________________
४४४
सिद्धिविनिश्चयटीकायाम् [७ शास्त्रसिद्धिः लक्षणात् कुतस्तत्त्वप्रतिपत्तिः ? साधनवचनस्यापि तत्त्वानभिधानोपगमात् , ततः कीदृशी सुगतस्य तत्त्वदेशना ?]
श्रुतमेव न प्रत्यक्षानुमाने, तयोरल्पविषयत्वात् । श्रेयो मोक्षः तस्य पन्था मार्गः, तन्मार्गस्य सम्यग्दर्शनादेः उपदेशात् श्रेयःपथः । केषाम् ? इत्याह-पुंसाम् आत्मनां न क्षणिक५ चित्तसन्ततीनां तंदभावात् । ज्ञानाद् एकान्तेन भिन्नानां स्यादिति चेत् ; अत्राह-बोधृणाम् स्वपरस्वभाववेदकानाम् अन्येषां सदपि श्रुतमनुपयोगि, घटादीनामिव तस्य श्रवणे अर्थावधारणे तदनुष्ठाने तत्फले मोक्षे च सति [न] तेषां तदुपयोगि । न च ज्ञानात् भिन्नात्मनां तदस्ति गगनादीनामेवदितिनात्म्त (नामिव इति नात्म) कल्पनं फलवत् ।
___अथात्मनां ज्ञानं बन्धो (ज्ञानसम्बन्धः)न गगनादीनां ततोऽयमदोषः; [३५२क] कथम१० दोषो यतः समवायसम्बन्धनिषेधात् , सतोऽपि सर्वत्राऽविशेषात् । न च भिन्नस्य आत्मनो
दर्शने 'इह ज्ञानम् आत्मनि' इति प्रत्ययोऽस्ति येन समवायोऽत्र स्यात् , अन्यथा 'खरशृङ्ग ज्ञानम्' इत्यपि स्यात् ।
अथ ज्ञानं द्रव्याश्रितं गुणत्वाद् रूपादिवत् , गुणतद्वतोश्च भेदः अन्यथा तँदयोगादिति मतिः; सापि न युक्ता; व ततः (यतः) सापि ज्ञानादिरूपादिभ्यो भिन्नस्य आधारस्य दर्शने १५ सत्येव स्यात् , न च तदस्ति इत्युक्तं पुरस्तात् । तथापि तद्दर्शनकल्पने ततोऽप्यन्यस्य तदाधारस्य
ततोऽप्यन्यस्य तदाधारस्य दर्शनकल्पनमित्यनवस्था स्यात् । तर्हि नानादि (ज्ञानादि) रूपादिमात्रमापन्नमिति नात्म (नात्मा) नापि घटादिस्कन्ध इति शाक्यशासनं समस्तमिति चेत् ; न ; पूर्वापरीभूतैकज्ञानस्य आत्मत्वप्रसावना तथ (प्रसाधनात् , तथा) रूपादिविशेषाणां कथञ्चिदे
कत्वमुपगतानां घटादिस्कन्धस्थापनात् । तथाविधज्ञानस्य अपरद्रव्याश्रितत्वसाधने तृपक्ष (मत्पक्ष) २० साधन (नं) हेतुश्च असिद्धः, तस्य गुणत्वाऽसिद्धः *"द्रव्याश्रय (य्य)गुणवान् संयोगवि
भागेष्वकारणम् [अनपेक्षः] गुणः" [वैशे० सू० १।१।१६] इति गुणलक्षणम् । न चास्य द्रव्याश्रयित्वम् ; पूर्वापरज्ञानभेदेन वाऽस्य सम्बन्धात् द्रव्यगुणयोरविशेषः । अथ पूर्वोत्तरस्वभावयोः गुणत्वं तदाश्रितत्वं च उच्यते ; अत्र परिहारः
ज्ञानाद्भिन्नस्तथा न स्यादात्मा स्त (स्तु तथा मतिः (सति)।
समवायस्तथैकार्थसमवायिविदा च वित् ॥ ततः सूक्तम्-बोधृणाम् इति । एवमपि *"चैतन्ये (न्यं) पुरुषस्य स्वं रूपमपिति (स्वरूपम् )" [योगमा० ११९] इति वचनात् सांख्यपुरुषाणां "तत्स्यात् इति चेत् [३५२ख अत्राह-परिणामिनाम् इति ।
(१) मोक्षमार्गस्य । “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः"-त० सू० ११। (२) सन्ततीनामभावात् । (३) ज्ञानाद् भिन्नानाम् । (१) श्रुतस्य शब्दस्य । (५) विद्यमानस्यापि सर्वगतस्य एकस्य । (६) आत्मनि । (७) गुणत्वायोगात् । (८) आधारदर्शनम् । (९) पूर्वापरीभूतैकज्ञानस्य । (१०) जैनपक्ष । (११) श्रेयः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org