________________
४२३
६।२७]
बहिरर्थसिद्धिः स्वयं सौगतेन, अन्येन तद्विषयीकरणेऽपि तस्य तन्निविषयताऽसिद्धेरिति भावः, अविषयीकृतानाम् , कस्मिन् सति ? इत्याह-स्याद्वादलङ्घने स्वरूपवत् पररूपेऽपि एकस्य ज्ञानस्य ग्रहणशक्तिसद्भावः स्याद्वादः तस्य लङ्घने [३३८क] स्वरूपमात्रपर्यवसितज्ञानपक्ष इत्यर्थः निर्विषयतासिद्धेः कारणात् इष्टविघातकृतं (त) 'स्वयम्' इत्यनुवर्त्तते स्वयमिष्टो वादिना समारोपः तस्य व्या (वि) घातोऽभावः तस्य तत्करणम् । ततः किम् ? इत्याह-विरुद्धः पूर्ववद् अकिञ्चित्करो ५ हेत्वाभासः । अथ स्वयं तेषां विषयीकृतानामेव सर्वमेतदिच्छेत् ; तत्राह-सर्व इत्यादि । पूर्वद्वितीयव्याख्यानवदत्र व्याख्यानम् । अयं तु विशेषः येन प्रत्यक्षेण सर्वज्ञानं (न) निर्विषयतां प्रतिपद्यते' तेन विरुद्धोऽनैकान्तिकश्च हेत्वाभासः पूर्ववद् योज्यः ।
ननु तदपि प्रत्यक्षमानं च निर्विषयमेव तेनायमदोष इति चेत् ; अत्राह- बहिराविशेपात् इत्यादि । 'स्वयम्' इत्येतदत्रापि अनुवर्तते । स्वयं बौद्धस्य न केवलं बहिराविशेषात् १० सन्तानान्तरे स्वहेतुफलसिद्धिः न भवति अपि तु किन्तु स्वसंवेदनं च न सिध्येि]त । तथा च कुतो विभ्रमोऽन्यो वा सिध्येदिति भावः। ततो यथा बहिरर्थ (K) विशेषेऽपि स्वसंवेदनस्यैव सत्त्वम् न बहिरर्थस्य तथा स्वप्नेतरप्रतिभासाविशेषेऽपि जाग्रद्घटादेरेव तत्' इति कथं नाऽसिद्धो हेतुः । अत्राह प्रज्ञा क र:-जाग्रद्घटादिवत् स्वप्नघटादेरपि सत्त्वम् । तदुक्तम्
*"व्यवहारमात्रकमिदं सत्यताऽसत्यतेति च ।
स्वरूपसाक्षात्करणे सत्यतेत्यादि दुर्घटम् ॥" [प्र०वार्तिकाल ० २।३७] इति; तत्राह-तदभ्रान्तैकान्ते तयोः स्वसंवेदन-बहिरर्थ[योः अ]भ्रान्तैकान्ते .अङ्गीक्रियमाणे । अत्रायमभिप्रायः-'सत्यवादीति (सत्यतेत्यादि) दुर्घटम्' इति कोऽर्थः ? यदि सर्वमसत्यम् , सत्यासत्यविभागशून्यं वा; तत्रोक्तं बहिराविशेषादित्यादि [३३८ख] । अथ २० सत्यम्; तत्रेदमुच्यते-सहोपलम्भविरोधाद्विरुद्धो हेत्वाभासः, द्विचन्द्रादावपि सहोपलम्भस्य भेद एव भावादिति भावः ।
. अथवा यदुक्तम्-'बहिरर्थाविशेषात् स्वसंवेदनं च न सिध्येत्' इति तत्र 'स्वसंवेदन [न] प्रतिभासात् सिध्यति, बहिरर्थः विपर्ययात्' इति परैः; तत्राह-तदभ्रान्तैकान्त इत्यादि । अत्र द्वैतं निरंशं क्षणिकं तत्स्वसंवेदनम् , चित्रमेकं वा ? तत्र द्वितीये पक्षे-'तत्र' इत्यादि २५ वक्ष्यमाणं दूषणमिति । प्रथमे दूषणम्-तद् इत्यनेन स्वसंवेदनं परामृश्यते तस्य [अ]भ्रान्तो य एकः असहायः सर्वतोधर्ममित्तसु (स चान्तो धर्मः तस्मिन् अभ्यु)पगम्यमाने सहोपलम्भविरोधात् नीलरूपस्य एकस्य ज्ञानस्यैव, एकेनैव एकस्यैव [वा] उपलम्भस्य विरोधादभावात् , बहिरन्तर्वा असहायस्य उपलम्भनिषेधेन, कारणात् सह यौगपद्येन पृथग वा कालादिभेदेन, वेति समुच्चये, नीलतद्धियोः येनमु (येयम् )नुपलब्धिरदर्शनम् तस्या एव न ३०
(७) तत् प्रत्यक्षं निर्विषयताविषयकत्वात् सविषयमिति भावः । (२) सत्त्वम् । (३) प्रज्ञाकरः । (४) निरंशस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org