________________
६।२७] बहिरर्थसिद्धिः
४२१ [संभ]वादिति । अनेन सन्दिग्धासिद्धतां दर्शयति । विचारितं चैतदनन्तरम् । अनैकान्तिकतामाह-बहूनामपि न केवलमेकस्य द्रव्याणाम् । अनेन तत्पक्षीकरणं निषेधति, नहि जीवादीनाम् एकज्ञानो (ज्ञाने) पक्षीकरणमात्रेण एकत्वं प्रमाणबाधनात् । 'पर्यायाणाम्' इत्युच्यमाने तेषां द्रव्यापेक्षया एकत्वात् स्यादपि पक्षीकरणम् । एकज्ञानोपलम्भः एकेन ज्ञानेन [उपलम्भस्य] दर्शनस्य अप्रतिषेधात् निषेधाभावात् । अन्यथा [३३६ ख] व (च) सकलशून्यतेत्युक्तम् । ५ __अर्थान्तरमाशङ्कते दूषयितुं यदि इत्यादिना । सहोपलम्भनियमाद् इति हेतुः स यदि पुनः असहानुपलम्भ इति स्यात् ; तत्र दूषणं को विशेष इति पूर्वोक्तादर्थात् न कश्चिदस्य भेदः । तथाहि-पर्युदासवृत्त्या सहानुपलम्भः पृथगुपलम्भः अस्य नजाति सम्बन्धे (ना' अभिसम्बन्धे) तवृत्त्या सहोपलम्भ इति प्राप्तिः । अथात्र प्रसज्यप्रतिषेधोऽपेक्षा (क्ष्यते ;) तर्हि साध्यमपि तथाविधमस्तु अन्यथा सम्बन्धाऽसिद्धः। तथेति चेत् ; अत्राह-प्रसज्येत्यादि । १० प्रसज्यप्रतिषेधमात्रमसाध्यसाधनम् साध्यं न भवति साधनं च न भवति इत्यर्थः । कयोरिव ? इत्यत्राह-सस्येव (शशविषाण-खरविषाणयोरिव) इत्यादि । कुतः ? इत्याह-अर्थाद् धूमादेः [स]काशाद् अर्थस्य अग्न्यादेर्या गतिः प्रतिपत्तिः तस्या लक्षणाद् दर्शनात् । अथवा [अर्थ]सम्बन्धि यल्लक्षणम्-*"अर्थो ह्यर्थं मयता (गमयति)" इति शास्त्रं तदाश्रित्येति ।
आह उक्त (क्त) भवता-'नीलाकारस्य ज्ञानस्यैकस्य उपलम्भो नार्थस्य तन्नियम न्यत्र १५ (मः, तत्र) असिद्धो हेतुः अर्थस्याप्युपलम्भात्' इति ; तन्न युक्तम् ; अर्थस्य स्वसदसत्समयभाविन [:] केनचिदग्रहणात् । न चैकस्य उभयत्र व्यापारी विरोधात् इति चेत् ; अत्राह-विज्ञानस्य इत्यादि । चर्चितमेतद् बहुशः पुनर्न चर्चनमर्हति ।। ___ 'भ्रान्तैकान्तवद्' इति निदर्शनं सावपि तु (साधयितुं) भ्रान्तैकान्ते [त्यु] पन्यस्य दूषयति-'विप्लुताक्षा' इत्यादिन (ना) ।
[विप्लुताक्षा यथा वुद्धिर्वितथप्रतिभासिनी ।
तथा सर्वत्र किन्नेति जडाः सम्प्रतिपेदिरे ॥२७॥ विप्रतिपत्ति विषयापन्नज्ञानानां [निर्विषयतासाधने] सर्वज्ञानानां स्वयमविषयीकतानां निर्विषयतासिद्धेः स्याद्वादलङ्घने इष्टविघातकृत् विरुद्धः बहिराविशेषात् स्वसंवेदनं च न सिध्येत् । तदभ्रान्तैकान्ते सहोपलम्भविरोधात् सह पृथग्वा द्विचन्द्रनिर्भासवत् २५ नीलतद्धियोरनुपलब्धेरेव भेदाभेदयोरभावसाधने व्यतिरेकसिद्धिविरुध्येत ।]
विप्लुतानि अक्षाणि यस्याः सा तथोक्ता बुद्धिः कामलाद्युपहतेन्द्रियकेशोणु (ण्डु)कादिर्बुद्धिरिति यथा येन ग्राह्यग्राहकादिप्रवृत्तप्रकारेण अन्येन वा चि तथा (वितथ)प्रति
(१) असहानुपलम्भ इत्यत्र नसमासे । (२) अभावरूपमेव । (३) "अर्थादर्थगतेः"-प्र० वा. ४११५ । (४) ज्ञानकालीनस्य अर्थस्य ज्ञान प्रति कारणत्वाभावात् सहभाविनोः कार्यकारणभावाभावात् । ज्ञानकालेऽविद्यमानस्य ग्राह्यत्वे सकलातीतानागतस्य ग्रहणप्रसङ्ग इति भावः । (५) पूर्वपक्षः-"यथास्वं प्रत्ययापेक्षादषिद्योपप्लुतात्मनाम् । विज्ञप्तिर्वितथाकारा जायते तिमिरादिवत् ॥"-प्र. वा० २।२१७ । (६) निरालम्बे नभसि केशाकारा उण्डुकाकारा-मशकाद्याकारा या बुद्धिः।
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org