________________
४१८
सिद्धिविनिश्चयटीकायाम् [६ हेतुलक्षणसिद्धिः तस्य आत्मवेदनम् तयोरन्यतरस्य भ्रान्तेः प्रत्यक्षत्य वा [अ]भावात् न क्वचित् तदभेदेऽन्यत्र वा भ्रान्तिज्ञानं मिथ्यानुमानं स्याद् भवेत् , ततो लाभमिच्छतो मूलोच्छेदः । अनुमानेन तद्भेदसिद्धिमिच्छतोऽनुमानमेव नष्टम् । तदभावः कुतः ? इत्यत्राह-तदेकान्तेन इत्यादि । तन्नियमाद् योऽसौ भ्रान्तिप्रत्यक्षयोः तदेकान्तो भेदैकान्तः तेन हेतुना भ्रान्त्या साधारणाs५ स्पष्टनिर्भासेन विविक्तो विकलः प्रत्यक्षस्य स्वला (स्वस)वेदनाध्यक्षस्य यः स्वभावः तस्य उप
पत्तेः कारणात् । एतदुक्तं भवति-यदा भ्रान्तिः प्रत्यक्षादभिन्ना भवति तदा तदेवं सौ। यद् यस्मादभिन्नं तत् तदेव भवति यथा प्रत्यक्षस्वरूपम् , अभिन्ना च भ्रान्तिस्तत इति । प्रत्यक्षविविक्तभ्रान्तेः प्रसङ्गात् कारणात् , तदभावात् न कचिद् भ्रान्तिज्ञानं स्यात् । अत्रायम
(अत्रान्वय) दृष्टान्तमाह-सुषुप्तवद् इति । गाढनिद्राक्रान्तः सुषुप्तः तस्य इव तद्वत् । एवं १० मन्यते-भ्रान्तः प्रत्यक्षस्याभेदे "सैव तद् इति साधारणविशदाकारमानं स्वसंवेदनरहितं
प्रमाणत्राणश्च न्यं (प्रत्यक्षप्रमाणञ्च) प्रसक्तम् । न चैवं पराभ्युपगमः । ततोऽनुमानाभ्युपगमाद् भ्रान्तिप्रत्यक्षयोः भेद एव तन्नियमसद्भावाद् विरुद्धो हेतुः इति भावः । अनेन व्यतिरेकमुखेन 'सहोपलम्भनियमात् स्याङ्दो नीलतद्धियोः' इति व्याख्यानम् (तम्)। १५ निपातस्याच्छब्दलब्धमर्थ दर्शयन्नाह-नील इत्यादि । नीलतद्धियोर्दर्शनात । क ?
इत्यत्राह-बहिरन्तश्च नीलस्य बहिः तद्धियोऽन्तः, चशब्दाद् अन्य[दा] स्मर्यमाणानुमेयार्थयोः अन्यदा स्मरणानुमानयोः इति दर्शयति । ततः किम् ? इत्याह-कुत इत्यादि । कुतो न कुतश्चित् मानात् सहोपलम्भनियमः सिद्धो हेतुः इत्यर्थः । प्रकारान्तरेण तदसिद्धतां दर्शयन्नाह-सकृद् एकहेलया एकस्मिन्नर्थे नर्तक्यादौ उपनिबद्धा व्यापृता दृष्टिर्येषां ते तथोक्ताः २० पुरुषाः तेषां परज्ञानानुपलम्भेऽपि न केवलं पुरुषविशेषाणामुपलम्भे तदर्थदर्शनात् तेषां पुरुषाणां ज्ञानानां च अर्थस्य दर्शनात् कुतो नियमः सहोपलम्भस्य ?
___ ननु तज्ज्ञानानुपलम्भे कथमयं तदर्थ इति ज्ञायते १ *"द्विष्ठसम्बन्धसंवित्तिः" [प्र. वार्तिकाल० २।१] "इत्यादि वचनात् । अथ पुरुषाणां तत्र प्रवृत्तिदर्शनात् 'तज्ज्ञानविषयीकृतोऽ
सौ अर्थः' इति परिच्छिद्यते ; एवं तर्हि य ए[व] केनचिदुपलभ्यते स एव परेणापि इति २५ अनुमानादवगम्य[ते] तथा च द्वयोः समानप्रवृत्तिदर्शनात् समानार्थदर्शनं सिध्येत् । सामान्यविषय[३३४ ख]त्वादनुमानस्य नैकार्थदर्शनम् , अन्यथा सदृशरोमाञ्चकञ्चुकितत्वदर्शनात् एकसुखप्रतिपत्तिः स्याद् इति चेत् ; तदसत् ; यतः पशवोऽपि स्वदर्शनाभिलषितां पशुयोषितम् अन्यैरभिलषितां प्रतिपद्यमानाः तैः सार्धं बु (यु)द्ध्यमाना दृश्यन्ते। 'यादृश्यस्माभिरभिलषिता तादृशी अन्यैः' इति प्रतिपत्तौ तदयोगात् । कुतस्ते तथा प्रतिपद्यन्ते इति चेत् ; कार्यविशेषा
(१) भ्रान्तिज्ञानस्य । (२) गृह्यते । (३) यौगपद्योपलम्भात् । (४) प्रत्यक्षमेव । (५) भ्रान्तिः । (६) प्रत्यक्षतः। (७) भ्रान्तिरेव। (6) प्रत्यक्षम् । (९) स्यादिति निपातलब्धम् । (10) 'नैकरूपप्रवेदनात् । द्वयस्वरूपग्रहणे सति सम्बन्धवेदनम् ॥ इति शेषः ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org