________________
१०
१५
२०
२५
सिद्धिविनिश्चयटीकायाम्
[ ७ शास्त्रसिद्धिः
इत्यादि । लक्षणानतिक्रमेण यथालक्षणं तच तचलणं च ( तत् स्वलक्षणं च ) नैरात्म्येतरवादिकल्पितं वस्तु तस्माद् विलक्षणं विसदृशं जात्यन्तरं तस्य इति लक्षणात् । तन्न नैरात्म्यपक्षे तत्वज्ञानम् (नातू) निर्वाणं युक्तम् । एवमस्तु इति चेत् ; अत्राह - कुतः इत्यादि । कुतश्चित् प्रमाणात् तत्त्वस्य प्रतिपत्तिः सुगतस्येतरस्य वा । एवं तावत् स्वार्थसंपत्ति: सुगतस्य निषिद्धा |
अधुना [परार्थसं] पत्तिं निराकुर्वन्नाह - साधन इत्यादि । साधनवचनस्यापि त्रिरूपलिङ्गवचनस्यापि *“यत् सत् तत् सर्वमनित्यम् " [ वादन्या० पृ० ६] इत्येवमादिकस्य न केवलम् *'अग्निहोत्रं जुहुयात्" [मैत्रा० ६।३६ ] इत्येवमादिकस्य तत्त्वानभिधानोपगमात् सौगतैः । [ततः ] किम् इत्याह- ततः कीदृशी इत्यादि । वतुः सत्या (तत्त्वस्य चतुः सत्यस्य ) देशना सुगतस्य कीदृशीति । तन्न युक्तम्
४४८
*"ज्ञानवान् मृग्यते कश्चित् तदुक्तप्रतिपत्तये ।
अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः ||" [ प्र०वा० १।३२] इति ।
ज्ञानवति सत्यपि तद्वचनात् तत्त्वाप्रतिपत्तेः वक्तुरभिप्रायमात्राय (र्थ) प्रतिपत्तिः पुनरन्यवचनादपि । तत एवं वक्तव्यम् -
ज्ञानवान् मृग्यते कश्चित् तदुक्तप्रतिपत्तये ।
"
न ज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः ।। इति ।
सुगतसन्निधानात् स्वयमेव जनस्य तत्त्वप्रतिपत्तिः, "कुड्यादिभ्यो वा देशनाः ।" इति केचित् ; [ ३५५ ख ] तदयुक्तम् ; यतः तत्सन्निधानात्तस्य तत्त्वप्रतिपत्तिः अध्यक्षरूपा, विकल्परूपा वा स्यात् ? प्रथमपक्षे तत्सन्निधानोपाया जन्मिनां सर्वज्ञतेति प्रसक्तम् । चतुः [सत्यज्ञस्य ] सर्वज्ञत्वम् इति परस्य मतम् । तदुक्तम्
*“हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः ।
यः प्रमाणमसविस्तो (मसाविष्टो ) न तु सर्वस्य वेदकः || दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शी चेदे 'गृद्धानुपास्महे ॥"
[प्र०वा० १।३४-३५ ] इत्यादि । तथा च तत्त्वाभ्यासोऽनर्थकः । द्वितीयपक्षे - विकल्पमात्ररूपा, अनुमानरूपा वा स्यात् ? अत्रापि प्रथमविकल्पे उक्तो दोषः कथमतत्त्वभावना इत्यादि । [ यदि ] पुनस्तस्याः परमार्थविषयत्वमिष्यते, व्याहतमेतत् -" द्वे एव प्रमाणे " [ प्र० वार्तिकाल० ३|१] इति *"विक
Jain Education International
(१) कथञ्चिन्नित्यानित्मकम् । (२) नैयायिकादिवचनादपि संभवति (३) “ संभारावेधतस्तस्य पुंसश्चिन्तामणेरिव । निःसरन्ति यथाकामं कुव्यादिभ्योऽपि देशनाः ॥" - तत्वसं० श्लो० ३६८० । “सान्निध्यमात्रतस्तस्य ..." मी० श्लो० सू० २ श्लो० १३८ । (४) जगतः । (५) सुगतसन्निधानमात्रेण । (६) हेयं दुःखसत्यम्, उपादेयं निरोधसत्यम्, तयोः अभ्युपायः समुदय-मार्गसत्ये । (७) एस आगच्छत । (८) पक्षिणो । दूरदर्शिनः दूरश्र तींश्च । ( ९ ) विकल्पात्मक भावनायाः । (१०) द्विविधमेव प्रमाणम्" - प्र० वार्तिकाल० ।
For Personal & Private Use Only
www.jainelibrary.org