________________
७२] श्रतनिरूपणम्
४४३ न्यायाराद् (यात् ) आगमैश्च तरवाक्यैः (तद्वाक्यैः) इति । किंभूतैः ? इत्याह-बहुमुखैः बहुभेदैः।
ननु सांव्यवहारिकप्रत्यक्षानुमानाभ्यामेव सकलार्थसिद्धेः किमर्थशास्त्रमुपादेयमिति चेत् ? अत्राह-श्रुतम् इत्यादि ।
[श्रुतं श्रेयःपथः पुंसां बोद्धृणां परिणामिनाम् ।
सोपायोपेयतत्त्वार्थं न वक्त्राकृतसूचनम् ॥२॥ करणं पुरुषस्य ऐकान्तिकात्यन्तिकानादिदुःखनिवृत्तेरुपायतया गुणपुरुषान्तरभेदतत्त्वं यथा यथा शृणोति गृह्णाति संधारयति विजानाति वितर्कयति अभिनिविशते तथा तथा चेतनोऽपरिणामी पुरुषः एतदर्शितं.निर्वेदं पश्यन् कैवल्यमनुभवन् मोक्षमुपैति । पुनः करणं न दर्शयति । न चायपुरुषः औत्सुक्यनिवृत्तेः वश्यति इति केचित् । तदुपायो- १० पेयतत्त्वममृष्यन्तो नैयायिकाः कथं चिद्वृत्तिः अचेतनस्य करणस्य अतिप्रसङ्गात् ? कथं वाऽचेतनस्योपलब्धिः १ कथं करणमन्यकरणं विना पश्येत् १ कथं चेतनस्याप्यकर्तुंरुपलब्धिः १ दृश्यदर्शनस्वभावयोः व्यापकयोः वा तदवस्थयोः कथं वा संयोगः ? इति आत्मादितत्त्वज्ञानात् मिथ्याज्ञाननिवृत्तौ दोषानुत्तेः प्रवृत्त्यसंभवात् जन्मनिवृत्तौ अशेषगुणरहितस्यात्मनः स्वात्मन्यवस्थानं मोक्षमाहुः नैयायिकाः। सोऽयमात्मात्मीयग्रहः १५ संसारहेतुतः अयोनिशो मनस्कारो यतः कथं मोक्षाय ? नित्यस्य वस्तुत्वमेव न संभाव्यम् इति चतुःसत्यभावनोपायं सकलसन्तानोच्छेदरूपं निर्वाणं ब्रुवाणाः सौगताः प्रत्यवस्थाप्येरन् । कथं चतुःसत्यप्रतिपादकवचनजनितमिथ्याज्ञानस्य अर्थाविषयत्वात् ततः तत्त्वप्रतिपत्तिः ? कथमतत्त्वभावनाप्रकर्षपर्यन्तजं तत्त्वज्ञानं निर्वाणं च । नैरात्म्येतरपक्षयोः मिथ्यकान्ताविशेषे अस्ति वा कश्चिद्विशेषः ? प्रत्यक्षहेतुतदाभासविकल्पसम्बन्ध-२० भावाभावयोश्च, मिथ्याविषयताविशेषात् , यथालक्षणं स्वलक्षणविलक्षणजात्यन्तर- .
(१) "एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् । अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥ ६४ ॥ ज्ञान गुणपुरुषान्तरोपलब्धिरूपमित्यर्थः । प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ । ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमानोति ॥ ६८ ॥ इत्थमेकान्तमत्यन्ततः तापत्रयस्याभावात् उपरमादनुत्पत्तेः कैवल्यं मोक्ष इत्यर्थः, तमाप्नोति ।"-सांख्यका० माठरवृ० । (२) "दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः।"-न्यायसू० १।१।२। (३) "अथवा, एतेसं अभिसम्बुद्धत्ता अरियभावसिद्धतोपि अरियसञ्चानि । यथाह-इमेसं खो भिक्खवे चतुन्नं अरियसञ्चानं यथाभूतं अभिसम्बुद्धत्तो तथागतो अरहं सम्मासम्बुद्धोत्ति वुञ्चतीति [सं० ५।४३३]"-विसुद्धि० १६।२०-२२॥ "यद्विनिश्चयः-चतुरार्यसत्यदर्शनवदिति। आरात् पापकेभ्यो धर्मेभ्यो याता इत्यार्याः । अत एव तानि सत्यतया मन्यन्त इति तेषां सत्यानि । चतुष्ट्वाच्च तेषां चत्वारीत्युक्तम् । फलभूताः पञ्चसंक्लेशस्कन्धाः दुःखाख्यं सत्यमेकम् । त एव हेतुभूतास्तृष्णासहायाः समुदयाख्यं सत्यं द्वितीयम् । चित्तस्य निष्क्लेशावस्था निरोधाख्यं सत्यं तृतीयम् । तदवस्थाप्राप्तिहेतुनैरात्म्याद्याकारश्चित्तविशेषो मार्गाख्यं सत्यं चतुर्थ मिति ।" -न्यायबि० ध० प्र० पृ. ६७ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org