________________
६॥३२ ] हेत्वाभासाः
४२९ नापि तद् रूपान्तरं सन्तानकारणकारणम् उपादानकारणमिति चेत् ; कोऽयं सन्तानो नाम ? हेतुफलप्रवाह इति चेत् ; न; सुगतेतरयोः एकसन्तानत्वप्रसङ्गात् । सुगतश्चेद् इतरस्य दुष्टा (द्रष्टा); तत्कार्यतया [एव भवितुमर्हति । सदृशः तत्प्रवाहः सः; इत्यपि नोत्तरम् ; हेतुफलावस्थयोः सुगतैकसन्तानापत्तेः । ज्ञानत्वेन सादृश्ये, न प्रकृतदोषपरिहारः। ___अथ उपादानोपादेयक्षणप्रबन्ध इष्यते तच्चैतदेव बुभुत्सितम्-भेदैकान्ते किमुपादानम् ५ इतरद्वा इति ? यदि पुनः एकस्मिन् सन्ताने पूर्वम् उपादानं परम् इतर ; तर्हि सिद्धे सन्ताने सति उपादानेतरसिद्धिः, तस्याः स्वसन्तानसिद्धिः इत्यन्योऽन्यसंश्रयः। अथ यद्विकारेण यद् विक्रियते तदुपादानम् इतरद् उपादेयम् ; केयं यद्विकारेण यद्विक्रिया नाम ? शास्त्रादिना संस्कृतचित्तात् तादृशचित्तोत्पत्तिः ; ततो योगिज्ञाना तयुषं (ज्ञानं तेषु) "तादृशं किन्न भवति येनैवम् ।
किं च, शास्त्रादिना प्रथमसंस्क्रियमाणं चित्तं पूर्वस्मात् तदसंस्कृतादेव ततो” जायते इति १० न युक्तम्-'यद्विकारेण' इत्यादि । तस्यापि तेन संस्कार इत्यपि नोत्तरम् ; अनवस्थाप्रसङ्गात् । ततो यद् उपादेयत्वेन परिणमते तदुपादानम् [३४३ क] ।
ननु सुप्तस्य स्वप्नदर्शिनो जाग्रद्विज्ञानं प्रबोधरूपेणापरिणममाण (न)मपि तदुपादानम्, अतो व्यभिचारः ; उक्तमत्र परिच्छेदे । कुतश्च तत्तस्योपादानम् ? तद्र,पप्रबोधदर्शनात् ; सुगतज्ञानमपि तद्र पं त्वया इष्यत एव तथा च तज्ज्ञानमुपादानम् बुद्धज्ञानमुपादेयम् इति प्रसक्तम् । देश- १५ भेदान्नेति चेत् ; "अन्यत्र सुप्तस्य अन्यत्र प्रबोधे न स्यात् ।
___ एतेन "स्वप्नान्तिकशरीरचित्तं तदुपादेयं निरस्तम् । अथ सुप्तस्य शरीरवत् चित्तस्याप्यतुट्यत्सन्तानतया देशान्तरगमनमिष्यते; कालान्तरगमनपरी (नमपी)प्यताम् अविशेषात् । तस्मादुक्तमेव उपादानं युक्तमिति सूक्तम्-तदन्येत्यादि ।
एवं तावत् 'असिद्धः सिद्ध से न स्य' इत्यादिना मिथ्यैकान्ते हेत्वभावं प्रदर्य २० अधुना एकलक्षणविरहे सर्वत्र तदभावं दर्शयन्नाह-एकलक्षणेत्यादि ।
[एकलक्षणसामर्थ्याद्धत्वाभासा निवर्तिताः।
विरुद्धानैकान्तिकासिद्धाज्ञाताकिञ्चित्करादयः" ॥३२॥ (१) यदा सुगतः इतरजनचित्तं जानाति तदा इतरजनचित्तं सुगतचित्तस्य कारणं भवति, अतस्तयोः एकसन्तानतापत्तिः । (२) सन्तानः । (३) घटपूर्वोत्तरक्षणयोः ज्ञायकेन सुगतज्ञानेन सह एकसन्तानत्वापत्तिः । (४) इतरजनज्ञान-तज्ज्ञायकसुगतज्ञानयोरेकसन्तानत्वापत्तिः ज्ञानत्वेन सादृश्यात् । (५) ज्ञातुमभिलषितम् । (६) उपादेयम् । (७) संस्कृतचित्तोत्पत्तिः। (८) संस्कृतचित्तात् । (९) योगिषु । (१०) संस्कृतमेव । (११)चित्तात् ।(१२)जाग्रद्विज्ञानं प्रबोधस्योपादानमिति ।(१३) गच्छच्छकटे देशान्तरे सुप्तस्य अन्यत्रच प्रबोधे । (१४) “यथा स्वमान्तिकः कायः त्रासलङ्घनधावनैः ।"-प्र०वार्तिकाल. २१३७ । (१५) तुलना"असिद्धस्त्वप्रतीतो यो योऽन्यथैवोपपद्यते। विरुद्धो योऽन्यथाप्यत्र युक्तोऽनैकान्तिकः स तु ॥"-न्यायावता० श्लो० २३॥ "अन्यथासंभवाभावभेदात् स बहुधा स्मृतः। विरुद्धासिद्धसन्दिग्धैरकिञ्चित्करविस्तरैः ॥" -न्यायवि० श्लो० ३६५-३६६ । “स विरुद्धोऽन्यथाभावाद् असिद्धः सर्वथाऽत्ययात् । व्यभिचारी विपक्षेऽपि सिद्धेऽकिञ्चित्करोऽखिलः । अज्ञातः संशयासिद्धव्यतिरेकानन्वयादितः ॥"-प्रमाणसं० श्लो० ४८-४९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org