________________
सिद्धिविनिश्चयटीकायाम् [६ हेतुलक्षणसिद्धिः ___ स्याच्छब्दः (ब्द)प्रापितं परमप्यर्थ (थ) दर्शयन्नाह-तदेक इत्यादि । तेन विवक्षितनीलज्ञाने[न एकस्मिन् क्षणे वर्तितुं शीलानाम् एकक्षणभाविसन्तानान्तरज्ञानानाम् इत्यर्थः । सहोपलम्भनियमात् । तदपि कुतः ? इत्याह-स्वयम् आत्मनो वा वेदनेनोत्पत्ते[:] । ततः किम् ? इत्याह-दि [सकलं जगदिति । न चैवम् , अतो व्यभिचारी हेतुः इति भावः ।।
स म न्त भद्र स्य तु मतम्-*"ययोः........ "सहोपलम्भ" इत्यादिना [३३५ख] तदभेदे च न ग्राह्यग्राहकतया तन्नियम इति च ग्राहकाभिमता [त] ग्राह्यस्य भेदे न तेनास्य ग्रहणम् अ[न]न्यवेद्यनियमाद् अपि तु स्वयमेव तदपि प्रतिभाति, तथापि सहोपलम्भनियमात् तयोरभेदे तदेकेत्यायुक्तम् । तदेतदित्थम् अन्ये परिहरन्ति-नीलतद्धियोरभेदे नैकत्वम् अपि तु ज्ञानत्वेन
सदृशत्वम् , यथा ज्ञानं ज्ञानं तथा नीलमपि सहोपलम्भनियमात्तथा........ 'दस्ति इति न तैः १० व्यभिचारो हेतोः विपक्षे[5]गमनादिति ; ते न युक्तकारिणः ; यतो यदि यज् ज्ञानेन सह
उपलभ्यते तदपि ज्ञानं तर्हि नीलज्ञानकक्षणवर्तिनां ज्ञानान्तराणां सहोपलम्भनियमात् नीलत्वमापद्येत । पुनः तत्कार्यस्यापि ज्ञानस्य नीलत्वे तदवस्थो दोषः पुनरपि तदवस्थ इति नीलमात्रं जगत् । तदाह तदेकेत्यादि । तेन नीलज्ञानेन एकक्षणवर्तिनां स्वयम् आत्मनो वेन
(वेदने)नोत्पत्तेः कारणात् अनेन सहवृत्तिवद् वेदनमपि सहैव दर्शयति-सहोपलम्भनियमात १५ सकल(लं) जगद् एकसन्तानं सदृशसन्तानं प्रसज्येत । न चैवं परेस्ति (परेष्टि)स्ततो . व्यभिचारी हेतुः । तत्र न तन्नियममात्रात् नीलं ज्ञानमिति गम्यते अपि तु ज्ञानवत् स्वयं प्रति
भासनात् । न च नियतनीलज्ञानवत् सर्वज्ञज्ञानं नीलतया चकास्ति येनातिप्रसङ्गः स्यादिति चेत् ; तर्हि 'नीलं ज्ञानं स्वयं प्रकाशनात् तज्ज्ञानवत्' इत्येवास्तु किं व्यभिचारिणा तन्नियमेन ?
तदेवास्तु इति चेत् ; न ; [३३६ क] परत एव तत्प्रतिभासप्रतिपादनात् ।। २० परस्य तु दर्शनं विवैक ज्ञान (चित्रैकज्ञाना)द्वैताभ्युपगमात् सकलं जगद् एकज्ञानमिष्यते
न पुनः एकसन्तानं तदभावात् इति न तेन तद्व्यभिचार इति; तन्न सूक्तम् ; नीलमात्रदर्शिनोऽपि सकलजगदपेक्षचित्रत्वप्रतीतिप्रसङ्गात् अन्यथा 'नानकम्' इत्युक्तं भवेत् युगपदिव क्रमेणापि च तत्प्रसङ्गात् । अत आह-सकलम् इत्यादि ।।
___एवं यौगपद्यार्थं सहशब्दं निरूप्य निपातानामनेकार्थत्वात् एकार्थं निरूपयन्नाह-यदि २५ इत्यादि । यदीति पराभ्युपगमसूचकः, पुनरिति पक्षान्तरस्य', एकज्ञानोपलम्भनियमः एकस्य
ज्ञानो (ज्ञानस्य उ) पलम्भो नार्थस्य इति तन्नियमः, एकेन ज्ञा[ने]नोपलम्भो नीलस्य न तदन्तरेण इति वा तन्नियमो हेतुः सहोपलम्भनियमो यदीत्यर्थः । आद्य पक्षे दूषणमाह-असिद्धो 'हेतुः' इत्यनेन सम्बन्धः, अर्थस्याप्युपलम्भात् । द्वितीये आह-अनैकान्तिकश्च इति । अनैकान्तिको
व्यभिचारी । च शब्दाद् असिद्धो हेतुः इति । असिद्धतां दर्शयन्नाह-नीलस्य इत्यादि । कस्य३. चिन्नतक्यादिगतस्य सकुच्छब्देन सहिति (सह इति) व्याख्यातम् , अनेकेन ज्ञानेन उपलम्भ
(१) नीलत्वापत्तिलक्षणः । (२) स्यादिति । (३) सहोपलम्भनियममात्रात् । (४) सहोपलम्भनियमेन । (५) नीलप्रतिभास । (६) सन्तानाभावात् । (७) अनेकमेकरूपम् । (८) सहशब्दम् । (९) सूचक इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org