________________
हेत्वाभासाः
४३१.
दृश्यस्य लक्षणं वक्ष्यमाणं प्राप्तं यकाभ्यां ते तथोक्ते न भवतः । के ? इत्यत्राह - दृश्येत्यादि । दृश्यादृश्यार्थयोर्लक्षणे यतो दृश्यलक्षणप्राप्तत्वात् । किम् ? इत्याहपरस्पर इत्यादि । दृश्यार्थलक्षणे [ अ ]दृश्यार्थलक्षणस्य, तंत्र वा दृश्प्रव्यथार्थ (श्यार्थ) लक्षणस्याभावः परस्पर(रा) भावः तेन खखभावव्यवस्थितिः तल्लक्षणयोर्व्यवस्थिति[३४४] हेतुत्वात् । निर्णयो व्यवस्थितिशब्देन उच्यते । 'परस्पराभावख भावव्यव - ५ स्थितः' इति पाठान्तरम् । स्वेन रूपेण व्यवस्थितो निर्णीतः दृश्योऽत्र लक्षणस्य इतरत्र तस्य च प्रकृत एव अभावो न सङ्करव्यतिकरौ इत्यर्थः । अत्रायमभिप्रायः - यदा दृश्यार्थ लक्षणवसितं भवति तदा लक्षणप्राप्तिः कचिदवगम्यते, अनुपलम्भाच्च तथा स्या (तस्या) भावः, न चैवम् इति ।
६।३३]
अत्राह परः- दृश्यार्थलक्षणं प्रत्ययान्तरसाकल्ये सति स्वविषयविज्ञानोत्पादनयोग्यत्वम् । १० तच्च टादे (घटादे) रवस्तुत्वभयान्नार्थान्तरम् इति तस्यावभासे अवभासते " एकस्यार्थस्वभावस्य" [प्र० वा० ३।४२] इत्यादि वचनात् । कथन्न दृश्यलक्षणं प्रत्ययान्तराणां घटादिसह१. चारिणां साकल्यं नमस्कारा (मनस्कारा) दीनां न तेभ्यो व्यतिरिच्यत इति दृश्यलक्षणपरिहारेण प्राप्तत्वे तादृशमेव । अदृश्यार्थलक्षणं पुनः तद्विपर्ययः । सोऽपि पर्युदासवृत्त्या उक्तभावस्वभाव इति न युक्तम् 'न दृश्यलक्षणप्राप्ते' इत्यादि । भवतु वा दृश्यार्थलक्षणं नैं दृश्यार्थलक्षण- १५ प्राप्तमंत्येभः । तथापि तस्य इतरत्र तादात्म्यनिषेधो न विरुध्यते इति ।
अत्र प्रतिविधीयते - स्वभावविशेषः प्रत्ययान्तरसाकल्यं च विषयस्य प्रत्ययान्तराणां च रूपादिज्ञान कार्यजननयोग्यता । सा च न दृश्यलक्षणप्राप्ता, कारणशक्तः अस्मादृशां नित्यं कार्यानुमेयत्वात् । अन्यथा कारणदर्शिनो न कार्ये सन्देहः इति न परलोकानुमानम्' अर्थवत् । यद्वक्ष्यति *"मन्त्रौषधादिशक्तेश्च दृश्यलक्षणानुपपत्तेः " [सिद्धिवि ०६।३५ ] इति । न च २० तावन्मात्रापेक्षं तद्वचनम्,[ ३४४ख] अन्यत्रापि तदविशेषात् । दृश्यसादृश्यरूपाविरोधश्चोक्तः । अदृश्यार्थ लक्षणमपि तद्योग्यताविरहः; सोऽपि न दृश्यलक्षणप्राप्तः । न दृश्यस्य धर्मादेरभावः " तत्प्राप्तो युक्तः । तदेवम् उभयो [र] दृश्यत्वेन परस्पराभावस्वस्वभावपरस्थिति ( व्यवस्थितिः) । न खलु परमाणुपिशाचयोः तद्व्यवस्थितिः । अत एव न तादात्म्यनिषेधोऽपि ; दृश्येऽन्यस्याभ्युपगमात् । अथ विरोधात् दृश्यार्थलक्षणे अदृश्यार्थलक्षणाभावः ; तदपि न दृश्यात्मनामे [व] २५ परेण विरोधोपगमात् । *" दृश्यात्मनामेव तेषां तद्विरुद्धानाम्" इत्यादि वचनात् । यदि पुनः कार्यानुमेयायां योग्यतायाम् इतराभावसिद्धिः प्रार्थ्यते, तदपि प्रार्थनमात्रमिति प्रतिपादयिष्यते 'अदृश्यस्य' इत्यादिना ।
1
(१) अदृश्यार्थ लक्षणे । (२) प्रतियोगिव्यतिरिक्त उपलम्भकारणान्तराणां समुदाये सति । (३) घटस्य । ( ४ ) ' प्रत्यक्षस्य सतः स्वयम् । कोऽन्यो न दृष्टो भागः स्याद्यः प्रमाणैः परीक्ष्यते ॥' इति शेषः । (५) मनस्कारः चेतसः आभोगः - उपयोग इति यावत् । (६) ६ एतदन्तर्गतः पाठो द्विर्लिखितः । (७) “तत्र उपलब्धिलक्षणप्राप्तिः उपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च ।” - न्यायबि० २।१४ । ( ८ ) योग्यता शक्तिरूपा । (९) परलोकगामिनो जीवस्य प्रत्यक्षत्वे तद्योग्यताया अपि साक्षात्करणं यतो जातम् । (१०) दृश्यलक्षणप्राप्तः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org