________________
६।३४ ] हेत्वाभासाः
४३३ त्वस्य अभावं प्रतिपद्यते तत्प्रत्यक्षस्य न पुरुषविशेषप्रत्यक्षस्य । किंभूतस्य ? इत्याह-अतीतस्य वर्तमानस्य । चशब्दोऽत्र द्रष्टव्यः समुच्चयार्थः । अन्यस्य निवृत्तावपि भावनिवृत्त्यसिद्धः इति भावः । अत्र दूषणमाह-नावृक्ष इत्यादि । शिशपा न भविष्यति इतेवमजानं (इति एवम् अजानन) अवृक्षो वृक्षो यो न तथा धूमो न भविष्यतीत्येवमजानन् । किंभूतः ? अनग्निजन्मा [न] विद्यते अग्नेर्जन्म [य]स्येति । कथं व्याप्तिज्ञ (व्याप्तिज्ञो) न कथञ्चित् सौगतः, व्याप्ति- ५ ज्ञत्वस्य साकल्येन अन्वयव्यतिरेकज्ञाता(ज्ञता)रूपत्वात् । पुनः पश्चात् तत्र वृक्षे अग्नौ वा अनुमानं कुर्यात् कथमति ('कथम्' इति) सम्बन्धः । तैदज्ञस्य तत्करण (णा) योगात् । उपसंहारमाहतन्नायमेकान्त इत्यादि । तत तस्मात् नायमेकान्तो निर्णयः । कस्य ? उपलब्धिलक्षणप्राप्तस्य । उपलक्षणमेतत् , तेन तद्विपरीतस्य वा अनुपलब्धेः (ब्धिः)अभावसाधनीति नायमेकान्तः । कः ? इत्याह-उपलब्धिलक्षणप्राप्तस्य । एवकारोऽत्र द्रष्टव्यः । अनुपलब्धिः निषे- १० ध्याकारविविक्तभावान्तर-तज्ञान (तज्ज्ञान)रूपा [अभावसाधनीति । भाविनोऽदृश्यस्य कालादेः, अदृश्येन शिंशपात्वादिना वृक्षत्वाद्यभावेन प्रसाधनात् इति भावः
___ नन्वेतत् हे तु बि न्दौ चोदितं प्ररहृत (परिहृतम्) न देशान्तरादौ कारणादेरभावेन कार्याद्यभावः साध्यते किन्तु तत्रं तदभाव[३४६] स्याऽनिर्णयात् , केवलं 'वृक्षाभवश्वत् (वृक्षाभावश्चेत् ) न शिंशपया भवितव्यम् , निःस्वभावतापत्तः, अग्नेरभावे न धूमेनें निर्हेतुकत्वं १५ स्यादिति प्रसङ्गसाधनमुच्यते' इति चेत् ; उक्तमत्र अन्वयव्यतिरेकाऽनिर्णये प्रतिबन्धाऽनिर्णयान्नैवमिति । कथं च शिंशपा वृक्षस्वभावी येन तदभावे न स्यात् ? तथा दर्शनात् ; यदि सर्वत्र' प्रतिपत्तः सर्वज्ञत्वम् । कचिच्चेत् ; अनित्यस्य प्रयत्नानन्तरीयकस्वभावता घटादौ तथा दर्शनात्। अथ वनकुसुमादौ "अन्यथापि दर्शनात् तस्य न तत्स्वभावता; 'शिंशपा वृक्षाभावे न भविष्यति' इति तथैव न प्रमाणम् । एतेन धूमो व्याख्यातः। तदभावे [अ]भावात् तस्याः तत्स्वभावता २० अन्योऽन्यसंश्रयः-सिद्धे तत्स्वभावे [तेदभा] वात्तस्या अभावः सिध्यति, ततः तत्स्वभावता इति न किञ्चिदेतत् ।
(१) अज्ञातव्याप्तिकस्य । (२) अनुमानकरणाभावात् । (३) अनुपलब्धिलक्षणप्राप्तस्य । (४) “यदि कारणाव्यापको तदन्यभावसिद्धया अनुपलब्ध्या सिद्धसद्व्यवहारौ अन्यस्याभावमभावव्यवहार च साधयतः सा च तयोरुपलब्धिलक्षणप्राप्तावेवासद्व्यवहारस्य साधिकेति कथं तयोः कारणव्यापकानुपलब्ध्योः परोक्षेऽर्थे प्रयोगः ? नैव प्रयोगः प्रमाणतया लिङ्गस्यानिश्चयात् । केवलं कारणव्यापकयोर्हि सिद्धसम्बन्धयोर्यद्यभावः परस्याप्यवश्यं नियमेनाभाव इत्येतस्य दर्शनार्थमेते क्वचित् प्रयुज्यते इति ।" (हेतुबि० पृ०६८) “कारणव्यापकयोर्हि कार्यकारणभावप्रसाधकेन पूर्वोक्तेन प्रमाणेन व्याप्यव्यापकभावसाधकेन च तदुत्पत्तिलक्षणे तादात्म्यलक्षणे च सम्बन्धे साधिते सिद्धसम्बन्धयोर्यद्यभावः यत्र यत्र अभावः स्यात् परस्थापि कार्यस्य व्याप्यस्य वा अवश्यं नियमेनाभावः, अन्यथा अहेतुकत्वप्रसङ्गाच......"-हेतुबि० टी० पृ० २०३-४ । (५) देशान्तरादौ । (६) अन्यथा । (७) भवितव्यम्, अन्यथा। (८) अविनाभाव । (९) सिद्धा । (१०) वृक्षाभावे । (११) तथादर्शनम् । (१२) तथादर्शनं तर्हि । (१३) स्यात् । (१४) प्रयत्नाभावेऽपि अनित्या दृश्यन्ते इति चेत् । (१५) अनित्यस्य । (१६) वृक्षाभावेऽपि शिंशपालतायाः संभाव्यमानत्वादिति । (१७) शिंशपायाः । (१८) वृक्षस्वभावता चेत् । (१९) वृक्षाभावात् । (२०) शिंशपायाः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org