिः यतोऽनुमान रूपत्वम् , अनुमान] त्वे प्रकृतमनुवर्तत इत्यनवस्था। तन्न ५ तत्सन्निधानात् कस्यचित्तत्त्वप्रतिपत्तिः ।
यत्पुनरुक्तम्-'कुड्यादिभ्योऽपि देशनाः' इति ; तत्र ज्ञानमात्रेणापि वर्जितेभ्यः 'तेभ्यो देशनासंभवे कथमिदं सूक्तम्
* "विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः । [३५६]
तेषामन्योऽन्यसम्बन्धानार्थान् शब्दाः स्पृशन्त्यमी ॥" इति ? अथ अन्य एव ते शब्दा ये विकल्पाभावेऽपि भवन्ति ; तर्हि अन्यदेव तञ्चित्तं यत्ता [यत्तदें]भावेऽपि स्यादिति परलोक(का) सिद्धिः । कथं चैवं सति व्याहारादेः परशरीरे चैतन्यप्रतीतिः ? कथं च न स्यात् ? किं कुड्यादिकवत् कस्यचित् सन्निधानात् ध में की ा द यो वदन्ति उत स्वयमेव इति शक्काऽनिवृत्तेः। '
किंच, तद्देशनाभ्यो यदि न कस्यचित्तत्त्वप्रतीतिः किं ताभिः ? अस्ति चेत् ; सिद्धः शब्दः १५ अर्थवाचकः । तद्वद् अन्योऽपि तत्सन्निधानात्तया (था) इति चेत् ; "अन्यसन्निधानाद् अन्या अपि, भावनियमाभावात् शक्तीनामिति ।
__ यत्पुनरेतत्-*"विवक्षाप्रतिबद्धजन्मानों विवक्षामेव गमयेयुः ।" इति ; तत्रापि कुड्यादिप्रतिबद्धजन्मानः ताः कुड्यादिकं गमयेयुः, तञ्च तत्सन्निधानमिति दूरे तत्त्वप्रतिपत्तिः व्यवहिता वा स्यात् । ततः स्थितं कीशी तत्वदेशना इति । तथैवैतेन 'सोपायोपेय' इत्यादि २० व्याख्यातम् ।
ननु सुगतस्यापि विकल्पोऽस्ति ततो धर्मादेना (धर्मदेशना) इति चेत् ; अत्राह-'सोपायोपेय' इत्यादि ।
[सोपायोपेयतत्त्वञ्चेद् बुद्धो निश्चित्य वाचकैः ।
परं निश्चाययेच्छब्दविकल्पास्तत्त्वगोचराः ॥३॥ सोऽयं परमार्थासंस्पर्शिभिः विकल्पैस्तत्त्वं निश्चिन्वन् तत्त्वानभिधानैः वाचकैर्विकल्पविषयं निश्चाययति इति क इमं व्याघातभारमुद्वोढुं समर्थः अन्यत्रैकान्तविनश्वरात्।]
(१) सुगतसन्निधानेन । (२) सुगतसन्निधानं सार्थकम् । (३) सुगतसन्निधानात् । (४) कुख्यादिभ्यः। कुट्यादिभ्यः इति पाठे मूलग़न्धकुटीतः इत्यर्थः । (५) चैतन्याभावेऽपि भूतमात्रात् । (६) सुगतस्य । (७) कपिलादि । (८) कपिलादिदेशनाः अपि तत्त्वप्रतिपादिकाः स्युः। (९) शब्दाः। (१०) देशनाः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org