________________
६४१-४३ ] सद्धेतुनिरूपणम्
४४१ विभ्रमाऽसिद्धेः इति चेत् ; अत्रोत्तरम्-अन्तर्वृत्तेन 'तादात्म्य' इत्यादिना दर्शयति ।
[तादात्म्यादि प्रतीमः एकलक्षणविदो वयम् । सहक्रमविदामेकं तर्कात् स्वसंवेदनम् ॥४१॥ यतस्तत्त्वं यथा युगपत् प्रत्यक्षतरत्वयोः । समुदाय्यपि सम्बन्धात् तथैव समुदायिनाम् ॥४२॥ गुणीति गुणसमुदायः एकान्तः क्व नु संभवेत् ।
यदिदं प्रतीयमानं नोल्लध्यमपरैः जनैः ॥४३॥ ] तादात्म्यं साध्यसाधनयोः दृश्य-प्राप्ययोः कथञ्चिदेकत्वमादिर्यस्य हेतुफलभावैकत्वानेकत्वादिनाः (दीनां) तत्तथोक्तं प्रतीमः। के ? इत्याह-एकलक्षणविदो वयं जैनाः [कस्मात् १] इत्याह-तर्कात् विचारात् ।
ननु पूर्वपर्यायपर्यवसितज्ञानानन्तरपर्यायवृत्तिमत् तत् कथं तादात्म्यादिकं प्रतीमः इत्युच्यते इति चेत् ; अत्राह-सहेत्यादि । [सहविदां रूपरसादिगुणग्रहणानाम्] क्रमविदां मृत्पिण्डशिवकछत्रकादिपर्यायग्रहणानाम् एकमभिन्नं स्वसंवेदनं स्वम् 'आत्माऽयम्' संवेदनं आत्मापरनामकं तर्कात् प्रतीमो यतः इति । कदा कयोरिव ? युगपत् प्रत्यक्षतरत्वयोः। यथैव संवेदनं ततः प्रतीमः इति तथा सम्बन्धात् संयोगात् । केषाम् ? समुदायिनाम् १५ अवयवासहतां (अवयवसंहतानाम्) हस्तपादादीनां [३५१क] यः समुदायि(यी) शरीरव्यपदेशभाक् सोऽपि तत्त्वमेकत्वं 'प्रतीयते' इति विभक्तिवचनपरिणामेन सम्बन्धः। [यथा परमाणुसन्निवेशमात्रं तथैव गुणानां रूपादीनां समुदायः तत्त्वं प्रतीयते । यस्या (अस्य) पर्यायमाह-गुणीति । इति हेतोः एकान्तः क्व नुसंभवेत् ? न क्वचित् । यद् यस्माद् एकान्त (न्ता)संभवाद् इदं प्रतीयमानं स्वलक्ष्यात्मलक्षणम् अनेकान्तरूपत्वमु (त्वं नो) २० ल्लङ्घयमपरैः जैनैः (जनैः)।
इति सि द्धि वि नि श्च य टी का याम् अ न न्त वीर्य विरचितायां
. हेतुलक्षणसिद्धिः षष्ठः प्रस्तावः ॥ छ ।
(१) मृत्पिण्डशिवकछत्रकस्थासकोशकुशूलघटाः क्रमवर्तिनः पर्यायाः मृदो घटाकारभवनोन्मुखायाः। (२) अवयवरूपेण संहतानाम् एकत्रीभूतानाम् स्कन्धानाम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org