________________
६।३१ ]
बहिरर्थसिद्धिः
४२७
ततोऽन्यस्यं विचार्यमाणस्याऽयोगात् इति; तत्राह - मिथ्येत्यादि । काकाक्षगोलकन्यायेन कथं शब्द उभयत (त्र) संबध्यते [ ३४१क] ततो बुद्धस्येतरस्य वा मिथ्याविकल्पमन्तरेण तदुपदेशः कथं संभवति निर्विकल्पेन तद्विचारायोगात् इति भावः । अस्त्येव तद्विकल्प इति चेत्; अत्राहतन्मिथ्येत्यादि । तयोः बुद्धेतरयोः मिथ्याविकल्पानाम् ।
1
ननु च 'विकल्पानाम्' इत्युक्तेऽपि मिथ्यात्वं लभ्यते तद्रत्वात्तेषाम् तन्मिथ्येतिवचन- ५ मनर्थकमिति चेत्; उच्यते - सुगतस्य केचिदलिङ्गजं विकल्पज्ञानमिच्छन्ति । तद्यदि यथार्थम् ; प्रमाणान्तरं स्यात् प्रत्यक्षेऽनन्तर्भावात् । अन्तर्भावे वा तद् (तद्वत् ) तस्यापि सविकल्पं प्रत्यक्षं स्यात् गृहीतग्रहणात् । तत् प्रमाणं न भवति कथं तदन्तरमिति चेत्; तस्य निर्विकल्पवत् सव - कल्पस्यापि सन्तानवृत्तिसंभवे तद्गृहीतग्रहणात् अविकल्पमप्रमाणमस्तु तन्नद्य (तन्न ग) तार्थम् इत्यस्य प्रतिपादकमिति । यदि वा परापेक्षयैव तथाभिधानाददोष इति । अनेकान्तात्मकत्वं १० भ्रान्तेतरात्मकत्वम् भवत्वेवं को दोष इति चेत् ? अत्राह - कथम् इत्यादि । उपलभ्यं मध्यस्वरूपं यस्य वस्तुनः तत् कथं न वर्त्तेत । वर्त्तेतैव । क ? पूर्वापर कोट्योः । केन ?
अदृश्यात्मना ।
एवं क्रमाऽनेकान्तं प्रतिपाद्य स्कन्धेऽक्रमानेकान्तं कथयन्नाह - 'दृश्य' इत्यादि । 'कथं न ' इति सम्बन्धः । इति एवमलं प्रसङ्गेन । प्रकृतं निगमयन्नाह - [ तन्ने] त्यादि । यत एवं तत्तस्मात् १५ न बहिरन्तर्वा तत्त्वं प्रतिपत्तुमर्हति । कः ? इत्याह- मिथ्यैकान्तैः दर्शनैः विकल्पैश्च सौगतः। यथायं तथा भवानपि तत्त्वमनेकान्तं न प्रतिपत्तुमर्हति इति चेत्; अत्राह - प्रत्यक्षेणापि [३४१ख] इत्यादि ।
प्रसङ्गात्
ननु प्रत्यक्षं वर्त्तमानक्षणमात्रग्रहणमनर्थ (मग्नं) न पूर्वापरकोटिवीक्षणपद्ध (पटु, अ) तितथा तद अर्वाग्भागदर्शनं (ने) मग्नं न परभागादि वीक्षते अतो न तत्तदेकत्वं २० प्रत्येति । अत एव नानुमानं तत्तवर्यवद् (तत्कार्यवत् ) दृश्येतरात्मकत्वं कस्यचित् प्रतिपद्यते इति चेत्; अत्राह - ' पश्यन्' इत्यादि ।
७
[पश्यन् जीवः स एवैकः सत्तामात्रं विकल्पयन् । अन्यथानुपपत्त्या च तमेवाभिनिवुध्यते ॥ ३१ ॥
*“मतिः स्मृतिः संज्ञा चिन्ताभिनिबोध इत्यनर्थान्तरम्" [त०सू० १।१३] इति २५ मत्यादीनां तादात्म्यलक्षणं सम्बन्धमाह सूत्र का रः । तदन्यतमस्याप्यतादात्म्यैकान्ते अर्थप्रतिपत्तेरनुपपत्तेः सन्तानान्तरवत् । ]
जीव आत्मा अभिनिवुध्यते पूर्वापरयोः अभि समन्ताद् एकत्वं जानाति । किं वैशेषिकाद्यभ्युपगतः, न इत्याह- स इत्यादि । अत्रैव पूर्वं प्रसाधित इत्यर्थः । ननु ज्ञानात्मको
1
Jain Education International
(१) कपिलादेः । (२) विकल्पानां मिथ्या रूपावात् । (३) विकल्पज्ञानम् । (४) प्रमाणान्तरमिति । (५) सविकल्पेन गृहीतस्य ग्रहणात् । (६) बौद्धमतापेक्षयैव 'मिथ्या' इति विशेषणं प्रदत्तमिति । (७) जैनोऽपि । (८) प्रत्यक्षम् । (९) पूर्वापरैकत्वम् । (१०) उमास्वाम्याचार्यः ।
For Personal & Private Use Only
www.jainelibrary.org