________________
४४७
७२]
श्रुतनिरूपणम् *"आत्मनि सति परसंज्ञा स्वपरविभागात् परिग्रहद्वेषौ । अनयोः संप्रतिबद्धाः सर्वे दोषाः प्रजायन्ते ॥" [प्र० वा० १।२२१] इत्यादि ।
दूषणान्तरमाह-नित्यस्य इत्यादि । नित्यस्य अविचलितरूपस्य वस्तुत्वमेवं संभाव्याsनेन (मेव न संभाव्यम् । अनेन) तथावृणाम् । ('बोदधृणाम्') इत्येतदपि व्याख्यातम्।
अधुना सौगतमतं स्वयं दूषयितुमुपन्यस्यति-चतुःसत्य इत्यादि । दुःखसत्यादिदुःखसमु- ५ दा (द) यनि [रोधमार्गसंज्ञकानि चतुःसत्यानि तेषां भावनोपायो हेतुर्यस्य स तथोक्तः तं ब्रवाणाः सौगताः। किं तद् ? इत्याह-निर्वाणम् मोक्षम् । किंभूतम् ? इत्याह-सकल इत्यादि । [सकलसन्तानोच्छेदरूप] प्रत्यवस्थायेरन (स्थाप्यरन्) पर्यनुयुज्येरन् इति । कथमिति चेत् ? अत्राह-कथमित्यादि । चतुःसत्यप्रतिपादकवचनजनि[तं] तद्विषयं ज्ञानं मिथ्याज्ञानम् [तस्य] अर्थ (अर्थाऽ)विषयत्वात् अर्थाप्रतिबन्धात् साक्षात् तस्मादनुत्पत्तिः शब्दस्य १० च तैरेवं [तत्प्रतिबन्धानभ्युपगमात् ततः कथं न कथश्चित् तत्त्वस्य चतुःसत्यलक्षणस्य [३५४ख प्रतिपत्तिः । तथापि यदेव ततः प्रतीयते तदेव भाव[य]तां मुक्तिः स्यात् इति चेत् ; अत्राह-कथम् इत्यादि । कथम् अतत्त्वस्य शब्दार्थस्य भावनायाः तस्याः प्रष (प्रकर्ष) पर्यन्तः प्रकर्षावसानं तस्माजातं तज्जं तत्त्वज्ञानं चतुःसत्यज्ञानं निर्वाणं 'च' इति पूर्वदूषणसमुच्चये कामशोकायुपप्लुतज्ञानमिव अतत्त्वज्ञानमेव स्यादिति । न (तन्न) युक्तम्
*"स्वर्गापवर्गमार्गस्य प्रमाणं भेदको (वेदको) नरः। अन्यस्याप्यपरिज्ञाने संभवेदपि तस्य तत् ॥" [प्र. वार्तिकाल० २।३१] इति ।
तत्रैव दोषान्तरमाह-मिथ्र्यकान्त इत्यादि । नित्यात्मादिप्रतिपादकशास्त्रार्थज्ञानस्येव चतुःसत्यप्रतिपादकीस्त्रस्यापि मिथ्यकान्ताविशेषः तस्मिन् सति नैरात्म्येतरपक्षयोः नैरात्म्यम् आत्मरहितत्वम् इतरत् सात्मकत्वं तयोः पक्षौ [तयोः] प्रतिज्ञतरयोः अस्ति वा २० कश्चिद्विशेषः ? न कश्चिदस्ति इत्यर्थः । ततो यथा आत्मा ( न आत्म)भावनातो मुक्तिः तथा नैरात्म्यभावनातोऽपि इति मन्यते ।।
ननु किमुच्यते तयोर्न कश्चिद्विशेष इति, यावगनैरात्म्यपक्षादिकयावता तरान्य पक्षादिकमस्ति (यावता नैरात्म्ये प्रत्यक्षादिकमस्ति) नेतरपक्ष (पक्षे) ततः श्रुतादर्थमवगम्य पुनः प्रत्यक्षानुमानाभ्यां विचार्य भावयतां नैरात्म्यवादिनामेव मुक्तिरिति चेत् ; अत्राह-प्रत्यक्षेत्यादि । २५ प्रत्यक्षं च हेतुश्च लिङ्गं तदाभासौ च प्रत्यक्षहेतुतदाभासौ त एव विकल्पा भेदाः तेषां सम्बन्धो अर्थाविनाभाव[स्तस्य भावाभावौ प्रत्यक्षहेतुविकल्पयोः अर्थसम्बन्धाभावः (न्धभावः) प्रत्यक्ष [३५५क] हेतुत्वाभासविकल्पयोः सम्बन्धाभावः, तयोश्च 'नैरात्म्येतरपक्षयोः अस्ति वा कश्चिद्विशेषः' इति सम्बन्धः । पक्षद्वयेऽपि प्रत्यक्षादिनिषेधात् । कल्पनया उभयत्रापि तत्समानमिति मन्यते । एतदपि कुतः ? इत्यत्राह-मिथ्येत्यादि । मिथ्या कल्पितो.. विषयो [गोचर] स्तयो र्भावः तत्ता तस्या अविशेषात् । सोऽपि कुतः? [इत्यत्राह-यथालक्षणम् ]
(१) अर्थैरेव । (२) शब्दात् । (३) नैयायिकशास्त्र । (४) बौद्धशास्त्र । (५) आत्मवादपक्षे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org