________________
४३४
सिद्धिविनिश्चयटीकायाम् [६ हेतुलक्षणसिद्धिः ननु भवतु दृश्यादृश्यार्थलक्षणे न दृश्यलक्षणप्राप्ते इति, तथापि चक्षुरुन्मीलनादिसन्निधौ रूपादिज्ञानकार्यदर्शनात् क्वचिद् दृश्यार्थलक्षणे (णं) विविक्तं प्रतीयते, तददर्शनाददृश्यार्थलक्षणम् इतरविविक्तमिति चेत् ; अत्राह-[अ] दृश्यस्येत्यादि ।
['अदृश्यास्याननुमेयस्य दृश्यस्यानुपलम्भवत् ।
कथन्नाभावोऽनुमाभावकारणासंभवे सति ॥३५॥ यथैव दर्शनाभावकारणासंभवे दृश्याभावोऽनुपलब्धेः सिध्यति तथैव अनुमानाभावकारणासंभवे अनुमेयस्य परचित्तादेः भवत्यभावसिद्धिः अन्यथा निश्चेतनपरशरीरप्रतिप- . तेरनुपपत्तेः। तदयं भूतचैतन्यवादिनमपि धाया॑द्वि जयते सर्वथा अनुमानोच्छेदप्रसङ्गात्,
दृष्टार्थापलापात् क्वचिद् व्यवस्थित्यभावात् परपक्षाक्षेपमात्राग्रहात् स्वपक्षप्रतिक्षेपाच्च । १० कथम् ?]
___ अदृश्यस्य अनुपलभ्यरूपस्य । किंभूतस्य ? अननुमेयस्य अनुमानाऽपरिच्छेद्यस्य अप्रदर्शितकार्यादेः इत्यर्थः । किम् ? इत्याह-कथं नाऽभावः [प्रतीयते ?] प्रतीयत एव । कस्मिन् सति ? इत्याह-अनुमाभावकारणासंभवे इति । अनुमाया अभावोऽसत्त्वं तस्य कारणम् अनुमात्राद्यभावः तस्यासंभवे तद[स]द्भावे सति ।
स्यान्मतम्-यदि सर्वदा साध्यमदृश्यं कथं तत्र किञ्चित् प्रतिबद्धं सिध्यति ? किंच, न कार्याद्यभावेन नियमेया (नियमेन कारणाद्य)भावः, अन्यथा धूमशिंशपयोरभावो (वे) अग्निवृक्षयोः [३४६ख] तथाभावैः स्यात् । न चैवमिति चेत् ; अत्राह-दृश्यस्य अनुपलम्भवद् इति । दृश्य[स्य दृश्यार्थलक्षणोपेतस्य, उपलभ्यते इति उपलम्भः दृश्य इत्यर्थः, उपलभ्यतेऽ
नेन इति वा, न उपलम्भोऽनुपलम्भः तेन इव तद्वत् इति । एतदुक्तं भवति-यथा दर्शनाभाव२० कारणासंभवे द्रष्टा (ट्रा)दिसंभवे दर्शनाभावेन दृश्यलक्षणप्राप्तस्यापि, दृश्यलक्षणे[5]भाव उपलम्भस्य, अदृश्ये[s]भावो ग्राह्य तथा प्रकृतस्यापीति ।।
यत्पुनरुक्तम्-'अदृश्ये कथं कस्यचित् प्रतिबन्धः' इति; त[द] युक्तम् ; दृश्यलक्षणशक्तेरदृश्यत्वे कथं तत्र दर्शनप्रतिबन्ध इति चिन्त्यम् ।
यच्चान्यत्-न धूमाभावात् धूमध्वजाभाव इति; तदपि सुपरिहारम् ; यतः दर्शनस्य॑ घटादि२५ कार्यस्याभावे कथं क्वचिद् घटाभावसिद्धिः ? शक्यं हि वक्तुम्-नावश्यं कारणानि कार्यवन्ति
(१) तुलना-"अदृश्यानुपलम्भादभावासिद्धिरित्ययुक्तं परचैतन्यनिवृत्तावारेकापत्तः संस्कर्तृणां पातकित्वप्रसङ्गात् , बहुलमप्रत्यक्षस्यापि रोगादेर्विनिवृत्तिनिर्णयात् ।'-अष्टश० अष्टस. पृ० ५२ । “अदृश्यपरचित्तादेरभावं लौकिका विदुः। तदाकारविकारादेरन्यथानुपपत्तितः ॥"-लघी०श्लो०१५। (२) “यदि पुनरयं निर्बन्धः विप्रकर्षिणामभावासिद्धेस्तदा कृतकत्वधूमादेविनाशानलाभ्यां व्याप्तेरसिद्धेर्न कश्चिद् हेतुः । ततः शौद्धोदनिशिष्यकाणामनात्मनीनमेतत् अनुमानोच्छेदप्रसङ्गात् ।"-अष्टश० अष्टस. पृ० ५२। लघी० स्ववृ० श्लो० १५। प्रमाणसं० पृ० १०८। (३) अनुमानकर्तुरभावः हेत्वाद्यभावश्च । (४) अभावः स्यादित्यर्थः । (५) उपलम्भः । (६) द्रष्टुः प्रकाशादेर्वा सद्भावे । (७) दृश्ये वस्तुनि आधारभूते । (6) प्रत्यक्षस्य ।
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International