________________
सिद्धिविनिश्चयटीकायाम् [६ हेतुलक्षणसिद्धिः ___मा भूत् सकलप्रतिभासवैकल्यमात्रमप्रमाणकं शून्यत्वम् , अपि तु *"प्रतिभास एव • एकानेकत्वादिधर्मशून्यः तथैव च सांवृतः कार्यकारणभावः” इति प्रज्ञा क रः; तत्राहप्रत्यक्षत्वम् इत्यादि ।
[प्रत्यक्षत्वमभावानां कार्यकारणतेत्यपि।।
तेषामेव प्रसज्येत निरंशानुपलम्भनात् ॥४०॥ परमार्थसतोऽनुपलब्धेः । प्रत्यक्षानुमानयोः साकल्येन अवस्तुविषयत्वात् , कार्यस्वभावहेत्वोरवस्तुरूपत्वात् कुतस्ततः किञ्चित् सिध्येत् । न चैतत् निरंशं तत्त्वं सांव्यवहारिकं प्रमाणं प्रतिपत्तु युक्तं प्रतीतिविपर्यासात् , तदेकान्तेऽनुपपत्तेः ।]
प्रत्यक्षत्वं तद्विषयत्वं वाऽभावानां वन्या (वन्ध्या)सुतादीनां कार्यकारणता हेतु१० फलभावः इत्यपि तेषामेव प्रसज्येत न वस्तूनाम् । कुतः ? इत्याह-निरंशस्य तत्त्वस्य
सर्वविकल्पातीतसंवेदनस्य अन्यस्य वा अनुपलम्भनात् । ____ कुत एतत् ? इत्यत्राह-परमार्थसत इत्यादि। निरंशपरमाणुभागचित्राद्वैतस्य परमार्थसतोऽनुपलब्धेः। कुतः ? इत्यत्राह-प्रत्यक्ष इत्यादि । प्रत्यक्षस्य वचनवदवस्तुस्थूलाकारविषयत्वात् , अनुमानस्य तथाविधसामान्यगोचरत्वात् , साकल्येन अ[न]वयवेन ।
नन्वनुमानस्य अवस्तुविषयत्वेऽपि वस्तुसाधनत्वं तत्रै प्रतिबन्धादिति चेत् ; अत्राहकार्य इत्यादि । कार्यस्वभावहेत्वोरवस्तुरप (रूप) त्वात् मरीचिकाजलवत् असत्स्वभावत्वात् । यदि वा; निरंशत्वादनुपलम्भन तयोरपि वस्तुरूपत्वाभावात् । एतदुक्तत्वं(क्त) भवति-यदि कार्यस्वभावयोः परमार्थतः तत्त्वम् ; तर्हि तयोः साध्ये प्रतिबन्धात् तजाति (तज्जनि)तस्यानुमान
स्यापि संभवेत् । न चैवम् इति कुतः कारणात् ततः ताभ्यां कार्यस्वभावहेतुभ्यां किश्चित् २० पराभिमतं सिध्येत् न कुतश्चित् । यद्वा, 'प्रत्यक्षा [३५०ख] नुमानाभ्याम्' इति ग्राह्यम् ।
अथ व्यवहारिणा अभ्यासानभ्यासयोः यथा ताभ्यामेव तिद्वेष (तद्विष) याभ्यां भाविवस्तुसिद्धिः उपायान्तराभावात् तथा ममापि निरंशत्वसिद्धिः इति; तत्राह-'न चैतद्' इत्यादि । न च नैव इति (एतत) निरंशं तत्त्वं कर्तृ प्रतिपत्तम् आश्रयितुंयुक्तं शक्तम् । किम् ? इत्याह-सांव्यव
हारिक प्रमाणम् । कुतः ? इत्याह-प्रतीतिविपर्यासात । यथा पूर्वं पश्चाच्च सांव्यवहारिको २५ प्रतीति-तद्विपर्यासेन तत्त्वोपगमात् , प्रतीत्यनुसारेण च तव्यवस्था; तर्हि निरंशस्य अनुपलब्धेः उपलभ्यमानस्य च विचारासहत्वात् चेति ।
मात्रवस्तु (नन्वस्तु) *"मायामरीचिप्रभृतिप्रतिभासवदसत्त्वेऽप्यदोषः" [प्र. वार्तिकाल० ३।२१९] इति चेत् ; अत्राह-तदि(तदे इ)त्यादि । [तदेकान्ते] मिथ्र्यकान्तेऽभ्युपगम्यमाने अनुपपत्तेः । 'प्रत्यक्षत्वम्' इत्यादिना सम्बन्धः ।
(१) काल्पनिकः । (२) अभावानामेव । (३) शब्दवत् । (४) भवस्तुभूत । (५) वस्तुनि । (१) कार्यस्वभावहेत्वोरपि । (७) तत्त्वम् । (८) कार्यस्वभावहेतुभ्यामेव ।
१५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org