________________
६।२६]
बहिरर्थसिद्धिः
४१७ पृथगुपलम्भः, तस्य नया प्रसज्यप्रतिषेधवाचिना, न पर्युदासवाचिना उक्तार्थप्रसङ्गात् , अभिसम्बन्धे पृथगुपलम्भाभावः असहानुपलम्भः सहोपलम्भः । सहशब्दस्य अनेकार्थत्वात् । चेत् शब्दः पराभिप्रायद्योतकः । अत्र दूषणम् असिद्धो हेतुः अस्मिन्नर्थे सहोपलम्भलक्षणः । कुतः ? इत्याह-ईक्षणात् नीलतद्धियोः पृथग दर्शनात् । तथाहि-प्रमातरि अहमहमिकया ज्ञानं प्रतीयते अन्यत्रं घटादिकं समानकालेऽपि । तथा अन्यदा स्मर्यमाणोऽर्थः अन्यदा स्मरणम्। ५ अस्यै च निर्विषयत्वे अननुमानम् , तत्काले सम्बन्धाऽग्रहणात् । पूर्व तद्वहत्तद्भावे तदहद्ग्रहाद् (पूर्व तद्ग्रहात्तदा तद्भावे बाल्ये तद्ग्रहाद्) वृद्धदशायां तद्भावप्रसङ्गः । अरिष्टादिलिङ्गाद् भाविनो मरणादेरनुमाने कालपृथक्त्वेन अनुमानानुमेययोः प्रतिभासनं सिद्धमेव ।
एतेन योगपद्योपलम्भनियमोऽपि चिन्तितः; सर्वत्राभावात् । अथ स्वरूपा[न्ना]न्यत्र ज्ञानवृत्तिः तेनायमदोषः; उक्तमत्र अन्यत्रापि तवृत्तिदर्शनात् ।
किंच, नीलतद्धियोरभेद स्यात् (दस्यानु) मानेनाऽविषयीकरणे किं सहोपलम्भनियमोपन्यासेन ? समारोपव्यवच्छेदोऽपि चिन्तितोऽस्मभिरन्यत्र । धर्मिसाध्यधर्मानुमा [३३३ख] नानाम् अभेदो अभिन्न- (अभेदे नानुमानम् । भिन्न) वेदने सिद्धं पृथगुपलम्भनम् ।
सहशब्दस्य एकार्थवाचित्वात् 'एकस्य ज्ञानस्यैव उपलम्भनियमः सहोपलम्भनियमः' इति एतेन निरस्तम् ; उंभयोरुपलम्भात् । यदि वा, 'स्याद्' इति निपातोऽयम् , अतः शेषहे- १५ त्वादिदोषपरिग्रहः ।
कारिकां विवृण्वन्नाह-सहोपलम्भ इत्यादि । [सहोपलम्भनियमात्] योगपद्योपलम्भनियमाद् अभेदैकान्तसाधने अङ्गीक्रियमाणे 'नीलतद्धियोः' इति वक्ष्यमाणेन सम्बन्धः । किम् ? इत्यत्राह-भ्रान्तीत्यादि । भ्रान्तिशब्देन *"भ्रान्तिरपि सम्बन्धतःप्रमा" इति वच. नास् नीलतद्विज्ञानयोः अभेदैकान्तानुमानस्य अनुमेये विभ्रमो गृह्यते । प्रत्यक्षशब्दे (ब्देन च) २० *"सर्वचित्तचैत्तानामात्मसंवेदनं प्रत्यक्षमविकल्पकम्" [न्यायबि० १।१०] इत्यभिधानात् , तदुपलम्भानामन्यसम्तानगतानामनुपलम्भात् । यदा च सत्वं प्राणभृतां सर्वे चित्तक्षणाः सर्वज्ञेनावसीयन्ते तदा कथमेकेनैवोपलम्भः सिद्धः स्यात् । किंच, अन्योपलम्भनिषेधे सत्येकोपलम्भनियमः सिध्यति । न चान्योपलम्भप्रतिषेधसंभवः स्वभावविप्रकृष्टस्य विधिप्रतिषेधायोगात् । अथ सहशब्द एककालविवक्षया; तदा बुद्धज्ञेयचित्तेन चित्तचैत्तैश्च सर्वथा अनैकान्तिकता हेतोः। यथा किल बुद्धस्य भगवतो यद्विज्ञेयं सन्तानान्तरचित्तं तस्य बुद्धज्ञानस्य च सहोपलम्भनियमेऽप्यस्त्येव च नानात्वम् , तथा चित्तचैत्तानां सत्यपि सहोपलम्मे नैकत्वमित्यतोऽनैकान्तिको हेतुरिति।.."स्यादेतत् यद्यपि विपक्षे सत्वं न निश्चित सन्दिग्धं तु, ततश्चानैकान्तिको हेतुः सन्दिग्धविपक्षव्यावृत्तिकत्वात् ।"-तत्त्वसं०प० पृ०५६७-६९। “सहोपलम्भनियमान्नाभेदो नीलतद्धियोः । विरुद्धासिद्धसन्दिग्धव्यतिरेकानन्वयत्वतः ॥"-न्यायवि. १८३। शाबरभा० बृह. पं०११।५ । शा० भा० भामती २।२।२८ । योगसू० तत्त्ववै० ४।१४ । न्यायकणि पृ० २६४। अष्टश० अष्टस० पृ. २४२। प्रमेयक पृ० ७९। न्यायकुमु० पृ० १२२। सन्मति० टी० पृ. ३५२ । स्या. रत्ना० पृ० १५२।
(१) भूतलादिप्रदेशे । (२) अतीते । (३) वर्तमाने । (४) स्मरणस्य । (५) अनुमानोत्पत्तिर्न स्यात् । (६) अविनाभावसम्बन्ध । (७) घटादौ बहिरर्थे । (८) मतम् । (९) ज्ञानस्य अर्थस्य च । (१०) द्रष्टव्यम् -पृ. ८२ टि०४।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org