________________
६।३५ ]
अदृश्यानुपलम्भादप्यभावसिद्धिः भवन्ति इति । अप्रतिबद्धसामर्थ्यस्य॑ भवत्येव तत्सिद्धिः इत्यपि नोत्तरम् ; सामर्थ्यस्य अदृश्यत्वा[त्] प्रतिबद्धसामयंतरविभागानवधारणात् ।
किं च, प्रतिबद्धसामर्थ्यस्य समर्थ्यस्य (अर्थस्य) सतोऽपि सँर्वस्य सर्वत्राऽभावाऽविनिश्वयाद् भावशङ्कया न केनचित् प्रवर्तितव्यं निवर्तितव्यं वा कुतश्चिद् इत्येतदापतितम् ।
कारिकां व्याचष्टे यथैव इत्यादिना । दृश्यवस्तुनोऽभावोऽनुपलब्धेः दर्शनाभावात् ५ सिध्यति यथैव । कस्मिन् सति ? इत्याह-दर्शन इत्यादि । दर्शनस्याऽभावोऽनुत्पत्तिः तस्य कारणं प्रत्ययान्तरवैकल्यं तस्यासंभवे प्रत्ययान्तरसाकल्य इत्यर्थः । एतदुक्तं भवति-प्रत्ययान्तरसाकल्येऽपि यदा भूतलघटे (भूतले घट)दर्शनं नोत्पद्यते तदा तदभावः प्रतीयते [३४७क] दृश्या भा (दृष्टान्ता)सिद्धिमुपदर्य दर्शनकारणसंभवमुपदर्शयता तदेवाङ्गीकृतम् इति । तथैवानुमेयस्य अनुमातुं योग्यस्य परचित्तादेः भवत्यभावसिद्धिः । कस्मिन् सति ? इत्याह-अनु-१० मानाभावकारणासंभवे इति । अनुमानाभावस्य कारणम् अनुमातृपक्षदृष्टान्तादीनामभावः, तस्यासंभवे तेषां संभवः इत्यर्थः । कुतस्तत्संभव तस्य भवत्यभावसिद्धिः इति चेत् ? अत्र हेतुः 'अनुपलब्धेः' इत्यनुवर्तनीयः अनुमानोपलब्धेरभावात् । नन्वनुमानम् अनुमेयकार्यम् ; अतोऽस्याभावे कथं तदभावं इति चेत् ? अत्राह-अन्यथा इत्यादि । अन्यथा अन्येन अनुपलब्धिः (?) तत्संभवे तदभावासिद्धिप्रकारेण निश्चेतनपरशरीरप्रतिपत्ते [रनुपपत्तेः] 'भवत्यभावसिद्धिः १५ अनुमेयस्य' इति ।
__ स्यान्मतम्-चेतनाकार्यस्य व्यापाराध्या (व्यापारव्या) हारादेः२ अदर्शनात् परवपुषि चेतनाविरहसिद्धिः, न च कार्याभावात् कारणाभाव(वः), प्रतिबद्धसामर्थ्यस्य [कारणान्तरवैकल्यस्य वा शङ्काऽनिवृत्तेः, ततो निश्चेतनपरशरीरप्रतिपत्तेरनुपपत्तेः इति सिद्धं साध्यत इति चेत् ; अत्राह-तदयम् इत्यादि । 'तद्' इत्येतत् 'सः' इत्यस्यार्थे । सोऽयं सौगतो भूत- २० चैतन्यवादिनं यत् कालत्रयेऽपि नाभूतं तद्भूतम् , तदा सत्वै (तदेव चैतन्यम् ) तद्वादिनं सांख्य (सांख्य) धार्टान (ष्ात्) विजयते । यथा असौं सर्वं सर्वत्रादृष्टमभ्युगपच्छति तथायमपि परशरीरे प्रतिबद्धसामर्थ्यचैतन्यवत् स्वज्ञाने प्रतिबद्धसामर्थ्यस्य सर्वत्र सर्वस्य भावोपगमात् । यदि वा, भूतान्येव चैतन्यं तद्वादिनमपि इति ग्राह्यम् । यथा, तेन भूतेषु अनुद्भूतमपि चैतन्यमिष्यते तथाऽनेन सर्वं सर्वत्र इति । कथं विजयते ? इत्याह-['सर्वथा' इत्यादि । २५ सर्वथा] सर्वप्रकारेण ।
ननु [३४७ख] सौगतस्य अनुमानमस्ति न तस्य तत्कथं धायेनैव विजयते इति चेत् ? अत्राह-अनुमानोच्छेदप्रसङ्गात् । कुत एतत् ? इत्यत्राह-दृष्ट इत्यादि । पावकादे—मादि
(१) "न च कारणान्यवश्यं कार्यवन्ति भवन्ति"-न्यायबि० टी० २।४८ । (२) कारणस्य । (३) कार्यसिद्धिः । (४) प्रतिपत्तः । कारणस्य वा । (५) सामर्थ्यप्रतिबन्धसद्भावाशङ्कया। (६) घटाभावः । (७) अनुमातृपक्षदृष्टान्तादिसद्भावे । (८) परचित्तादेः । (९) अनुमेयस्याभावे । (१०) अनुमानाभावः । (11) सम्बन्धः । (१२) व्याहारो वचनम् । (१३) सांख्यः । (१४) चार्वाकेण । (१५) चार्वाकस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org