________________
सिद्धिविनिश्चयटीकायाम् [७ शास्त्रसिद्धिः अन्यकरणं विना ? अन्यथा अर्थमपि तथैव पश्येदिति किं कृतं करणकल्पनया ? तत्रापि तदन्तरकल्पने अनवस्था । तथापि तत्कल्पनायां दोषमाह-अतिप्रसङ्गात, अन्यस्यापि तथा कल्पना स्यात् इति । तन्न युक्तं कारणम् (करणम् ) इत्यादि ।
यत्पुनरुक्तम्-'पश्यन्' इत्यादि; तत्राह-कथं चेतनस्या[प्य] कर्तु रुपलब्धिः अति५ प्रसङ्गात् इति । अकतुः पुरुषस्य *"अंक गुणः शुद्धः पुरुषः कपिलदर्शने ।" इति वच
नात् कथम् उपलब्धिः अर्थसाक्षात्करणं चेतनस्य दर्शस्वा (दर्शनस्व)भावस्य । नहि अर्थसनिधानात् प्राक् [३५३ख] तद्दर्शने [s]व्यापृतं रूप यहतः (रूपमजहतः) पुनः तदर्शनं युक्तम्
पूर्व न युक्त' पूर्ववत् । परित्यागे कथ [न्न कर्तृत्व करणक्रिययेव दर्शनक्रिययापि श्लिष्ट• कर्तृत्वात् । अथ सर्वदा उदासीनः पुरुषो दर्पणसंस्थानायो यो (नीयो) यदा सन्निहितोऽर्थो १० भवति तं तदा पश्यति इति; तदा (द) युक्तम् ; औदासीन्यापरित्यागे तैदयोगादिति । अथ सर्वदा पश्यत्यसौ; तत्राह-अतिप्रसङ्गादिति । सर्वस्य सर्वदा सर्वत्र सर्वार्थोपलब्धिप्रसङ्गात् ।
दूषणान्तरमाह-दृश्येत्यादि । दृश्यदर्शनस्वभावयोः प्रकृतिपुरुषयोः व्यापकयोः कथं संयोगो वा नचेद्वा (भवेत् १ वा) शब्दो प्रसङ्गसमुच्चयार्थः । ननु कदाचित्तयोः अवस्था
न्तरावाप्तिः ततोऽयमदोष इति चेत् ; अत्राह-तदवस्थयोः कूटस्थयोः इत्यर्थः । ननु प्रधानस्य १५ परिणामित्वात् 'तदवस्थयोः' इत्ययुक्तमिति चेत् ; न; पुरुषस्यापि तद्वत् परिणामित्वापत्तर
विशेषादिति मन्यते । यतः (अतः) संयोगो भवेत्यम (भवेदित्यस्या) निवृत्तिरिति । एवं व्यतिरेकमुखेन परिणामीति व्याख्यातम् ।।
__ संप्रति नैयायिकमतं दर्शयति सौगतेन दूषयितुम् आत्मा इत्यादि । आत्मादि प्रधानं यस्य पदार्थसमूहस्य स एव तत्त्वं तज्ज्ञानात् मिथ्याज्ञाननिवृत्तौ सत्यां दोषानुत्पत्तेः दोषा २० रागादयः तेषामनुत्पत्तेः प्रवृत्तेरसंभवात् रागादिकार्य[धर्मा]धर्मयोरसंभवात् जन्मनिवृत्ती अशेषगुणरहितस्य आत्मनः स्वात्मन्यवस्थानं मोक्षमाहुः नैयायिकाः । तदुक्तम्
*"प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतकनिर्णयवादजल्पवितण्डाहेत्वाभासछलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः ।"[न्यायसू० १।१।१]
*"दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावात्[अपवर्गः]" २५ [न्यायसू० १।१।२] इति ।
एतद्दूषणमाह सौगतः-सोऽयम् इत्यादि । सः साङ्ख्यामितः अयं नैयायिकेन उच्यमानः । कः ? इत्याह आत्मात्मीयग्रहः कथं मोक्षाय ? कुत इति चेत् ? आह-संसारहेतुतः । न च संसार कारणमेव मोक्ष]कारणं युक्तम् अतिप्रसङ्गात् । एतदपि कुतः ? इत्याह-अयोनिशो मनस्कारो यतः "निर्विषयो विकल्पो यतः इति मन्यते । तदुक्तम्
(१) "उक्तं च-अमूर्तश्चेतनो भोगी नित्यः सर्वगतोऽक्रियः । अकर्ता निर्गुणः सूक्ष्म आत्मा कापिलदर्शने ॥"-षड्द० बृहपृ० ४२। (२) 'पूर्व न युक्तम्' इति पुनलिखितम् । (३) द्रष्टापि दर्शनक्रियायाः कर्ता एव । (४) दर्शनकर्तृत्वरूपद्रष्टत्वायोगात् । (५) पुरुषः । (६) प्रकृतिपुरुषोः । (७) प्रधानवत् । (4) तदव्यवहितपूर्वस्याभावात् । (९) "अयोनिशो मनस्कारः भ्रान्तः निर्णयः'-अभिध० को० टी० ५।३।। (१०) भ्रान्तः इत्यर्थः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org