________________
६।३९ ] अदृश्यानुपलम्भादप्यभावसिद्धिः
४३९ सत्त्वान्तरवदनुपलब्धेः तदभाव इति क्षणिकत्वं कुतः सिद्धम् ? न कुतश्चित् । केषाम् ? इत्याह-अनंशसंविदाम् । कुतः ? इत्याह-सत्त्वस्य [स्व] भावविप्रकर्षात् [अनुपलम्भतः] । अनुपलम्भेन तत्सत्त्वस्यैवाभावात् इति भावः । कस्मिन् ? इत्याह-स्व इत्यादि । ____ कारिकाविवरणमाह-संविदाम् इत्यादि । संविदां तत्त्वं स्वरूपम् [३४९ख] अनंशमदृश्यमनुपलभ्यम् अतो न अस्ति इति मन्यते । ततः किं जातम् ? इत्याह-कथम् इत्यादि । ५ 'कथं च न' इति परस्य प्रश्नः । तत्र हेतुरुच्यते-स्वभाव इत्यादि । अत एव स्वभावविप्रकर्षादेव स्वपरभावाभ्यां व्यावृत्तिर्न सिध्येत् । सन्धिवाम् [संविदाम्] इति सम्बन्धः ।
ननु मिथ्याग्राह्याकारदर्शना [१] तदस्तीत्यनुमीयते तत्कथमुक्तं 'नास्ति' इति चेत् ? अत्राह-कुतो बहिरर्थोपलब्धिः अप्रत्यक्षोपलब्धेः सकाशात् 'अप्रत्यक्षोपलब्धेः' संभाव्येत संविदां तत्त्वम् इति । दूषणान्तरमाह-न च नैव सत्तानुपमानमितं (नुमानम् अनुमितं) बौद्धैः १० *"सत्तायां हि साध्यायां सर्वो हेतुः त्रयीं होष्यैर्जगतां नापि व तसे (त्रयीं दोषजातिं नातिवर्तते)" [प्र० वा० स्ववृ० १।१९३] इति वचनात् युक्तं वा न च सत्तानुमानम् इति हेतोरभावादिति भावः । अत्रापि यतः सत्तानुपमा (नुमा)नात संभाव्येत इति व्याख्येयम्। उपसंहारकारिकां दृश्यस्वभाव इत्यादिकामाह
[दृश्यस्वभाव एकान्ते नैवान्तर्बहिः कचित् ।
कुतः का क्व [च] भावः [स्यात्]क्वाभावव्यवहारकृत् ॥३९॥ बहिरन्तर्वा संशयस्यापि सिद्धरयोगात् किं केन व्यवस्थाप्येत ? तदय भूतचतुष्टयवादिनः पापीयान् ।]
एकान्ते कचिद् दृश्यस्वभाव उपलभ्यस्वभावो (वे) नैव अन्तर्बहिः । [कुतः] किं जातम् ? इत्याह-कुतः प्रमाणात् , का उपलब्धिः, क भावः सत्ता उपलब्धिनिबन्ध- २० नत्वात्तस्याः। तेंदभावेऽभावादिति क अभावव्यवहारकृत् सौगतः, तद्व्यवहारनिबन्धनस्य अन्योपलम्भस्याऽभावात् ।
कारिकां व्याचष्टे-बहिरन्तर्वा इत्यादिना । संशयस्तर्हि स्यादिति चेत् ; अत्राह-संशयस्यापि न केवलमन्यस्य सिद्धेः प्रतिपत्तेरयोगात , तस्यापि ज्ञानत्वात् निरंशत्वेन अन्यसमानत्वात् । अथवा, सिद्धेः निष्पत्तेरयोगात् तन्निबन्धनभावाभावसाधारणोपलब्धेरभावात् । २५ अस्तु सकलशून्यत्वं [३५०क] तदपि बौद्धाभिमतमेवेति चेत् ; अत्राह-किं शून्यत्वे (त्वं) केन प्रमाणेन व्यवस्थाप्येत न किञ्चित् केनचित् । यत एवं तत् तस्मादयं सौगतः भूतचतुष्टयवादिनः पापीयान् तेन प्रत्यक्षप्रतीतस्य आत्मन एव निषेधः कृतः अनेन सर्वस्य इति मन्यते ।
(१) 'अप्रत्यक्षोपलब्धेः' इति द्विलिखितम् । (२) असिद्धविरुद्धानैकान्तिकसंज्ञिकाम् । सत्तासाध्ये भावधर्मो हेतुरसिद्धः, अभावधर्मो विरुद्धः, उभयधर्मश्च अनैकान्तिक इति । (३) सत्तायाः। (४) उपलअध्यभावे । (५) अर्थान्तरोपलम्भस्य । (६) चार्वाकात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org