________________
४३७
६३७]
अदृश्यानुपलम्भादप्यभावसिद्धिः विद्यते विवेके भेदे धीर्यस्य स तथोक्तः, गुडगोरसकारी इति यावत् । कस्मिन् सति ? इत्याह-अदृश्यानुपलम्भारेकैकान्ते सति इति ।
___ कारिकां विवृण्वन्नाह-स्वलक्षणम् इत्यादि । स्वलक्षणं परस्पर विक्रिक्षणि (विविक्तक्षणिक) परमाणुलक्षणम् स्वरूपम् आत्मस्वभावं पररूपम् अर्थस्वभावंवा । किंभूतम् ? इत्याहसजातीय इत्यादि । कुतः ? इत्याह-स्वस्व इत्यादि । तत्किम् ? इत्याह-पश्यतः सौगतस्य । ५ किं जातम् ? इत्याह-कथम् इत्यादि । कथं न कथञ्चित् तद्विवृत्तस्य (तद्व्यावृत्तस्य) सजातीयविजातीया (य)व्यावृत्तस्य स्वभावस्य दर्शनम् । कस्मिन् सति ? इत्याह-अनुपलब्धि इत्यादि । अनुपलब्धिलक्षणं प्राप्तो दर्शनागोचरो निरंशो यो अर्थ[स्त]स्य स्वभावासिद्धौ सत्याम् । नहि अदृश्यखण्डादिपरमाणुषु तथाविधकर्कादिपरमाणूनामभावः [३४७ख] सिध्यति । तन्न युक्त[म् -] *'सर्व (सर्वे) भावाः" [प्र० वा० ३।३९] इत्यादि का[रिका]त्रयम् । १० ___ माभूत् तद्दर्शनं को दोष इति चेत् ; अत्राह-तदभावे तदर्शनाभावे साकल्येन अनवयवेन दृश्यादृश्यस्वभावविवेकाऽसिद्धः सुखादिनीलादयो दृश्यस्वभाव (वाः) ईश्वरादयोऽदृश्यस्वभावा इति यो विवेको विभागः तस्य असिद्धेः कारणात् अतिनिद्रायितं जगत् स्यात् ।
अनभ्यासो नवाऽभ्यासो नाद्वयं वेदनं तथा ।
मानत्राणविनिर्मुक्तेः शून्यत्वे लोकसुस्थितिः ॥ स्यान्मतम्-न कचित् मया परमाणव इष्यन्ते यथाव्याहारं (व्यवहार) तत्त्वोपगमात् तेनायमदोष इति; तत्राह-प्रत्यक्षम् इत्यादि ।
[प्रत्यक्षं विश्वतः पश्यन्न चेद् व्यावृत्तमन्यतः ।
स्वलक्षणमदृश्यार्थस्वभावाभावहक् कथम् ॥३७॥ यथैकं पश्यन् तदर्थान्तरस्वभावाभावं नियमेन पश्यति तथा उपलब्धि [लक्षण-२० प्राप्तस्य] अन्यथा असङ्कोणस्वभावोपलब्धेरनुपपत्तेः । तथा च
दध्यादौ न प्रवर्तेत बौद्धः तद्भुक्तये जनः। अदृश्यां सौगतीं तत्र तनूं संशङ्कमानकः ॥ दध्यादिके तथा भुक्ते न भुक्तं काञ्जिकादिकम् ।
इत्यसौ वेत्तु नो वेत्ति न भुक्ता सौगती तनुः ॥ इति । व्याधिभूतग्रहेन्द्रियादीनामेकान्ते निवार्यमाणे प्रवृत्तिनिवृत्त्योः कुतः सिद्धिर्यतः प्रत्ययान्तरसाकल्यं वैकल्यमन्यद्वा प्रवर्तेत मन्त्रौषधादिशक्तेश्च दृश्य [लक्षणानुपपत्तेः । न चायमेकान्तः दृश्यस्य आत्मशक्तिई श्यैव इत्यलमतिप्रसङ्गेन । ]
.. (१) अदृश्यानुपलम्भाद् आरेकैकान्ते संशयकान्ते सति । (२) खण्डमुण्डादिगोविशेषेषु। (३) कर्कादि-श्वेताश्वादि । (४) “सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितः। स्वभावपरभावाभ्यां यस्माद् व्यावृत्तिभागिनः॥ तस्माद् यतो यतोऽर्थानां व्यावृत्तिस्तन्निबन्धनाः। जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः॥ तस्माद्यो येन धर्मेण विशेषः संप्रतीयते । न स शक्यस्ततोऽन्येन तेन भिन्ना व्यवस्थितिः॥"-प्र. वा० ३।३९-४१ । (५) विज्ञानवादिना ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org