________________
६।२६]
बहिरर्थसिद्धिः वधारणाद् इति सिद्धः (?) कथमन्यथा *"तद्विशेषावधारणे इष्यत एव सर्वथा गम्यगमकभावः" इति वचनं शोभेत ? न चायमेकान्तः 'दृष्टान्तसाधर्म्यात् सामान्यमेव अनुमेयम्' इति, *"विदुषा (षां) वाच्यो हेतुरेव हि केवल" [प्र० वा० ३।२६] 'इति वचनात् । मा वा भूत्-'यमर्थं पश्यत्ययं तमेव अन्योऽपि' इति निश्चिता प्रतीतिः, तथापि परेण तदर्शननिषेधाभावात् तन्नियमस्य सन्दिग्धाऽसिद्धता । अथ नर्थक्य (नर्तकी अ) न्यदर्शनविकला ५ प्रतीतिनियत(ता) इति तदाधनम् ; तर्हि खलविलान्तर्गतबीजाद् अकुरं तद्विविक्तं प्रतीयते इति न तत्रं तद्व्यापारः । ततो यथा कार्ये [अ]दृष्टस्यापि कारणस्य व्यापारः तथा प्रमेये अन्यज्ञानस्य संभाव्येत । हेतुफलभावानभ्युपगमे च तन्नियमात नीलतद्धियोरभेदस्य अनुमानमयुक्तम् । व्यवहारेण तदङ्गीकरणं (णे), तेनैव तनियमस्य सन्दिग्धासिद्धतामन्वाकर्षति इति यत्किञ्चिदेतत् ।
स्यान्मतम्-यज्ज्ञानस्याकारोऽसौ तेन वेद्यते नान्येन ; तन्न ; यतः तदाकारता तस्याः (तस्य) कुतः सिद्धा ? तन्नियमादिति चेत् ; अन्योऽन्याश्रयात् [३३५ क]-सिद्धे तदाकारत्वे तन्नियमः सिध्यति, ततः तदाकारत्वम् । अन्यतश्चेत् ; अस्य वैफल्यम् ।
___सिध्यतु वा कुतश्चित् तदाकारत्वम् , तथापि सुगतेन तद्वेद[ने तद]वस्थोऽपि दोषः। [त]तस्तद्विज्ञानावेदनेऽपि पृथग्जतेन (ग्जनेन) तदर्थवेदनात् कथं सुगतः सर्वज्ञ स्त तदतात् १५ कथं सुगतः , सर्वज्ञस्ते तदवेदने ?
अपरस्तु मन्यते
*"ग्राह्यं न तस्य ग्रहणं न तेन ज्ञानान्तरग्राह्यः(ह्य)तयापि शून्यः ।
तथापि च ज्ञानमयः प्रकाशः प्रत्यक्षपक्षस्य तथाविवा(रा)सीद् ॥" इति वचनात् नाऽशेषज्ञाता (ज्ञता) तस्य सर्वज्ञता अपि तु स्व[रूपज्ञता], तस्याप्येतन्न . सुन्दरम् ; इतरस्मात्तदविशेषात् *"प्रमाणभूताय" [प्रमाणसमु० श्लो० १] "इत्यादेः आनर्थक्यप्रसङ्गात् । व्यवहारेण तदभिधानेऽप्युक्तम्-'तेनैव हेतोरसिद्धत्वम्' इति ।
___ यदि च स” तथाविधो न कुतश्चित् प्रतिपन्नः; कथमस्ति येन "तथा स्तूयते ? तदिदमायातम्-यथा ईश्वरे नित्येऽप्यप्रमाणता तथा सुगतेऽपि प्रमाणशून्यता । अथ प्रतिपन्नः ; तर्हि भवता सुगतोऽपि ज्ञायते न तेन" परं किञ्चिदिति मूढता । ततस्तस्य अस्तितत्त्व (स्तित्वमव)गम्यते विशेष (पं) वाभ्युपगच्छंता . . . . . . . . 'मिति कथं न प्रकृतो दोषः ? तत् [:] स्थितं 'कुतो नियमः' इति ।
(1) तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः । ख्याप्येते...' इति शेषः । (२) अङकुरे । (३) सहोपलम्भनियमात् । (४) व्यवहारेणैव । (५) तज्ज्ञानेनैव । (६) ज्ञानस्य । (७) सहोपलम्भनियमात् । (6) $ एतदन्तर्गतः पाठो द्विलिखितः । (९) सुगतस्य । (१०) 'जगद्धितैषिणे प्रणम्य शास्त्रे सुगताय तायिने । · प्रमाणसिद्ध्यै स्वकृतिप्रकीर्णनात् निबध्यते विप्रसृतं समुचितम्' इति शेषः ।-प्रमाणसमु० । 'जगद्धितैषिणे प्रणम्य शास्त्रे सुगताय तायिने । कुतर्कसम्भ्रान्तजनानुकम्पया प्रमाणसिद्धिर्विधिवद्विधीयते।' इति शेषः-प्र० वार्तिकाल० पृ० १ । (११) सुगतः । (१२) प्रमाणात् । (१३) 'प्रमाणभूताय' इत्यादिरूपेण । (१४) सुगतेन ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org