________________
४२४
१०
सहापलान
सिद्धिविनिश्चयटीकायाम् [६ हेतुलक्षणसिद्धिः 'सहोपलम्भात्' इत्येवकारार्थः, भेदाभेदयोः भेदस्य अभेदस्य वाऽभावसाधने नीलतद्धियोः अङ्गीक्रियमाणे तु । दृष्टान्तमाह-द्विचन्द्रनिर्भासवत् इति । यथा द्विचन्द्रनिर्भासयोरन्योऽन्यं न भेदो नाप्यभेदः, तयोः वस्तुनिष्ठत्वात् , तैन्निर्भासयोरवस्तुत्वात् तथा प्रकृतयोरपि इति ।
तत्र दूषणमाह-अनुपलब्धः [भेदाभेदयोरभावसाधने हेतुत्वेन उपन्यस्तायाः व्यतिरेकसिद्धिः ५ विपक्षाद्भावरूपाद् व्यतिरेकस्य व्यावृत्तेः सिद्धिः निर्णीतिविरुध्येत [३३९क] निरंशस्वसंवेदनभावेऽपि तस्या भावात् । न चाऽनिश्वितव्यतिरेको हेतुः गमक इति मन्यते । - ननु न तद् एकान्त[अभ्रान्त] रूपम् इष्यते किन्तु [स्व] रूपे अभ्रान्त (न्तं) ग्राह्याकारे अन्यथा इति चेत् ; अत्राह-नन्वमित्यादि (तत्त्वमिथ्येत्यादि ।) .
[तत्त्वमिथ्याग्रहैकान्ते बुद्धेः स्वार्थोपलम्भयोः ।
सहोपलम्भनियमः कान्त यतत्त्वधीः ॥२८॥ न चानेकान्तमन्तरेण नीलतद्धियोः सहोपलम्भनियमः । तमन्तरेण स्वयमन्तमितत्त्वस्य बहिरन्तस्याप्यसत्त्वात् कथञ्चिदनेकान्ते नैकान्तेनैकत्वम् ।
वुद्धः स्वोपलम्भे अर्थोपलम्भे च याथासंख्येन तत्त्वाग्रहैकान्त मिथ्याग्रहैकान्ते वा अभ्युपगम्यमाने सहोपलम्भनियमः क ?न कचित् । निरंशसंवेदनानुभवाभावेन अर्थोप१५ लम्भस्यापि दुर्घटत्वात् *"अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति" इति मन्यते । तदनुभवभावे व्यर्थव्युक्तस्यापि (ऽप्यर्थवत् तस्यापि) अलीकत्वात्। क्षांतर्जे (कान्तर्जेय) तत्त्वधीः।
___ कारिकां व्याचष्टे-न च इत्यादिना । न च नैव अनेकान्तमन्तरेण एकान्ते इत्यर्थः । नीलतद्धियोः सहोपलम्भनियमः, तयोः उपलम्भस्यैव अभा[वा]दिति भावः । तदुपलम्भेऽपि
तमन्तरेण स्वयम् अन्ततॆ यतत्त्वस्य 'न च' इति पघटना बहिरन्तस्याप्यसत्त्वात् । अन्त२० बहिश्च भवत्वनेकान्त इति चेत् ; अत्राह-अनेकान्ता(न्ते) ज्ञा योः (ज्ञानार्थयोः) एकानेकात्म
कत्वे अङ्गीक्रियमाणे कथञ्चित् न सर्वथा। किम् ? इत्याह-न इत्यादि । एवं मन्यते-तत्र बहिरन्तर्वा भेदाऽभेदयोः तनियमेऽपि नेकान्तेनैकत्वं तथा नीलतद्धियोरपि । यदि च उपलम्भाऽविशेषेऽपि स्वोपलम्भे तत्त्वग्रहैकान्तः अर्थोपलम्भे मिथ्याग्रहैकान्त इत्यनेकान्ते कथञ्चित् जाग्र
दशायां स्वप्नदशायां (?) शेषंपूर्ववत् । अथवा, [स्व] रूपे विभ्रान्तं ज्ञानम् अर्थ[पी] त्यनेकान्ते २५ बहिरर्थतत्त्वं कथञ्चित् प्रत्यक्षपरोक्षात्मकं यथा प्रमाणं [३३९ख] व्यवस्थितमेव । अनेन तन्नियमस्य भागासिद्धतां दर्शयति-चेतनानीलतारूपेण तद्भावेऽपि क्षणक्षयाद्यात्मना अभावात् ।।
ननु बुद्धर्मिथ्याकारो न स्वाकारः किन्तु पराकारः, ततोऽयमदोष इति चेत् ; अत्राहस्वप्रत्यक्ष इत्यादि।
[स्वप्रत्यक्षपरोक्षात्मज्ञानसिद्धौ न सिध्यति । ३०
अर्थः प्रत्यक्षपरोक्षात्मा एकः कालादिभेदतः ॥२९॥ (१) भेदाभेदयोः। (२) द्विचन्द्रनिर्भासयोः। (३) भ्रान्तम् । (४) निरंशसंवेदनानुभवसद्भावेऽपि । (५) अनुभवस्यापि । (६) सहोपलम्भनियमेऽपि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org