________________
४३०
सिद्धिविनिश्चयटीकायाम् [६ हेतुलक्षणसिद्धिः ___अन्यथानुपपत्तिनिर्णीतो हेतुः गमक इति हेत्वाभासा निराकृताः । कथम् ? अन्य
थैवोपपत्त्या विरुद्धः । तथा च अन्यथा चोपपत्त्या अनैकान्तिकः । अन्यथा च संभूष्णुरसिद्धः। तदज्ञाने पुनरज्ञातोकिञ्चित्करः। तथैवोदाहरणम् । न ह्येकलक्षणाभावे त्रिलक्षणं गमकम् ? अनुपलब्धिः । कुत एतत् ? उपलब्धिस्तावच्चित्रा निश्चेतुमशक्यैव । कथम् ?]
एकलक्षणसामर्थ्यात्] अन्यथानुपपन्नत्वमाहात्म्याद् हेत्वाभासाः हेतुप्रतिरूपका निवत्तिताः हेतुसामर्थ्यात् पृथक्कृताः । के ते ? इत्याह-विरुद्धत्यादि । विरुद्धादीनां द्वन्द्वं कृत्वा आदिशब्देन बहुव्रीहिः कर्त्तव्यः । तत्र आदिशब्देन सन्दि[ग्ध]परिग्रहः ।
कारिकां विवृण्वन्नाह-अन्यथा इत्यादि । [अन्यथा] साध्याभावे नियमेन या अनुपपत्तिः तया निर्णीतः पदार्थो हेतुः गमकः इत्येवं सामर्थ्याद् हेत्वाभासा विरुद्धादयो निराकृता [हे]१० तुत्वेन । पर[:] पृच्छति 'कथम्' इति ? सूरिराह-अन्यथैव साध्याभावप्रकारेणैव साध्यान्तर
एव उपपत्त्या विरुद्धः । तथा च साध्यभावप्रकारेण च अन्यथा च साध्याभावप्रकारेण च उपपत्त्या अनैकान्तिको व्यभिचारी । तथा, अन्यथा च संभूष्णुः असिद्धः । तदज्ञाने तस्य हेतोः सतोऽपि संशयादिनाऽज्ञाने अनिर्णये [३४३ख] पुनरज्ञातः 'असिद्धः' इत्यनुवर्तते ।
यदि वा, तस्य हेतुलक्षणस्य पक्षे अन्यत्र वाऽज्ञाने पुनरज्ञातोकिञ्चित्करः । अनेन 'संदिग्ध' . १५ इत्यादि विवृतम् । अत्रोदाहरणं किम् ? इत्यत्राह-तथैव यथैव 'असिद्धः सिद्धसेनस्य' इत्यादौ उक्तमुदाहरणं प्रतिपत्तव्यम् । ___ ननु नैकलक्षणविरहाद् विरुद्धादिनिराकृतः किन्तु पक्षधर्मत्वादिविरहादिति चेत् ; अत्राह-नोकलक्षणाभावे 'त्रिलक्षणं त्रीणि पक्षधर्मत्वादीनि लक्षणानि यस्य तत्तथोक्तं वस्तु गमकं लिङ्गम् अपि तु तत् तद्भाव एव । एवं मन्यते-यदि त्रिलक्षणं व्याप्तं गमकत्वं (क) तर्हि २० स्यादेतत् तदभावे न स्यात्' इति, यावतैव (तैक) लक्षणव्याप्तं तदभावे एव न भवेत् इति [किं त्रिलक्षणेन ?] किं तत् त्रिलक्षणं लिङ्ग मिति चेत् ; अत्राह-अनुपलब्धिः इत्यादि । कुत एतत् ? 'तदभावे तद्गमकम्' इत्येतत् कुत इति परः । सिद्धान्तवादी आह-'उपलब्धि' इत्यादि । तावच्छब्दः क्रमवाची, चित्रा नानारूपा निश्चेतुमशक्यैव । न चानिश्चिता गमिका इति मन्यते।
परः पृच्छति कथमिति केन प्रकारेण निश्चेतुमशक्या इति ? २५ तत्रोत्तरमाह-न दृश्यलक्षणप्राप्त इत्यादि ।
[न दृश्यलक्षणप्राप्ते दृश्यादृश्यार्थलक्षणे ।
यतः परस्पराभावस्वस्वभावव्यवस्थितिः ॥३३॥ तत्र उपलब्धिलक्षणप्राप्तिः उपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च । नहि उपलम्भप्रत्ययान्तरसाकल्यं तद्विरहो वा स्वयमुपलब्धिलक्षणप्राप्तं यतः तदन्योऽन्याभाव३० रूपेण निर्णयः स्यात् ।]
... (१) त्रैरूप्यं पुनः लिङ्गस्यानुमेये सस्वमेव ॥ ५॥ सपक्षे एव सत्त्वम् ॥ ६ ॥ असपक्षे चासत्त्वमेव निश्चितम् ॥ ७॥"-न्यायबि० परि० २।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org