________________
४२८
सिद्धिविनिश्चयटीकायाम् [६ हेतुलक्षणसिद्धिः सौ' ज्ञानानां च एकान्तेन भेदात् सोऽपि भिन्न इति चेत् ; अत्राह-एक इति । पूर्वापरस्वपर्यायसाधारणः । कया युक्त्या ? इत्याह-अन्यथानुपपत्त्या । अन्यथा एकत्वाभावप्रकारेण या जीव तरस्येस्य वा (जीवस्य इतरस्य वा) उक्तविधिना अनुपपत्तिः तया । सं यदि सत्तामात्रेण अभिनिबुध्यते सर्वस्य सर्वदर्शित्वमिति चेत् ; अत्राह-पश्यन् सत्तामात्रं चेतनेतरसा५ धारणं दर्शनेन विषयीकुर्वन् । तथाहि-चेतनेतरत्वादिसामान्यविशेषव्यवसायः ततोऽपरसामान्यदर्शनपूर्वकः, विशेषव्यवसायत्वात् दूरे स्थाणुत्वादिव्यवसायवत् । न च सत्तायाः परं सामान्यम् ; यतोऽनवस्था स्यात् । अथ निकटे सामान्यग्रहणमन्तरेणापि विशेषव्यवसायः ततो व्यभिचारः; न; तत्रावग्रहादिभेदस्य सतोऽप्यनुपलक्षणात् ।
नन्वेवमपि सत्तामात्रमस्तु ग्रहणात् , न विशेषो विपर्ययात् इति चेत् ; अत्राह-विकल्प१० यन् तदेव सत्तासामान्यं [३४२क] चेतने]तरत्वादिविशेषभिन्नम् अँवग्रहादिधारणापर्यन्त
ज्ञानेन विकल्पयन् व्यवस्यन् पूर्वं पश्चाच्च तथा स्मृत्वा प्रत्यभिज्ञाय चिन्तयन् अभिनिबुध्यते इति ।
इदमपरं व्याख्या] नम्-उपलभ्यमध्यरूपस्य पूर्वापरकोट्योः अदृश्यात्मानं दृश्यार्वाग्भागस्य परोक्षं परभागस्य [रसस्पर्शादिकम् अभिनिबुध्यते अनुमिनोति । कया ? इत्याह१५ 'अन्यथा' इत्यादि । दृश्यपूर्वापरकोट्योः अदृश्यात्माभावप्रकारेण अनुपपत्त्या । चर्चितमेतत् । किं कुर्वन् ? इत्याह-पश्यन् इत्यादि । व्याख्यातमेतत् ।।
कारिकां विवृण्वन्नात्मनः तत्र (सू त्र)का रे णैकवाक्यतां दर्शयति-[मति]रित्यादिना । 'अनर्थान्तरं' पदं व्याचष्टे-मत्यादीनां तादात्म्यलक्षणं कथश्चिदेकत्वस्वरूपं सम्बन्धमाह
'अनर्थान्तरम्' इत्यनेन सूत्र का रो न पर्यायपदत्वम् , प्रतीतिविरोधादिति । कुतः ? इत्यत्राह२० तदन्यतम इत्यादि । तेषु मत्यादिषु अन्यतमस्यापि न केवलं सर्वेषाम् अतादात्म्यैकान्ते
भेदैकान्ते सति अर्थस्य घटादेः अनुमेयस्य वा वह्नयादेः प्रतिपत्तेः अध्यक्षबुद्धः, सर्वतो व्यापृतस्य (व्यावृत्तस्य) परमाणुमात्रस्य दर्शनाभावात् , अनुपपत्तेः सन्तानान्तरवत् । यथा सन्तानान्तरं परस्य अदृश्यं तथा परमाणवः सर्वस्य । तथापि दृश्यत्वकल्पने सन्तानान्तरे कः प्रद्वेषः
यतः तदनुमेयत्वं तदभावं वाऽदर्शनात् कश्चिद् आचक्षीत ? प्रतिपत्तेः अनुमानबुद्धेर्वा अनुपपत्तेः २५ सन्तानान्तरे इव तद्वद् इति । यथैव अंन्यस्य धूमदर्शनाद् अपरस्य तददर्शिनोऽस्मरणात् ,
अपरतत्स्मरणात् पुरुषान्तर[स्याऽ]प्रत्यभिज्ञानात्, इतरस्य तर्काभावात् न सन्तानान्तरे [३४२ख अनुमानम् , तथा प्रकृतेऽपि ।
यदि पुनः कुतश्चित् प्रत्यासत्तेः एकसन्ताने, नान्यत्र, पूर्वपूर्वदर्शनादेः उत्तरस्मरणादिवृत्तेः अयमदोषः कल्प्यते; तन्न; यतः तत्रा (तत्र) हेतुफलभावनियमेऽपि उपादानेतरकारणवि३० [भागा]भावप्रसङ्गात् । यद्धि यद्र पतया परिणमते तत् तस्य उपादानम् । न चैतद् भेदेऽस्ति ।
(१) जीवः । (२) जीवः। (३) अपरं भिन्न सामान्यं सत्ताख्यम्। (४) भवग्रहावायधारणारूपेण । (५) तत्त्वार्थसूत्रकारेण । (६) परमाणूनाम् । (७) चार्वाकः । (८) पुरुषस्य । (९) प्रत्यभिज्ञानं न भवतीत्यर्थः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org