________________
७।२]
श्रुतनिरूपणम् ननु साङ्ख्यस्य पुरुष इस्तारो बोद्ध (पुरुषा द्रष्टारः, बोद्ध) पुनः प्रधानं बोधपरिणामात् , तत्कथमेवमाशङ्कितमिति चेत् ? न; बोधदर्शनयोव्यतिरेकात्।।
__ स्यान्मतम्- 'नित्यं श्रुतं तेषां श्रेयःपथो [पायं स्यादिति चेत् ; अत्राह-सोपायो]पेयतत्त्वार्थम् इति । उपायो हेतुः संसारस्य मिथ्यात्वादिः मोक्षस्य सम्यग्दर्शनादिः उपेयं फलं संसारो मोक्षश्च , सह उपायेन वर्त्तत इति सोपायम् तच्च तद् उपेयं च तदेव तत्त्वम् ५ अर्थो विषयो यस्य तत्तथोक्तम् । [न] च नित्यं वेदश्रुतम् एवंविधिमिति निवेदयिष्यते । पि टकत्र याख्यं तेषां तत्पथे इति चेत् ; अत्राह-न वक्त्राकूतस्टव (सूच)नम् इति । पुरुषाभिप्रायसूचकं सौगतं वचः श्रेयःपथो न ।
सांख्य (ख्य) नैयायिकेन नैयायिक सौगतेन तं च स्वयं निराकुर्वन् , व्यातिरेकमुखेन । कारिकां व्याचष्टे-'करणम' इत्यादिना । तत्र सांख्यमतं तावदर्शयति-करणं श्रोत्रादि यथा यथा १० शृणोति गृह्णाति श्रुतं शास्त्रार्थमवगच्छति संधारयति कालान्तरस्मरणधारणविषयतां नयति विजानाति तदर्थपरिणतं भवति वितर्कयति 'युक्तमिदम् इदं वान्यथा' इति विजयते (विचयते) अभिनिविशते युक्त रुचिं करोति । किम् ? इत्याह-गुणेत्यादि । गुणाः सत्त्वादयः पुरुषाः पुमांसः तेषाम् अन्तरं भेदः स एव तत्त्वं तदिति । केन रूपेण ? उपायतया कारणतया । कस्य (स्याः)? इत्याह-अनादिदुःखनिवृत्तेः। किंभूतायाः इत्यै (इत्याह-ऐ) कान्तिके- १५ त्यादि। कस्य सम्बन्धिन्याः ? इत्याह पुरुषस्येति । तथा तथा पश्यन् । किम् ? इत्याहनिर्वेदं वैराग्यं च । किंभूतम् ? इत्याह [३५३क] एतद्दर्शितं करणदर्शितम् । कः ? इत्याहपुरुषः । किंभूतः ? चेतनः । पुनरपि किंभूतः ? अपरिणामी सत् ( स तम् ) पश्यन किं करोति ? इत्याह-मोक्षमुपैति । किं कुर्वन् ? अनुभवन् । किम् ? कैवल्यम् ।
ननु मुक्तस्यापि पुनः संसारः स्यादिति चेत् ; अत्राह-पुनः पश्चात् तरणं (करण) न २० दर्शयति 'आत्मानम्' इत्यध्याहारः । न च नैवार्यपुरुषः वश्यति। कुतः ? इत्याह-औत्सुक्यनिवृत्तेः इत्येवं केचित् कापिलाः ।
तत् नैयायिकेन दूषयन्नाह-तद् इत्यादि । तत साङ्ख्यसम्बन्धि । किम् ? उपायोपेयतत्त्वम् मृष्यतो (अमृष्यन्तः) असहमानाः नैयायिका मोक्षम् 'आहुः' इति सम्बन्धः । कथं मृष्यत (अमृष्यन्तः) ? इत्याह-कथमित्यादि । कथं चिदवृत्ति[:] ज्ञानं श्रवणादिरूपम् । २५ कस्य ? इत्याह-अचेतनस्य प्रधानपरिणामस्य करणस्य । कुतः ? इत्याह-अतिप्रसङ्गात् घटादेरपि तत्प्रसङ्गात् । [वा] अथवा कथं केन प्रत्यक्षानुमानप्रकारेण उपलब्धिः प्रतिपत्तिः अचेतनस्य परकल्पितस्य न केनचित् तंत्र तदभावात् कथं 'करणम्' इत्यायु(यु)क्तम् ।।
ननु यदि तन्न स्यात् कथं "तदर्शितं पुरुषः पश्येदिति चेत् ? अत्रोच्यते-करणं कथं पश्येत्
. (१) भेदाभावात् । "बुद्धिरुपलब्धिर्ज्ञानमित्यनान्तरम्'-न्यायसू० १।।१५। (२) मीमांसकः प्राह । (३) बौद्धः प्राह । सूत्रपिटकं विनयपिटकम् अभिधर्मपिटकं चेति त्रयम् । (४) पुरुषाणाम् । (५) श्रेयःपथः । (६)सौगतम् । (७) विचार करोति । (८) पुरुषे । (९) उपलब्ध्यभावात्। (१०) करणदर्शितम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org