________________
४२५
६।३० ]
बहिरर्थसिद्धिः स्वभावनानात्वं यदि भावस्य भेदकं न भवेत् किं परव्यावृत्तेः कार्यकारणसन्तानकर्मफलसम्बन्धप्रभृतितदर्थस्मरणाधनेकछिद्राशक्यपिधानानर्थनिबन्धनया निरन्वयकल्पनया ?]
अयमभिप्रायः-परस्य सुखादिनीलादिशरीरव्यतिरिच्यमानप्रतिभासं स्वसंवेदनम् । न च 'तस्य नानैकत्वविरुद्धधर्माध्यासिना तादात्म्यम् । अतो भेदेऽपि तादात्म्यावभासो भ्रान्त्या, अन्यथा ५ अनेकान्त इत्युक्तम् इति [व]प्रत्यक्षं च चेतनादिरूपेण परोक्षश्च सुखादिविरोधवदाकारविवेकः तौ च तावात्मानौ च स्वौ प्रत्यक्षपरोक्षात्मानौ यस्य तत्त[थो]क्तं तच्च तज्ज्ञानं च तस्य सिद्धौ अङ्गीक्रियमाणायां न सिध्यति किं सिध्यत्येव । किमित्य व (किमिव) किमित्याह-एकोऽर्थः । किंभूतः ? प्रत्यक्षपरोक्षात्मा। केन ? इत्याह-कालादिभेदतः कालक्षेत्रादिभेदेन । एवं मन्यते-यस्माद् विज्ञानमेकं प्रत्यक्षपरोक्षात्मकं तस्मात् प्रत्यक्ष- १० परोक्षात्मकः सिध्यति । यस्माच ज्ञानतद्विवेकयोरभेदेन पक्षीकृतयोरपि तनियमोऽविद्यमानत्वेन भागासिद्धः तस्मादर्थः सिध्यति इति । ____ स्वभावेत्यादिना कारिकार्थमाह-प्रत्यक्षपरोक्षरूपेण यत् स्वभावनानात्वं ज्ञानस्य तद्भावस्य तस्यैव भेदकं नानात्वापादकं यदि न भवेत् परस्मात् सजातीयाद् विजातीयाच्च या व्यावृत्तिर्भावस्य तस्याः सकाशात् किं निरन्वयकल्पनया ? किंभूतया ? इत्याह-कार्य- १५ त्यादि । कार्यं च कारणं च सन्तानश्च [३४० क] कर्म च वासनारूपं *"चेतना कर्म" [अभिध० को० ४।१] इति वचनात् , फलं च देहान्तरसंचारादि, तयोः सम्बन्धश्च तदुत्पत्तिः, पुनः एतेषां प्रभृतिशब्देन बहुव्रीहिः, तदर्थः स्मरणादिः तस्य अनेकम् अनन्तरोक्तं छिद्रं दूषणम् तस्याशक्यं पिधानम् उत्तरं तदेवानर्थनिर्चव्यो (निबन्धो) यस्यां तया इति ।।
ननु नार्थवद् बुद्धेः स्वरूपं भ्रान्तम् , नापि स्वपररूपयोः अभ्रान्तेतरस्वभावं स्वग्राह्याकार- २० स्वभावं स्वग्राह्याकारविवेकापेक्षया दृशो (दृश्ये)तरस्वभावं वा येनाय (य) दोषः स्यात् , अपि तु सुखादिनीलादिशरीराकारमेव तन्नियमात् इति चेत् ; एतद् बुद्धज्ञान-तद्वद्याभ्यां व्यभिचारयन्नाह
"तनियमेऽपि तयोर्भेदे अन्यथा अनेकान्तं साधयन् (साधनम्) प्रत्यक्षेत्यादि ।
[तनियमेऽपि तयोर्भेदेऽन्यथाऽनेकान्तसाधनम् । प्रत्यक्षो मध्यरूपार्वाग्भागार्थस्तदात्मनः ॥३०॥
परोक्षता पूर्वरूपापरभागादिभिर्बुद्धबुद्धिवत् ।। न केवलं सन्तानक्षणानां तन्नियमादेकसन्तानत्वमपि तु सन्तानान्तराणाम् । बुद्धश्चेत् सन्तानिनां सन्तानान्तराणां च बोद्धा, तदेकोपलम्भात् सन्ततिर्न भवेत्तदेकतापत्तेः। संवित्तेः पुनरनन्यवेद्यनियमे कथं मिथ्याविकल्पमन्तरेण स्वपरसन्तानविकल्पमात्रोपदेशः१ ३०
(१) स्वसंवेदनस्य । (२) सहोपलम्भनियमः । (३) "चेतना मानसं कर्म"-अभिधः । (४) सहोपसम्भनियमात् । (५) सहोपलम्भनियमेऽपि । (१) बुद्धचित्त-तद्ग्राह्यसकलपदार्थयोः ।
२५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org