________________
४२६
सिद्धिविनिश्चयटीकायाम् [६ हेतुलक्षणसिद्धिः तन्मिथ्याविकल्पानामनेकान्तात्मकत्वम् । पूर्वापरकोट्योरदृश्यात्मना कथमुपलभ्यमध्यस्वरूपं न वर्तेत । दृश्य 'इत्यलं प्रसङ्गेन । तन्न बहिरन्तर्वा मिथ्यैकान्तैः तत्त्वं प्रतिपत्तुमर्हति । प्रत्यक्षेणापि-]
· नन्वतत् पूर्वमुक्तम् अस्माभिः न शास्त्रकृता इति । प्रत्यक्षः मध्यरूपो मध्य५ स्वभावोऽर्वाग्भागो यस्य स तथोक्तः सचा [सा] वर्थश्च तस्मात्मनः (तस्य आत्मनः) स्वरूपस्य परोक्षता । तत्परोक्षता कैः ? इत्यत्राह-पूर्व इत्यादि । अत्र आदिशब्देन रसादिपरिग्रहः । दृष्टान्तमाह-बुद्धबुद्धिवत् इति सुगतबुद्धेरिव तद्वत् इति । एतच्च निदर्शनम् 'अनेकान्तापेक्षया न दृश्येतररूपापेक्षया ।
कारिकां विवृण्वन्नाह न केवलम् इत्यादि । अस्याऽयमर्थः-यदा सुगत आत्मसन्तान१० तत्सन्तानातीतानाद्यनन्तक्षणान् अन्यसन्तानतत्क्षणांश्च पश्यति वा, न वा ? प्रथमपक्षे न केवलं
सन्तानक्षणानां सहोपलम्भनियमाद् येन ज्ञानेन ते उपलभ्यन्ते तेन सह तन्नियमाद् एकसन्तानत्वं एकोऽभिन्नः कथञ्चिदन्योऽन्यसन्तानः सन्तानं येषां तेषां] भावः तत्त्वम् , अपितु सन्तानान्तराणाम् एकसन्तानत्वं सुगतज्ञानेन सह 'स्यात्' इत्यध्याहारः [३४८ख] बुद्ध
श्चेद् यदि बोद्धा सन्तानिनां सन्तानान्तराणां च । तथा च तद्व[द]न्यत्रापि दृश्येतररूप१५ तया । अथ यथादेशकालां (लं) तेषामसौ बोद्धा ; अनैकान्तिको हेतुः इति भावः। अथ
एतदोषद्वयभयाद् एकान्तेन न सहकत्वमिष्यते तेषाम् ; तत्राह-तदेक इत्यादि । तस्य बुद्धस्य विवक्षितं यदेकम् अतनसज्ञानं (मानसज्ञान) तेन उपलम्भात् कारणात् सन्तानिना सन्तानान्तराणां च सन्ततिनं भवेत । कुतः ? इत्यत्राह-तदेकतापत्तेः तेन उपलम्भकेन नै (लम्भेन ए) कतापत्तेः तेषामिति । अथ [स्व] रूपमात्रपर्यवसानात् न बुद्धस्तेषां बोद्धा ; तत्राह२० पुनरित्यादि । पुनः अतो दोषात् पश्चात् संवित्तेनिस्य 'बुद्धस्य' इति विभक्तिपरिणामेन
सम्बन्धः । अनन्यवेद्यनियमे अङ्गीक्रियमाणे । किम् ? इत्याह-स्वपर इत्यादि । स्वश्च परश्च तावेव सन्तानौ तयोर्विकल्पः क्षणक्षयादिभेदः स एव तन्मात्रशब्देन बहिरर्थाभावमाह, तस्योपदेशः कथं न कथञ्चित् बुद्धस्य । यो यन्न पश्यति न स तदविपरीतम् उपदिशति परेभ्यः
यथा रथ्यापुरुषः शास्त्रार्थम् , न पश्यति च बुद्धः तद्विकल्पमात्रमिति कारणानुपलब्धिः । तन्न २५ युक्तम्-*"अत्र भगवानेव धर्मादौ प्रमाणभूतत्वेन साध्यते" [प्र० वार्तिकाल० पृ० १] इति भावः ।
स्यान्मतम्- *"स्वरूपस्य स्वतो गतिः" [प्र०वा० १।६] इति वचनात् स्वरूपभापर्व्य (पमात्रपर्य)वसितेषु ज्ञानेषु न बुद्धतरप्रति (वि)भागो भावतोऽस्ति । तन्मात्रोपदेशः पुनः
(१) बुद्धज्ञानं हि सकलाथैः समम् उपलभ्यते न च तैः सह तस्य एकत्वमिति सहोपलम्भोऽनेकान्तः व्यभिचारीत्यर्थः । (२) 'सन्तानं' इति पुनरुक्तंभाति । (३) सन्तानानां सन्तानान्तराणां च । (४) "अत्र भगवतो हेतुफलसम्पत्त्या प्रमाणभूतत्वेन स्तोत्राभिधानं शास्त्रादौ शास्त्रार्थत्वात् , भगवानेव हि प्रमाणभूतोड़स्मिन् प्रसाध्यते ।"-प्र. वार्तिकाल । (५) परमार्थतः । (६) स्वपरसन्तानविकल्पमात्रोपदेशः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org