________________
सिद्धिविनिश्चयटोकायाम् [६ हेतुलक्षणसिद्धिः जायते वृक्षादिस्वभावः शिंशपादिरिति दृष्टोऽर्थः, सौगतेन तस्यापि' न केवलम् अन्यस्य ईश्वरादेः अपलापात् । यथैव हि मुतत्र (मृताभिमत)शरीरे अदृष्टकार्यस्वभावमपि चैतन्यं सदिति शङ्कयते *"अप्रतिबद्धसामर्थ्यस्यैव कारणस्य कार्याभावोऽभावं गमयति ।" इति वचनात् , तथैव अग्निवृक्षादेः पूर्व पश्चाद्वा अंदृष्टज्ञानकार्यधूमशिंशपादिसत्ता शङ्कयत इति न प्रतिबन्धैं५ सिद्धिरिति मन्यते । तदपि कुतः ? इत्याह-क्वचिद् इत्यादि । क्वचित् नियतदेशादौ व्यवस्थितेरभावाद् अनवस्थितेर्भावस्य । तत्रैव हेत्वन्तरमाह-पर इत्यादि । 'जीवच्छरीरे आत्मनः घटादौ तस्माद् आत्मनिवृत्तौ प्राणि (ण) निवृत्तिः' इति परस्य जैनादेः पक्षः तस्याक्षेपो निरासः । तथाहिपरात्मनः पूर्वापरस्वभावानुगतचेतनालक्षणस्य न घटादौ दृश्यतारहितस्य प्रत्यक्षेणाऽनुपलम्भाद
भावः, अतिप्रसङ्गात् । नापि कार्यादर्शनात् मृतशरीरवद् अंतस्तत्रं तदभावसिद्धिः, न ततआत्म१० निवृत्तिपूर्विका प्राणादिनिवृत्तिः । स एव तन्मात्रं तत्राभिनिवेशाद् आग्रहात् स्वपक्षप्रति
क्षेपाद् ‘अग्निनिवृत्तौ कुंड्यादेः धूमनिवृत्तिः कार्यहेतोः विपक्षाद् व्यतिरेकः' इति स्व आत्मीयः सौगतस्य यस्तस्य (पक्षः तस्य) प्रतिक्षेपः प्रतिहतिः । तद्यथा मृताभिमतशरीरे प्रतिबद्धसामर्थ्य स्वकार्यमकुर्वदपि चैतन्यं घटादौ वा [३४८क] यथा संभाव्यते तथा कुड्यादौ अग्निः संभाव्यते इति नाग्निनिवृत्तिपूर्विका "ततो धूमनिवृत्तिः इति तस्मात् । न (च) शब्दः पूर्वसमुच्चये । आचार्यांयमभिप्रायमजानन् परः पृच्छति 'कथम्' इति ? तं प्रति उत्तरम् अदृश्य इत्यादि। .
["अदृश्यानुपलम्भारेकैकान्तेऽयं न लक्षयेत् ।
पिशाचो नाहमस्मीति दृश्यादृश्यविकल्पधीः ॥३६॥ स्वलक्षणं परस्परविविक्तक्षणिकपरमाणुलक्षणं स्वरूपं पररूपं वा सजातीय [विजातीयव्यावृत्तं] स्वस्व [भावव्यवस्थितेः] पश्यतः कथम् अनुपलब्धिलक्षणप्राप्तनिरंशार्थ२० स्वभावासिद्धौ तव्यावृत्तस्य भावस्य दर्शनम् ? तदभावे साकल्येन दृश्यादृश्यस्वभावविवेकसिद्धरतिनिद्रायितं जगत् स्यात् ।]
न च 'न दृश्यलक्षणप्राप्ते' इत्यादिना उक्तमेतदिति चेत् ; 'उपलब्धिलक्षणप्राप्तिः प्रत्ययान्तरसाकल्यं स्वभावविशेषश्च' इत्यत्र तदुक्तम् , इदं तु 'दर्शनविषयता तल्लक्षणप्राप्तिः' इत्यत्र उच्यते । अयं सौगतादिन लक्षयेत् । किम् ? इत्याह-पिशाचो नाहमस्मि न २५ भवामि इति । उपलक्षणमेतत् , तेन 'चेतनोऽचेतनो न भवति, अचेतनश्चेतनो न भवति' इति न च लक्षयेत् । एवं नीलादावपि वाच्यम् । किंभूतः ? इत्याह-दृश्याऽदृश्ययोन
(१) दृष्टस्यापि । (२) तुलना-"कारणानि च नावश्यं कार्यवन्ति भवन्तीति कार्यादर्शनादप्रतिबद्धसामर्थ्यानामेवाभावः साध्यः नत्वन्येषाम् ।'-न्यायबि० टी० २।३२ । (३) अदृष्टं ज्ञानाख्यं कार्य येषां धूमशिंशपादीनाम् । एवंभूता धूमशिंशपादयः, ये स्वविषयकं ज्ञानमपि नोत्पादयन्ति । अनुपलब्धाः इत्यर्थः । (४) अविनाभावसिद्धिः । (५) सद्भावः । (६) कार्यादर्शनात् । (७) घटादौ । (८) घटादेः । (९) भित्यादेः । (१०) भित्यादेः। (११) "इदमेवाकलय्य देवैरन्यत्रोक्तम्-अदृश्यानुपलम्भारेकैकान्ते"न्यायवि. वि. द्वि० पृ० २६ । (१२) उपलब्धिलक्षणप्राप्तिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org