________________
[ सप्तमः प्रस्तावः ]
[७ शास्त्रसिद्धिः] प्रत्यक्षादिवत् शब्दोऽपि अर्थप्रसाधकः, तत्र च अविप्रतिपत्तेः तद्व्युत्पादनार्थमाहशास्त्रम् इत्यादि ।
[शास्त्रं शक्यपरीक्षणेऽपि विषये सर्वं विसंवादकम् , मिथ्यैकान्तकलङ्कितं बहुमुखैरुद्वीक्ष्य तांगमैः । स्यात्कारश्रुतसत्यलाञ्छनमुपादेयं सतां शासनम् ,
कारेकाऽत्र परीक्षणक्षमधियामेकान्तधाष्टयरलम् ॥१॥] शास्त्रं मंहदर्वा (महदवा)न्तरवाक्यात्मकं वचनम् , केवलस्य वर्णस्य पदस्य च व्यवहारानुपयोगात् । तत् किम् ? उपादेयम् आश्रयप्रणीयं प्रमाणीकं (आप्तप्रणीतं प्रामाणिकम्) कर्त्तव्यम् इत्यर्थः । कथम् ? इत्याह-परीक्षणक्षमधियाम् । कर्तरि ती *"कर्तृ कर्मणोः १० कृति" [पाणिनि० सू० २।३।६५] इति । 'तत्त्वपरीक्षणक्षमवुद्धिभिः ' इत्येके
(इत्यर्थः । क ? इ)त्याह-शक्यपरीक्षणेऽपि । शक्यं परीक्षणं यस्मिन् लिङ्गादौ न केवलम् अत्यन्तपरोक्ष एव विषये। किं किञ्चिदेव ? न ; इत्याह-सर्व सर्वज्ञेतरप्रणीतम् । किंभूतम् ? इत्याह-स्यात्कार इत्यादि । 'स्यात्' इति करणम् उच्चारणं यस्य तत् स्यात्कारं तच्च तत्र (तत्) श्रुतं च शब्दः तदेव सत्यम् अवितथं लाञ्छनं यस्य १५ तत्तथोक्तम् । कुतः ? इत्याह-सतां विद्यमानानां जीवादीनां शासनं प्रतिपादकम् । अथवा
सताम् अर्हतां ज्ञापकम् तत्कार्यत्वेन यतः । इत्थम्भूतत्वमस्य सन्दिग्धमिति चेत् ? अत्राह-कालकोविदारेका (का ? न काचित् आरेका) संशीतिः अत्र सतां शासने । [३७१ख] केषाम् ? इत्याह-परीक्षणेत्यादि ।
नन्वत्रैकान्तवादिप्रयुक्ता दोषाः सन्ति तत्कथमुपादेयमिति चेत् ? अत्राह-एकान्तेत्यादि । २० विषयिण्येकान्तवादिनि विषयस्य एकान्तस्य उपचारात् एकान्तवाच्च्यैः (धाष्ट्यः ) तद्वादिव्यामोहैः अलं पर्याप्तमात्रेति (पर्याप्तम् 'अत्र' इति) सम्बन्धः, तंदोषाणां निराकरणादिति मन्यते । किं कृत्वा तदुपायम् (तंदुपादेयम् ?) इत्याह-विसंवादकम् इत्यादि । मिथ्यैकान्तकलङ्कित (त) विसंवादक बुद्धीक्ष्य (कम् उद्वीक्ष्य) ज्ञात्वा 'शास्त्रम्' इत्यादि अत्रापि सम्बध्यते । कैः ? इत्यत्राह-तांगमैः, तर्केण तस्यैव दृष्टेऽपि युक्ततरविवरणात्
(१) महावाक्यमवान्तरवाक्यञ्च शास्त्रे भवतः । (२) षष्ठी । (३) "कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात्"-सि० कौ० २।३६५। (४) भगवदर्हतः कार्य श्रुतम् । (५) एकान्तवादिप्रयुक्तदोषाणाम् । (६) शास्त्रमुपादेयम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org