________________
४३८
सिद्धिविनिश्चयटीकायाम् [६ हेतुलक्षणसिद्धिः - प्रत्यक्षं कर्तृ विश्वतो विश्वमाश्रित्य यद् व्यवस्थितम् । तत् किं कुर्यात् ? इत्यत्राहस्वलक्षणं पश्यन् । किंभूतम् ? अन्यतः सजातीयविजातीयाद् व्यावृत्तं चेत् यदि; कथम् अदृश्याऽर्थस्वभावाभावग न तत्' अदृश्यार्थस्वभावस्य अभावदृग् कथं न ? भवत्येव । अन्यथा अन्यतो व्यावृत्तं स्वलक्षणं तत् कथं पश्येत् ।।
कारिकाम् आविष्कुर्वन्नाह-यथैकम् इत्यादि । यथा येन व्यारि (व्यवहारि)जनानुरोधप्रकारेण एकं भूतलादि पश्यन् सौगतः उपलब्धिलक्षणप्राप्ता [त्] तदर्थान्तरस्वभावाभावं पश्यति नियमेन अवश्यंभावेन तथा तेन प्रकारेण । किं करोति ? इत्याह-उपलब्धि इत्यादि । “पश्यन्ति' इति सम्बन्धः । न ह्यसौ दव्यादिकं (दध्यादि) स्वलक्षणप्राप्तो (प्राप्तौ) रज्ञादेते (रज
तादे) रेवाभावं पश्यति न पुनरदृश्य वो विसत्त्व (बोधिसत्त्व)समूहस्य । अस्यानभ्युपगते १० (गमे) दूषणमाह-अन्यथा इत्यादि । अनेन (अन्येन) उक्तविपरीत [३४९क] प्रकारेण अनुपपत्तेः । कस्याः ? असंकीर्णस्वभावोपलब्धेः । तथा च
दध्यादौ न प्रवर्तेत बौद्धः तैमुक्तये जनः । अदृश्यां सौगतीं तत्र तनूं संशङ्कमानकः ॥ दध्यादिके तथा भुक्तेन भुक्तं काञ्जिकादिकम् ।
इत्यसौं वेत्तु नो वेत्ति न भुक्ता सौगती तनुः ॥ इति । - दूषणान्तरमाह-व्याधीत्यादि । व्याधिभूतग्रहेन्द्रियादीनाम् एकान्ते[5]स्मिन् वि(नि)वार्यमाणे प्रवृत्तिनिवृत्त्योः सद्भा[वाऽ]सद्भावयोः कुतः सिद्धिः ? न कुतश्चित् , यतः सिद्धेः प्रत्ययान्तराणां साकल्यं वैकल्यम् अन्यद्वा प्रतिपद्यत । पुनरपि तदन्तरमाह-मन्त्रौषधादि
शक्तेश्च 'प्रवृत्तिनिवृत्त्योः कुतः सिद्धिः' इत्यादिना सम्बन्धः । नायं दोषः तस्याः दृश्यत्वात् २० इति चेत् ; अत्राह-दृश्येत्यादि । न चायम् एकान्तः दृश्यस्य आत्मशक्तिः दृश्यैव इति, क्षणभङ्गेन व्यभिचारितत्वात् इत्यलमतिप्रसङ्गेन दूषणपरम्पराया (रया)।
ननु व्यवहारे अदृश्यानुपलब्धिः संशयहेतुः उक्ती, तत्र चायं दोषोऽस्तु न पुनः प्रतिभासाद्वैते, तत्र अदृश्यस्यापि परचिंतादे(चित्तादे)निषेधादिति चेत् ; अत्राह-स्वभाव इत्यादि ।
[ स्वभाव [विप्रकृष्टत्वे] चित्रैकानंशसंविदाम् । २५
क्षणिकत्वं कुतः सिद्धं सत्त्वस्यानुपलम्भतः ॥३८॥
क्षणिक संविदां तत्त्वमनंशमदृश्य कथमस्ति ? कथं च न ? स्वभाव [विप्रकर्षात् ] । अत एव स्वपरभावाभ्यां व्यावृत्तिर्न सिध्येत् । अप्रत्यक्षोपलब्धेः कुतो बहिरर्थसिद्धिः संभाव्येत । न च सत्तानुमानं युक्तं यतः।]
इदमत्र तात्पर्यम्-निरंशैकपरमाणुरूपं तत् संवेदनं चित्रम् , एक वा ? प्रथमपक्षे
(१) प्रत्यक्षम् । (२) प्रत्यक्षम् । (३) दधिभक्षणाय । (४) शरीरम् । (५) दध्यादिनिष्पन्नम् । (६) भक्षको भिक्षुः । (७) दूषणान्तरमाह । (८) क्षणभङ्गो हि दृश्यघटादेरात्मभूतोऽपि अदृश्यो भवति । (९) “विप्रकृष्टविषया पुनरनुपलब्धिः प्रत्यक्षानुमाननिवृत्तिलक्षणा संशयहेतुः ।"-न्यायबि• २।४७ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org