________________
४२२
सिद्धिविनिश्चयटीकायाम् [ ६ हेतुलक्षणसिद्धिः भासिनी असदर्थप्रतिभासवती तथा तेन प्रकारेण [३३७क] सर्वत्र स्वपररूपयोः अथवा जाग्रत्स्वप्नयोः या बुद्धि [:] वितथप्रतिभासिनी किन्न वितथप्रतिभासिन्येव प्रतिषेधद्वयेन प्रकृतार्थगतेः । एततत् दूषयति इति एवं जडाः प्रज्ञाहीनाः सौगताः संप्रपेदिरे ज्ञातवन्तः ।
___ कारिका विवृण्वन्नाह-विप्रतिपत्तीत्यादि । तत्र दूषणमाह-सर्वेत्यादि । तात्पर्यमत्र५ अनेनानुमानेन विप्रतिपत्तिविषयापन्नज्ञानानां निर्विषयता साध्येत, सविषयतासमारोपव्यवच्छेदो वा क्रियेत गत्यन्तराभावात् इति ? तत्र आद्य पक्षे अनेन धर्मिणां ज्ञानानामपरिच्छेदे न तद्धर्मस्य निर्विषयत्वस्य परिच्छेदो देवदत्ताग्रहणे तच्छ्यामत्ववत् । तथा च अकिञ्चित्करो हेतुः। तदाह-सर्वज्ञानानां विवादास्पदीभूतवेदनानां स्वयम् आत्मानुमानेन अविषयीकृतानाम् निर्विषयतासिद्धिः (द्धः) कारणाद् इष्टविघातकृत् वादिन इच्छेष्टं (वादिना यदिष्टं) तस्य खण्डनकृत् ,अतश्च हेत्वाभासः । किन्नामेह (किन्नामा ? इत्याह-) विरुद्धः किश्चित्करत्वविपरीतेन अकिञ्चित्करत्वेना (त्वेन)रुद्धः क्रोडीकृतो विरुद्धः । तेषाम् अनेन परिच्छेदे; सिध्यति विषयता (सविषयता) किन्तु तद्वदन्येषामपि प्रतिभासिनाऽर्थेन विषयत्वसिद्धिः, इतरथा अस्यापि न स्यात् इति तदवस्थमकिञ्चित्करत्वम् । एतदेवाह-सर्वज्ञानानां स्वयम् अविषयीकृतानां निर्विषयतासिद्धेः इत्यभिप्रायः । इष्ट [वि घातकृत् इष्टं सौगतस्य जाग्रत्स्वप्नप्रत्ययानां निर्विषयत्वम् १५ तस्य विघातकृत् विरुद्धो हेत्वाभासः । तथाहि-अतव्याप्तः तद्व्याप्तिविभ्रमोषितो (मोपेतो) विरुद्ध इति मनीषिणो मन्यन्ते । [प्र] कृतानुमाने च ग्राह्यग्राहकसंवेदनाकारत्वम् [३३७ख] अन्यद्वा विषयत्वेन व्याप्तं सिद्धम् । तत एवं वक्तव्यम्-जाग्रत्स्वप्नप्रत्ययाः सविषव (याः) ग्राह्यग्राहकसंवेदनाकारत्वाद् अन्यतो वा परकीयहेतोः प्रकृतानुमानवद् इति । स्वप्नज्ञानस्य
सविषयत्वसाधने प्रसिद्धिबाधादिदोष इति चेत् ; जाग्रद्विज्ञानस्य निर्विषयत्वसाधनेऽपि समानः। २० कस्मिन् सति विरुद्धः ? इत्यत्राह-स्याद्वादलङ्घने । किञ्चिद्विज्ञानं सविषयं किञ्चिद् विपरीतम् तदपि कथञ्चित् इति स्याद्वादः तस्य लङ्घने परित्यागे सति । एवं मन्यते यदा यथा बौद्धेन परप्रसिद्धमिथ्यास्वप्नज्ञाननिदर्शनेन सर्वज्ञानस्य मिथ्यात्वं साध्यते तथा परेणापि बौद्धप्रसिद्धसत्यानुमाननिदर्शनेन सर्वज्ञानस्य सत्यता, तदा विरुद्धः । तदा (यदा) तु स्याद्वादमवलम्ब्य 'स्वप्नज्ञानस्य मिथ्यात्वेऽपि प्रकृतानुमानवत् तँदाकारत्वेऽपि किञ्चिद्विज्ञानं सालम्बनं स्यात् , इति २५ साधयति परः, तदाऽनैकान्तिको हेत्वाभास इति ।
__ यदि पुनः समारोपव्यवच्छेदैः क्रियते; तत्राप्युच्यते-निर्विषयेषु सविषयताविकल्पः समारोपः । तदनुमानात् प्राक् तत्र प्रमाणान्तराप्रवृत्तौ कथं निर्विषयतासिद्धिर्यतः तद्विकल्पः" समारोपः, तद्व्यवच्छेदकरणाच्च अनुमानमर्थवद्भवेत् । एतदेवाह-सर्वज्ञानानां स्वप्नेतरप्रत्ययानां
(१) विपरीतेन रुद्धः विरुद्ध इति । (२) विवादास्पदीभूतवेदनानाम् । (३) न केवलमस्यैव । (४) तद्व्याप्तिशून्यः । (५) तद्व्याप्तिविभ्रमकारीत्यर्थः । (६) साध्येत इति । (७) ग्राह्यग्राहकाकारत्वे सत्यपि । (८) विज्ञानवादी । (९)'प्रकृतानुमानेन सविषयतासमारोपन्यवच्छेदः क्रियते' अस्मिन् विकल्पे दूषणमाह । (१०) सविषयताविकल्परूपः समारोपः स्यात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org